आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥२.७०॥
āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat |
tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī ||2.70||
आपूर्यमाणम् 2/1 अचलप्रतिष्ठम् 2/1 समुद्रम् 2/1 आपः 1/3 प्रविशन्ति III/3 यद्वत् 0 ।
तद्वत् 0 कामाः 1/3 यम् 2/1 प्रविशन्ति III/3 सर्वे 1/3 सः 1/1 शान्तिम् 2/1 आप्नोति III/1 न 0 कामकामी 1/1 ॥२.७०॥
· आपूर्यमाणम् [āpūryamāṇam] = brimful = आपूर्यमाण (m.) + कर्मणि to प्रविशन्ति 2/1
· अचलप्रतिष्ठम् [acalapratiṣṭham] = still = अचलप्रतिष्ठ (m.) + कर्मणि to प्रविशन्ति 2/1
o अचलतया प्रतिष्ठा अवशितिः यस्य सः अचलप्रतिष्ठः (316B) ।
· समुद्रम् [samudram] = ocean = समुद्र (m.) + कर्मणि to प्रविशन्ति 2/1
· आपः [āpaḥ] = water = अप् (f.) + 1/3 (नित्यबहुवचनान्तः)
· प्रविशन्ति [praviśanti] = enter = प्र विश् (6P) to enter + लट्/कर्तरि/III/3
· यद्वत् [yadvat] = just as = अव्ययम्
o यद् + वतिँ (like ~)
· तद्वत् [tadvat] = so too = अव्ययम्
o तद् + वतिँ (like ~)
· कामाः [kāmāḥ] = objects = काम (m.) + 1/3
· यम् [yam] = the one into whom = यद् (pron. m.) + 2/1
· प्रविशन्ति [praviśanti] = enter = प्र विश् (6P) to enter + लट्/कर्तरि/III/3
· सर्वे [sarve] = all = सर्व (pron. m.) + 1/3
· सः [saḥ] = he = तद् (pron. m.) + 1/1
· शान्तिम् [śāntim] = peace = शान्ति (f.) + 2/1
· आप्नोति [āpnoti] = gains = आपॢ (5P) to gain + लट्/कर्तरि/III/1
· न [na] = not = अव्ययम्
· कामकामी [kāmakāmī] = the desirer of objects = कामकामिन् (m.) + 1/1
Just as water flows into the ocean that is brimful and still, so too, the wise person into whom all objects enter, gains peace, (remains unchanged); whereas, the desirer of objects does not gain peace.
Sub sentence 1:
यद्वत् 0 आपः 1/3 आपूर्यमाणम् 2/1 अचलप्रतिष्ठम् 2/1 समुद्रम् 2/1 प्रविशन्ति III/3 ।
Just as (यद्वत् 0) water (आपः 1/3) flows (प्रविशन्ति III/3) into the ocean (समुद्रम् 2/1) that is brimful (आपूर्यमाणम् 2/1) and still (अचलप्रतिष्ठम् 2/1),
Main sentence 1:
तद्वत् 0 सर्वे 1/3 कामाः 1/3 यम् 2/1 प्रविशन्ति III/3 सः 1/1 शान्तिम् 2/1 आप्नोति III/1
So too (तद्वत् 0), the wise person (सः 1/1) into whom (यम् 2/1) all (सर्वे 1/3) objects (कामाः 1/3) enter (प्रविशन्ति III/3), gains (आप्नोति III/1) peace (शान्तिम् 2/1), (remains unchanged);
Sentence 2:
कामकामी 1/1 न 0 [शान्तिम् 2/1 आप्नोति III/1]॥२.७०॥
Whereas, the desirer of objects (कामकामी 1/1) does not gain peace (न 0).
विदुषः 6/1 त्यक्तैषणस्य 6/1 स्थितप्रज्ञस्य 6/1 यतेः 6/1 एव 0 मोक्ष-प्राप्तिः 1/1, न 0 तु 0 असंन्यासिनः 6/1 कामकामिनः 6/1 इति 0 एतम् 2/1 अर्थम् 2/1 दृष्टान्तेन 3/1 प्रतिपादयिष्यन् 1/1 आह III/1 –
आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी।।2.70।।
आपूर्यमाणम् 2/1 अद्भिः 3/3 अचलप्रतिष्ठम् 2/1 अचलतया 3/1 प्रतिष्ठा 1/1 अवस्थितिः 1/1 यस्य 6/1 तम् 2/1 अचलप्रतिष्ठम् 2/1 समुद्रम् 2/1 आपः 1/3 सर्वतः 0 गताः 1/3 प्रविशन्ति III/3 स्वात्मस्थम् 2/1 अविक्रियम् 2/1 एव 0 सन्तम् 2/1 यद्वत् 0, तद्वत् 0 कामाः 1/3 विषय-सन्निधौ 7/1 अपि 0 सर्वतः 0 इच्छा-विशेषाः 1/3 यम् 2/1 पुरुषम् 2/1 – समुद्रम् 2/1 इव 0 आपः 1/3 – अविकुर्वन्तः 1/3 प्रविशन्ति III/3 सर्वे 1/3 आत्मनि 7/1 एव 0 प्रलीयन्ते III/3 न 0 स्वात्मवशम् 2/1 कुर्वन्ति III/3, सः 1/1 शान्तिम् 2/1 मोक्षम् 2/1 आप्नोति III/1, न 0 इतरः 1/1 कामकामी 1/1, [काम्यन्ते III/3 इति 0 कामाः 1/3 विषयाः 1/3] तान् 2/3 कामयितुम् 0 शीलम् 1/1 यस्य 6/1 सः 1/1 कामकामी 1/1, न 0 एव 0 प्राप्नोति III/1 इत्यर्थः 1/1॥