resolution of sandhi, grammatical and etymological explanations of each word of श्रीमद्-भगवद्-गीता [śrīmad-bhagavad-gītā]
Wednesday, April 20, 2016
5th Chapter 29th Sloka
5th Chapter 28th Sloka
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥५.२८॥
yatendriyamanobuddhirmunirmokṣaparāyaṇaḥ |
vigatecchābhayakrodho yaḥ sadā mukta eva saḥ ||5.28||
यतेन्द्रियमनोबुद्धिः 1/1 मुनिः 1/1 मोक्षपरायणः 1/1 ।
विगतेच्छाभयक्रोधः 1/1 यः 1/1 सदा 0 मुक्तः 1/1 एव 0 सः 1/1 ॥५.२८॥
· यतेन्द्रियमनोबुद्धिः [yatendriyamanobuddhiḥ] = one who has mastered his (or her) organs of action, senses, mind, and intellect = यतेन्द्रियमनोबुद्धि (m.) + 1/1
o यतानि इन्द्रियाणि मनः बुद्धिः यस्य सः यतेन्द्रियमनोबुद्धिः (116B) ।
· मुनिः [muniḥ] = contemplative person = मुनि (m.) + 1/1
· मोक्षपरायणः [mokṣaparāyaṇaḥ] = one for whom mokṣa is the ultimate end = मोक्षपरायण (m.) + 1/1
o मोक्षः परायणम् यस्य सः मोक्षपरायणः (116B) ।
· विगतेच्छाभयक्रोधः [vigatecchābhayakrodhaḥ] = who is free from desire, fear, and anger = विगतेच्छाभयक्रोध (m.) + 1/1
o विगताः इच्छा भयः क्रोधः यस्मात् सः विगतेच्छभयक्रोधः (115B) ।
· यः [yaḥ] = the one who = यद् (pron. m.) + 1/1
· सदा [sadā] = always = अव्ययम्
· मुक्तः [muktaḥ] = liberated = मुक्त (m.) + 1/1
· एव [eva] = indeed = अव्ययम्
· सः [saḥ] = he is = तद् (pron. m.) + 1/1
… the contemplative person, who has mastered his (or her) organs of action, senses, mind, and intellect, one for whom mokṣa is the ultimate end, who is free from desire, fear, and anger, that person is always liberated indeed.
Sentence 1:
यः 1/1 मुनिः 1/1 यतेन्द्रियमनोबुद्धिः 1/1 मोक्षपरायणः 1/1 विगतेच्छाभयक्रोधः 1/1 सः 1/1 सदा 0 मुक्तः 1/1 एव 0 ॥५.२८॥
… the contemplative person (यः 1/1 मुनिः 1/1), who has mastered his (or her) organs of action, senses, mind, and intellect (यतेन्द्रियमनोबुद्धिः 1/1),one for whom mokṣa is the ultimate end (मोक्षपरायणः 1/1), who is free from desire, fear, and anger (विगतेच्छाभयक्रोधः 1/1), that person (सः 1/1) is always (सदा 0) liberated (मुक्तः 1/1) indeed (एव 0).
यतेन्द्रियमनोबुद्धिः 1/1 यतानि 1/3 संयतानि 1/3 इन्द्रियाणि 1/3 मनः 1/1 बुद्धिः 1/1 च 0 यस्य 6/1 सः 1/1 यतेन्द्रियमनोबुद्धिः 1/1, मननात् 5/1 मुनिः 1/1 संन्यासी 1/1, मोक्षपरायणः 1/1 एवम् 0 देहसंस्थानात् 5/1 मोक्षपरायणः 1/1 मोक्षः 1/1 एव 0 परम् 1/1 अयनम् 1/1 परा 1/1 गतिः 1/1 यस्य 6/1 सः 1/1 अयम् 1/1 मोक्षपरायणः 1/1 मुनिः 1/1 भवेत् III/1। विगतेच्छाभयक्रोधः 1/1 इच्छा 1/1 च 0 भयम् 1/1 च 0 क्रोधः 1/1 च 0 इच्छाभयक्रोधाः 1/3 ते 1/3 विगताः 1/3 यस्मात् 5/1 सः 1/1 विगतेच्छाभयक्रोधः 1/1, यः 1/1 एवम् 0 वर्तते III/1 सदा 0 संन्यासी 1/1, मुक्तः 1/1 एव 0 सः 1/1 न 0 तस्य 6/1 मोक्षाय 4/1 अन्यः 1/1 कर्तव्यः 1/1 अस्ति III/1॥
In India,
AVG Coimbatore, Swami Dayananda Ashram in Rishikesh, and
Free download of PDF files are available at Arsha Avinashi Foundation.