Showing posts with label 1818 18th Chapter 18th Sloka. Show all posts
Showing posts with label 1818 18th Chapter 18th Sloka. Show all posts

Tuesday, December 2, 2025

18th Chapter 18th Sloka

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।

करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ॥ १८.१८ ॥

 

jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā |

karaṇaṃ karma karteti trividhaḥ karmasaṅgrahaḥ || 18.18 ||

 

ज्ञानम् 1/1 ज्ञेयम् 1/1 परिज्ञाता 1/1 त्रिविधा 1/1 कर्मचोदना 1/1

करणम् 1/1 कर्म 1/1 कर्ता 1/1 इति 0 त्रिविधः 1/1 कर्मसङ्ग्रहः 1/1 १८.१८ ॥

 

 

·       ज्ञानम् [jñānam] = knowledge (cognition corresponding to an object) = ज्ञान (n.) + प्रातिपदिकार्थे 1/1

·       ज्ञेयम् [jñeyam] = object of knowledge = ज्ञेय (n.) + प्रातिपदिकार्थे 1/1

·       परिज्ञाता [parijñātā] = knower = परिज्ञातृ (m.) + प्रातिपदिकार्थे 1/1

·       त्रिविधा [trividhā] = three-fold = त्रिविध (f.) + adj. to कर्मचोदना 1/1

·       कर्मचोदना [karma-codanā] = impeller of action = कर्मचोदना (f.) + कर्तरि to (भवति) 1/1

·       करणम् [karaṇam] = instrument / means of doing = करण (n.) + प्रातिपदिकार्थे 1/1

·       कर्म [karma] = object of action = कर्मन् (n.) + प्रातिपदिकार्थे 1/1

·       कर्ता [kartā] = agent / doer = कर्तृ (m.) + प्रातिपदिकार्थे 1/1

·       इति [iti] = thus = अव्ययम्

·       त्रिविधः [trividhaḥ] = three-fold = त्रिविध (m.) + adj. to कर्मसङ्ग्रहः 1/1

·       कर्मसङ्ग्रहः [karma-saṅgrahaḥ] = summary/constituents of action = कर्मसङ्ग्रह (m.) + कर्तरि to (भवति) 1/1

 

 

Knowledge (the thought corresponding to an object), the object of knowledge, (and) the knower are the three-fold impellers of action. The means of doing (instrument), the object of the action, and the agent are the three-fold constituents of action.

 

Sentence 1:

ज्ञानम् 1/1 ज्ञेयम् 1/1 परिज्ञाता 1/1 त्रिविधा 1/1 कर्मचोदना 1/1। करणम् 1/1 कर्म 1/1 कर्ता 1/1 इति 0 त्रिविधः 1/1 कर्मसङ्ग्रहः 1/1

Knowledge (ज्ञानम् 1/1) (the thought corresponding to an object), the object of knowledge (ज्ञेयम् 1/1), (and) the knower (परिज्ञाता 1/1) are the three-fold (त्रिविधा 1/1) impellers of action (कर्मचोदना 1/1). The means of doing (करणम् 1/1) (instrument), the object of the action (कर्म 1/1), and the agent (कर्ता 1/1) are the three-fold (इति 0 त्रिविधः 1/1) constituents of action (कर्मसङ्ग्रहः 1/1).

 

 

अथ इदानीं कर्मणां प्रवर्तकम् उच्यते

ज्ञानम् 1/1 ज्ञेज्ञायते अनेन इति सर्वविषयम् अविशेषेण उच्यते । तथा ज्ञेयम् 1/1 ज्ञातव्यम् , तदपि सामान्येनैव सर्वम् उच्यते । तथा परिज्ञाता 1/1 उपाधिलक्षणः अविद्याकल्पितः भोक्ता । इति एतत् त्रयम् अविशेषेण सर्वकर्मणां प्रवर्तिका त्रिविधा 1/1 त्रिप्रकारा कर्मचोदना 1/1। ज्ञानादीनां हि त्रयाणां संनिपाते हानोपादानादिप्रयोजनः सर्वकर्मारम्भः स्यात् । ततः पञ्चभिः अधिष्ठानादिभिः आरब्धं वाङ्मनःकायाश्रयभेदेन त्रिधा राशीभूतं त्रिषु करणादिषु सङ्गृह्यते इत्येतत् उच्यते करणम् 1/1 क्रियते अनेन इति बाह्यं श्रोत्रादि, अन्तःस्थं बुद्ध्यादि, कर्म 1/1 ईप्सिततमं कर्तुः क्रियया व्याप्यमानम् , कर्ता 1/1 करणानां व्यापारयिता उपाधिलक्षणः, इति 0 त्रिविधः 1/1 त्रिप्रकारः कर्मसङ्ग्रहः 1/1, सङ्गृह्यते अस्मिन्निति सङ्ग्रहः, कर्मणः सङ्ग्रहः कर्मसङ्ग्रहः, कर्म एषु हि त्रिषु समवैति, तेन अयं त्रिविधः कर्मसङ्ग्रहः ॥ १८.१८ ॥

 

 

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.