अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ १३.१६ ॥
avibhaktaṃ ca bhūteṣu vibhaktamiva ca sthitam |
bhūtabhartṛ ca tajjñeyaṃ grasiṣṇu prabhaviṣṇu ca || 13.16 ||
अविभक्तम् 1/1 च 0 भूतेषु 7/3 विभक्तम् 1/1 इव 0 च 0 स्थितम् 1/1 ।
भूतभर्तृ 1/1 च 0 तत् 1/1 ज्ञेयम् 1/1 ग्रसिष्णु 1/1 प्रभविष्णु 1/1 च 0 ॥ १३.१६ ॥
That which is to be known remains undivided in the beings and is seemingly divided, is the sustainer of the beings and elements, and it the devourer and the creator.
That (तत् 1/1) which is to be known (ज्ञेयम् 1/1) remains (स्थितम् 1/1) undivided (अविभक्तम् 1/1) in the beings (भूतेषु 7/3) and (च 0) is seemingly (इव 0) divided (विभक्तम् 1/1 च 0), is the sustainer of the beings and elements (भूतभर्तृ 1/1), and (च 0) it the devourer (ग्रसिष्णु 1/1) and (च 0) the creator (प्रभविष्णु 1/1).
· अविभक्तम् [avibhaktam] = undivided = अविभक्त n. + S.C. to तत् 1/1
o वि + भज् + क्त = विभक्त
o न विभक्तम् अविभक्तम् (NT) ।
· च [ca] = and = अव्ययम्
· भूतेषु [bhūteṣu] = in the beings = भूत (n.) + अधिकरणे 7/3
· विभक्तम् [vibhaktam] = divided = विभक्त n. + S.C. to तत् 1/1
· इव [iva] = seemingly = अव्ययम्
· च [ca] = and = अव्ययम्
· स्थितम् [sthitam] = that which reamins = स्थित n. + 1/1
o स्था + क्त
स्थ् इ + त 7.4.40 द्यतिस्यतिमास्थाम् इत् ति किति ।
· भूतभर्तृ [bhūtabhartṛ] = sustainer of the beings and elements = भूतभर्तृ n. + 1/1
o भृ + तृच्/तृन् । भूतानां भर्तृ ।
· च [ca] = and = अव्ययम्
· तत् [tat] = that = तद् n. + 1/1
· ज्ञेयम् [jñeyam] = that which is to be known = ज्ञेय n. + 1/1
· ग्रसिष्णु [grasiṣṇu] = devourer = ग्रसिष्णु n. + 1/1
· प्रभविष्णु [prabhaviṣṇu] = creator = प्रभविष्णु n. + 1/1
o प्र + भू + इष्णुच्
· च [ca] = and = अव्ययम्
किञ्च —
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ १६ ॥
अविभक्तं च प्रतिदेहं व्योमवत् तदेकम् । भूतेषु सर्वप्राणिषु विभक्तमिव च स्थितं देहेष्वेव विभाव्यमानत्वात् । भूतभर्तृ च भूतानि बिभर्तीति तत् ज्ञेयं भूतभर्तृ च स्थितिकाले । प्रलयकाले गृसिष्णु ग्रसनशीलम् । उत्पत्तिकाले प्रभविष्णु च प्रभवनशीलं यथा रज्ज्वादिः सर्पादेः मिथ्याकल्पितस्य ॥ १६ ॥