Showing posts with label 1320 13th Chapter 20th Sloka. Show all posts
Showing posts with label 1320 13th Chapter 20th Sloka. Show all posts

Wednesday, May 17, 2023

13th Chapter 20th Sloka

कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।

पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ १३.२० ॥

 

kāryakaraṇakartṛtve hetuḥ prakṛtirucyate |

puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve heturucyate || 13.20 ||

 

कार्यकरणकर्तृत्वे 7/1 हेतुः 1/1 प्रकृतिः 1/1 उच्यते III/1

पुरुषः 1/1 सुखदुःखानाम् 6/3 भोक्तृत्वे 7/1 हेतुः 1/1 उच्यते III/1 ॥ १३.२० ॥

 

May you know that both prakṛti and puruṣa are indeed beginningless. May you also know that the modifications, and the qualities are indeed born of prakṛti.

 

May you know (विद्धि II/1) that both (उभौ 2/2 अपि 0) prakṛti (प्रकृतिम् 2/1) and ( 0) puruṣa (पुरुषम् 2/1) are indeed (एव 0) beginningless (अनादी 2/2).

May you also ( 0) know (विद्धि II/1) that the modifications (विकारान् 2/3), and ( 0) the qualities (गुणान् 2/3) are indeed (एव 0) born of prakṛti (प्रकृतिसम्भवान् 2/3).

 

·       प्रकृतिम् [prakṛtim] = prakṛti = प्रकृति (f.) + कर्मणि to विद्धि 2/1

·       पुरुषम् [puruṣam] = puruṣa = पुरुष (m.) + कर्मणि to विद्धि 2/1

·       [ca] = and = अव्ययम्  

·       एव [eva] = indeed = अव्ययम्  

·       विद्धि [viddhi] = May you know = विद् (2P) to know + लोट्/कर्तरि/II/1

o   विद् + हि 3.4.87 सेर्ह्यपिच्च । ~ लस्य लोटः

विद् + धि               6.4.101 हुझल्भ्यो हेर्धिः ।

·       अनादी [anādī] = beginningless = अनादि m. + O.C. to उभौ 2/2

o   न विद्यते आदिः ययोः 6/2 तौ अनादी (NB) ।

·       उभौ [ubhau] = both = उभ m.+ pronoun of प्रकृतिम् and पुरुषम् (प्रकृतिपुरुषौ) 2/2

·       अपि [api] = also = अव्ययम्  

·       विकारान् [vikārān] = modifications = विकार (m.) + कर्मणि to विद्धि 2/3

·       [ca] = and = अव्ययम्  

·       गुणान् [guṇān] = attributes = गुण (m.) + कर्मणि to विद्धि 2/3

·       [ca] = and = अव्ययम्  

·       एव [eva] = indeed = अव्ययम्  

·       विद्धि [viddhi] = May you know = विद् (2P) to know + लोट्/कर्तरि/II/1

·       प्रकृतिसम्भवान् [prakṛtisambhavān] = that which are born of prakṛti = प्रकृतिसम्भव m. + O.C. to विकारान्/गुणान् 2/3

 

 

अन्वयः

प्रकृतिम् 2/1 पुरुषम् 2/1 0 उभौ 2/2 अपि 0 अनादी 2/2 एव 0 विद्धि II/1

विकारान् 2/3 0 गुणान् 2/3 0 प्रकृतिसम्भवान् 2/3 एव 0 विद्धि II/1 ॥ १३.१९ ॥

 

 

के पुनः ते विकाराः गुणाश्च प्रकृतिसम्भवाः

कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।

पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ २० ॥

कार्यकरणकर्तृत्वे कार्यं शरीरं करणानि तत्स्थानि त्रयोदश । देहस्यारम्भकाणि भूतानि पञ्च विषयाश्च प्रकृतिसम्भवाः विकाराः पूर्वोक्ताः इह कार्यग्रहणेन गृह्यन्ते । गुणाश्च प्रकृतिसम्भवाः सुखदुःखमोहात्मकाः करणाश्रयत्वात् करणग्रहणेन गृह्यन्ते । तेषां कार्यकरणानां कर्तृत्वम् उत्पादकत्वं यत् तत् कार्यकरणकर्तृत्वं तस्मिन् कार्यकरणकर्तृत्वे हेतुः कारणम् आरम्भकत्वेन प्रकृतिः उच्यते । एवं कार्यकरणकर्तृत्वेन संसारस्य कारणं प्रकृतिः । कार्यकारणकर्तृत्वे इत्यस्मिन्नपि पाठे, कार्यं यत् यस्य परिणामः तत् तस्य कार्यं विकारः विकारि कारणं तयोः विकारविकारिणोः कार्यकारणयोः कर्तृत्वे इति । अथवा, षोडश विकाराः कार्यं सप्त प्रकृतिविकृतयः कारणम् तान्येव कार्यकारणान्युच्यन्ते तेषां कर्तृत्वे हेतुः प्रकृतिः उच्यते, आरम्भकत्वेनैव । पुरुषश्च संसारस्य कारणं यथा स्यात् तत् उच्यते पुरुषः जीवः क्षेत्रज्ञः भोक्ता इति पर्यायः, सुखदुःखानां भोग्यानां भोक्तृत्वे उपलब्धृत्वे हेतुः उच्यते

कथं पुनः अनेन कार्यकरणकर्तृत्वेन सुखदुःखभोक्तृत्वेन च प्रकृतिपुरुषयोः संसारकारणत्वमुच्यते इति, अत्र उच्यते कार्यकरणसुखदुःखरूपेण हेतुफलात्मना प्रकृतेः परिणामाभावे, पुरुषस्य च चेतनस्य असति तदुपलब्धृत्वे, कुतः संसारः स्यात् ? यदा पुनः कार्यकरणसुखदुःखस्वरूपेण हेतुफलात्मना परिणतया प्रकृत्या भोग्यया पुरुषस्य तद्विपरीतस्य भोक्तृत्वेन अविद्यारूपः संयोगः स्यात् , तदा संसारः स्यात् इति । अतः यत् प्रकृतिपुरुषयोः कार्यकरणकर्तृत्वेन सुखदुःखभोक्तृत्वेन च संसारकारणत्वमुक्तम् , तत् युक्तम् । कः पुनः अयं संसारो नाम ? सुखदुःखसम्भोगः संसारः । पुरुषस्य च सुखदुःखानां सम्भोक्तृत्वं संसारित्वमिति ॥ २० ॥

 

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.