भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति ॥१.२५॥
bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām |
uvāca pārtha paśyaitān samavetān kurūniti ||1.25||
भीष्मद्रोणप्रमुखतः 0 सर्वेषाम् 6/3 च 0 महीक्षिताम् 6/3 ।
उवाच III/1 पार्थ S/1 पश्य II/1 एतान् 2/3 समवेतान् 2/3 कुरून् 2/3 इति 0 ॥१.२५॥
· भीष्मद्रोणप्रमुखतः [bhīṣmadroṇapramukhataḥ] = facing Bhīṣma and Droṇa= अव्ययम्
o भीष्मः च द्रोणः च भीष्मद्रोणौ । इतरेतरद्वन्द्वसमासः ।
o भीष्मद्रोणाभ्यां प्रमुखम् । headed by Bhīṣma and Droṇa
o भीष्मद्रोणप्रमुखे । in front of Bhīṣma and Droṇa
· सर्वेषाम् [sarveṣām] = of all = सर्व (pron. m.) + adj. to महीक्षिताम् 6/3
· च [ca] = and = अव्ययम्
· महीक्षिताम् [mahīkṣitām] = rulers = महीक्षित् (m.) + सम्बन्धे to [प्रमुखतः] 6/3
o महीं क्षयति इति महीक्षित् ।
o मही + क्षि (1P) to rule, govern + क्विप्
· उवाच [uvāca] = [हृषीकेशः] said = वच् (2P) to say + लिट्/कर्तरि/III/1
· पार्थ [pārtha] = O Arjuna! = पार्थ (m.) + सम्बोधने 1/1
· पश्य [paśya] = see = दृश् (1P) to see + लोट्/कर्तरि/II/1
· एतान् [etān] = these = एतद् (pron. m.) + adj. to कुरून् 2/3
· समवेतान् [samavetān] = assembled = समवेत (m.) + adj. to कुरून् 2/3
o सम् + अव + इण् to meet + क्त (कर्तरि) = समवेत
· कुरून् [kurūn] = members of कुरु family = कुरु (m.) + कर्मणि of पश्य 2/3
· इति [iti] = thus = अव्ययम्
… right in front of Bhīṣma, Droṇa and all the rulers and spoke thus: “Pārtha! Please look at these Kauravas who have gathered here.”
… right in front of Bhīṣma, Droṇa (भीष्मद्रोणप्रमुखतः 0) and (च 0) all (सर्वेषाम् 6/3) the rulers (महीक्षिताम् 6/3) and spoke (उवाच III/1) thus (इति 0): “Pārtha (पार्थ S/1)! Please look (पश्य II/1) at these (एतान् 2/3) Kauravas (कुरून् 2/3) who have gathered here (समवेतान् 2/3).”
Main Sentence (continued form the previous verse):
[हृषीकेशः 1/1] भीष्मद्रोणप्रमुखतः 0 सर्वेषाम् 6/3 च महीक्षिताम् 6/3 उवाच III/1।
Kṛṣṇa (हृषीकेशः 1/1) said (उवाच III/1) in front of Bhīṣma and Droṇa (भीष्मद्रोणप्रमुखतः 0) and (च) all (सर्वेषाम् 6/3) the rulers (महीक्षिताम् 6/3).
What he said is told in the quote indicated by “इति”:
पार्थ S/1 पश्य II/1 एतान् 2/3 समवेतान् 2/3 कुरून् 2/3 इति 0 ॥२५॥
O Arjuna! (पार्थ S/1) see (पश्य II/1) these (एतान् 2/3) family members of Kuru (कुरून् 2/3) assembled (समवेतान् 2/3) [in the battle field].