यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ।
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ १३.२६ ॥
yāvatsañjāyate kiñcitsattvaṃ sthāvarajaṅgamam |
kṣetrakṣetrajñasaṃyogāttadviddhi bharatarṣabha || 13.26 ||
यावत् 1/1 सञ्जायते III/1 किञ्चित् 0 सत्त्वम् 1/1 स्थावरजङ्गमम् 1/1 ।
क्षेत्रक्षेत्रज्ञसंयोगात् 5/1 तत् 2/1 विद्धि II/1 भरतर्षभ S/1 ॥ १३.२६ ॥
As long as any existent thing – moving or non-moving – is born, that may you know, Arjuna, the foremost in the clan of Bharata! is because of the connection between the kṣetra and kṣetrajña.
As long as (यावत् 1/1) any (किञ्चित् 0) existent thing (सत्त्वम् 1/1) – moving or non-moving (स्थावरजङ्गमम् 1/1) – is born (सञ्जायते III/1), that (तत् 2/1) may you know (विद्धि II/1), Arjuna, the foremost in the clan of Bharata (भरतर्षभ S/1)! is because of the connection between the kṣetra and kṣetrajña (क्षेत्रक्षेत्रज्ञसंयोगात् 5/1).
· यावत् [yāvat] = as long as = यावत् n. + adj. to सत्त्वम् 1/1
o यद् + वतुँप् 5.2.39 यत्तदेतेभ्यः परिमाणे वतुँप् । ~ तद्धिताः
· सञ्जायते [sañjāyate] = is born = सम् + जन् + लट्/कर्तरि/III/1
· किञ्चित् [kiñcit] = any = अव्ययम्
o किम् 1/1 + चित्
· सत्त्वम् [sattvam] = that which exists = सत्त्व (n.) + कर्तरि to सञ्जायते 1/1
o सतोः भावः सत्त्वम् 5.1.119 तस्य भावस्त्वतलौ ।
· स्थावरजङ्गमम् [sthāvarajaṅgamam] = mobile and immobile thing = स्थावरजङ्गम (n.) + adj. to सत्त्वम् 1/1
o स्थावराणां जङ्गमानां च संहारः स्थावरजङ्गमम् (SD) ।
· क्षेत्रक्षेत्रज्ञसंयोगात् [kṣetrakṣetrajñasaṃyogāt] = because of the connection between the kṣetra and kṣetrajña = क्षेत्रक्षेत्रज्ञसंयोग (m.) + हेतौ 5/1
o क्षेत्रं च क्षेत्रज्ञः च क्षेत्रक्षेत्रज्ञौ (ID), तयोः संयोगः क्षेत्रक्षेत्रज्ञसंयोगः (6T), तस्मात् ।
· तत् [tat] = that = तद् n. + कर्मणि to विद्धि 2/1
· विद्धि [viddhi] = may you know = विद् (2P) to know + लोट्/कर्तरि/II/1
· भरतर्षभ [bharatarṣabha] = the foremost in the clan of Bharata = भरतर्षभ m. + सम्बोधने 1/1
अन्वयः
यावत् 1/1 किञ्चित् 0 सत्त्वम् 1/1 स्थावरजङ्गमम् 1/1 सञ्जायते III/1 ।
तत् 2/1 क्षेत्रक्षेत्रज्ञसंयोगात् 5/1 विद्धि II/1 भरतर्षभ S/1 ॥
भाष्यम्
क्षेत्रज्ञेश्वरैकत्वविषयं ज्ञानं मोक्षसाधनम् ‘यज्ज्ञात्वामृतमश्नुते’ (भ. गी. १३ । १२) इत्युक्तम् , तत् कस्मात् हेतोरिति, तद्धेतुप्रदर्शनार्थं श्लोकः आरभ्यते —
यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ।
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ २६ ॥
यावत् यत् किञ्चित् सञ्जायते समुत्पद्यते सत्त्वं वस्तु ; किम् अविशेषेण ? नेत्याह — स्थावरजङ्गमं स्थावरं जङ्गमं च क्षेत्रक्षेत्रज्ञसंयोगात् तत् जायते इत्येवं विद्धि जानीहि भरतर्षभ ॥
कः पुनः अयं क्षेत्रक्षेत्रज्ञयोः संयोगः अभिप्रेतः ? न तावत् रज्ज्वेव घटस्य अवयवसंश्लेषद्वारकः सम्बन्धविशेषः संयोगः क्षेत्रेण क्षेत्रज्ञस्य सम्भवति, आकाशवत् निरवयवत्वात् । नापि समवायलक्षणः तन्तुपटयोरिव क्षेत्रक्षेत्रज्ञयोः इतरेतरकार्यकारणभावानभ्युपगमात् इति, उच्यते — क्षेत्रक्षेत्रज्ञयोः विषयविषयिणोः भिन्नस्वभावयोः इतरेतरतद्धर्माध्यासलक्षणः संयोगः क्षेत्रक्षेत्रज्ञस्वरूपविवेकाभावनिबन्धनः, रज्जुशुक्तिकादीनां तद्विवेकज्ञानाभावात् अध्यारोपितसर्परजतादिसंयोगवत् । सः अयं अध्यासस्वरूपः क्षेत्रक्षेत्रज्ञसंयोगः मिथ्याज्ञानलक्षणः । यथाशास्त्रं क्षेत्रक्षेत्रज्ञलक्षणभेदपरिज्ञानपूर्वकं प्राक् दर्शितरूपात् क्षेत्रात् मुञ्जादिव इषीकां यथोक्तलक्षणं क्षेत्रज्ञं प्रविभज्य ‘न सत्तन्नासदुच्यते’ (भ. गी. १३ । १२) इत्यनेन निरस्तसर्वोपाधिविशेषं ज्ञेयं ब्रह्मस्वरूपेण यः पश्यति, क्षेत्रं च मायानिर्मितहस्तिस्वप्नदृष्टवस्तुगन्धर्वनगरादिवत् ‘असदेव सदिव अवभासते’ इति एवं निश्चितविज्ञानः यः, तस्य यथोक्तसम्यग्दर्शनविरोधात् अपगच्छति मिथ्याज्ञानम् । तस्य जन्महेतोः अपगमात् ‘य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह’ (भ. गी. १३ । २३) इत्यनेन ‘विद्वान् भूयः न अभिजायते’ इति यत् उक्तम् , तत् उपपन्नमुक्तम् ॥ २६ ॥