उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।
सङ्करस्य च कर्ता स्याम् उपहन्यामिमाः प्रजाः ॥३.२४॥
utsīdeyurime lokā na kuryāṃ karma
cedaham |
saṅkarasya ca kartā syām
upahanyāmimāḥ prajāḥ ||3.24||
उत्सीदेयुः III/3 इमे 1/3 लोकाः 1/3 न 0 कुर्याम् I/1 कर्म 2/1 चेत् 0 अहम् 1/1 ।
सङ्करस्य 6/1 च 0 कर्ता 1/1 स्याम् I/1 उपहन्याम् I/1 इमाः 2/3 प्रजाः 2/3 ॥३.२४॥
·
उत्सीदेयुः [utsīdeyuḥ] = they may perish = उद् + सद् to destroy + विधिलिङ्/कर्तरि/III/3
·
इमे [ime] = these = इदम् (pron. m.) + adj. to लोकाः 1/3
·
लोकाः [lokāḥ] = people = लोक (m.) + कर्तरि to उत्सीदेयुः 1/3
·
न [na] = not = अव्ययम्
·
कुर्याम् [kuryām] = I would do = कृ to do + विधिलिङ्/कर्तरि/I/1
·
कर्म [karma] = action = कर्मन् (n.) + कर्मणि to कुर्याम् 2/1
·
चेत् [cet] = if = अव्ययम्
·
अहम् [aham] = I = अस्मद् (pron. m.) + कर्तरि to कुर्याम् 1/1
·
सङ्करस्य [saṅkarasya] = confusion in the society = सङ्कर (m.) + कर्मणि to कर्ता 6/1
·
च [ca] = and = अव्ययम्
·
कर्ता [kartā] = author = कर्तृ (m.) + subjective complement to अहम् 1/1
·
स्याम् [syām] = I would be = अस् to be + विधिलिङ्/कर्तरि/I/1
·
उपहन्याम् [upahanyām] = I would destroy = उप + हन् to destroy + विधिलिङ्/कर्तरि/I/1
·
इमाः [imāḥ] = these = इदम् (pron. f.) + adj. to प्रजाः 2/3
·
प्रजाः [prajāḥ] = beings = प्रजा (f.) + कर्मणि to उपहन्याम् 2/3
If I were not to perform action, these
people would perish. I would be the author of confusion (in the society)and I
would destroy these beings.
Sentence 1:
अहम् 1/1 कर्म 2/1 न 0 कुर्याम् I/1 चेत् 0 इमे 1/3 लोकाः 1/3 उत्सीदेयुः III/3 ।
If (चेत् 0) I (अहम् 1/1) were not
to perform (न 0 कुर्याम् I/1) action (कर्म 2/1), these (इमे 1/3) people (लोकाः 1/3) would perish
(उत्सीदेयुः III/3).
Sentence 2:
सङ्करस्य 6/1 कर्ता 1/1 स्याम् I/1 इमाः 2/3 प्रजाः 2/3 उपहन्याम् I/1 च 0 ॥३.२४॥
I would be (स्याम् I/1) the author (कर्ता 1/1) of
confusion (सङ्करस्य 6/1) and (च 0) I would destroy (उपहन्याम् I/1) these (इमाः 2/3) beings (प्रजाः 2/3).
तथा 0 च 0 कः 1/1 दोषः 1/1 इति 0 आह III/1 –
उत्सीदेयुः III/3 विनश्येयुः III/3 इमे 1/3 सर्वे 1/3 लोकाः 1/3 लोक-स्थिति-निमित्तस्य 6/1 कर्मणः 6/1 अभावात् H5/1 न 0 कुर्याम् I/1 कर्म 2/1 चेत् 0 अहम् 1/1 ।
किञ्च 0, सङ्करस्य 6/1 च 0 कर्ता 1/1 स्याम् I/1 । तेन 3/1 कारणेन 3/1 उपहन्याम् I/1 इमाः 2/3 प्रजाः 2/3 ।
प्रजानाम्
6/3 अनुग्रहाय 4/1 प्रवृत्तः 1/1 उपहतिम् 2/1 उपहननम् 2/1 कुर्याम् I/1 इत्यर्थः 1/1।
मम 6/1 ईश्वरस्य 6/1 अननुरूपम् 1/1 आपद्येत III/1 ॥