समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ ९.२९ ॥
samo'haṃ sarvabhūteṣu na me dveṣyo'sti na priyaḥ |
ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpyaham || 9.29 ||
समः 1/1 अहम् 1/1 सर्वभूतेषु 7/3 न 0 मे 6/1 द्वेष्यः 1/1 अस्ति III/1 न 0 प्रियः 1/1 ।
ये 1/3 भजन्ति III/3 तु 0 माम् 2/1 भक्त्या 3/1 मयि 7/1 ते 1/3 तेषु 7/3 च 0 अपि 0 अहम् 1/1 ॥ ९.२९ ॥
· समः [samaḥ] = the same = सम m. + S.C. to अहम् 1/1
· अहम् [aham] = I am = अस्मद् m. + कर्तरि to [अस्मि] 1/1
· सर्वभूतेषु [sarvabhūteṣu] = in all beings = सर्वभूत (n.) + अधिकरणे 7/3
· न [na] = no = अव्ययम्
· मे [me] = for me = अस्मद् m. + सम्बन्धे to द्वेष्यः and प्रियः 6/1
· द्वेष्यः [dveṣyaḥ] = disliked = द्वेष्य m. + कर्तरि to अस्ति 1/1
· अस्ति [asti] = there is = अस् भुवि (2P) to be + लट्/कर्तरि/III/1
· न [na] = no = अव्ययम्
· प्रियः [priyaḥ] = favourite = प्रिय m. + कर्तरि to अस्ति 1/1
· ये [ye] = those who = यद् m. + कर्तरि to भजन्ति 1/3
· भजन्ति [bhajanti] = seek = भज् सेवायाम् (1U) to serve + लट्/कर्तरि/III/3
· तु [tu] = but = अव्ययम्
· माम् [mām] = to me = अस्मद् m. + कर्मणि to भजन्ति 2/1
· भक्त्या [bhaktyā] = with devotion = भक्ति (f.) + सह 3/1
· मयि [mayi] = in me = अस्मद् m. + अधिकरणे 7/1
· ते [te] = they = तद् m. + कर्तरि to [सन्ति] 1/3
· तेषु [teṣu] = in them = तद् m. + अधिकरणे 7/3
· च [ca] = and = अव्ययम्
· अपि [api] = also = अव्ययम्
· अहम् [aham] = I exist = अस्मद् m. + कर्तरि to [अस्मि] 1/1
I am the same in all beings. There is no one I dislike nor do I have a favourite. But those who seek me with devotion exist in me and I (exist) in them.
Sentence 1:
अहम् 1/1 समः 1/1 सर्वभूतेषु 7/3 ।
I am (अहम् 1/1) the same (समः 1/1) in all beings (सर्वभूतेषु 7/3).
Sentence 2:
मे 6/1 द्वेष्यः 1/1 न 0 अस्ति III/1 न 0 प्रियः 1/1 ।
There is (अस्ति III/1) no (न 0) one I dislike (मे 6/1 द्वेष्यः 1/1) nor (न 0) do I have a favourite (प्रियः 1/1).
Sentence 3:
ये 1/3 तु 0 माम् 2/1 भक्त्या 3/1 भजन्ति III/3 ते 1/3 मयि 7/1 (सन्ति), अहम् 1/1 च 0 तेषु 7/3 अपि 0 ॥ ९.२९ ॥
But (तु 0) those who (ये 1/3) seek (भजन्ति III/3) me (माम् 2/1) with devotion (भक्त्या 3/1), they (ते 1/3) exist in me (मयि 7/1) and (च 0) I (अहम् 1/1) (exist) in them (तेषु 7/3 अपि 0).
रागद्वेषवान् तर्हि भगवान् , यतो भक्तान् अनुगृह्णाति, न इतरान् इति । तत् न —
समः तुल्यः अहं सर्वभूतेषु । न मे द्वेष्यः अस्ति न प्रियः । अग्निवत् अहम् — दूरस्थानां यथा अग्निः शीतं न अपनयति, समीपम् उपसर्पतां अपनयति ; तथा अहं भक्तान् अनुगृह्णामि, न इतरान् । ये भजन्ति तु माम् ईश्वरं भक्त्या मयि ते — स्वभावत एव, न मम रागनिमित्तम् — वर्तन्ते । तेषु च अपि अहं स्वभावत एव वर्ते, न इतरेषु । न एतावता तेषु द्वेषो मम ॥ २९ ॥