सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ १८.६४ ॥
sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ |
iṣṭo:'si me dṛḍhamiti tato vakṣyāmi te hitam || 18.64 ||
सर्वगुह्यतमम् 2/1 भूयः 0 शृणु II/1 मे 6/1 परमम् 2/1 वचः 2/1।
इष्टः 1/1 असि II/1 मे 6/1 दृढम् 0 इति 0 ततः 0 वक्ष्यामि I/1 ते 6/1 हितम् 2/1॥ १८.६४ ॥
· सर्वगुह्यतमम् [sarvaguhyatamam] = the most secret of all = सर्वगुह्यतम (n.) + adj. to वचः 2/1
· भूयः [bhūyaḥ] = again = अव्ययम्
· शृणु [śṛṇu] = listen = श्रु (5P) to listen + लोट्/कर्तरि/II/1
· मे [me] = of me = अस्मद् (pron.) + सम्बन्धे to वचः 6/1
· परमम् [paramam] = highest, ultimate = परम (n.) + adj. to वचः 2/1
· वचः [vacaḥ] = statement, word = वचस् (n.) + कर्मणि to शृणु 2/1
· इष्टः [iṣṭaḥ] = beloved = इष्ट (m.) + S.C. to (त्वम्) 1/1
· असि [asi] = you are = अस् (2P) to be + लट्/कर्तरि/II/1
· मे [me] = to me = अस्मद् (pron.) + सम्बन्धे to इष्टः 6/1
· दृढम् [dṛḍham] = definitely, certainly = अव्ययम्
· इति [iti] = thus = अव्ययम्
· ततः [tataḥ] = therefore = अव्ययम्
· वक्ष्यामि [vakṣyāmi] = I will tell = वच् (2P) to tell + लृट्/कर्तरि/I/1
· ते [te] = of you = युष्मद् (pron.) + सम्बन्धे to हितम् 6/1
· हितम् [hitam] = what is good, beneficial = हित (n.) + कर्मणि to वक्ष्यामि 2/1
Again, listen to my ultimate statement, which is the most secret of all. You are definitely beloved to me, therefore, I will tell you, what is good.
Sentence 1:
भूयः 0 सर्वगुह्यतमम् 2/1 मे 6/1 परमम् 2/1 वचः 2/1 शृणु II/1।
Again (भूयः 0), listen (शृणु II/1) to my (मे 6/1) ultimate (परमम् 2/1) statement (वचः 2/1), which is the most secret of all (सर्वगुह्यतमम् 2/1).
Sentence 2:
मे 6/1 दृढम् 0 इष्टः 1/1 असि II/1 इति 0 ततः 0 ते 6/1 हितम् 2/1 वक्ष्यामि I/1॥
You are (असि II/1) definitely (दृढम् 0) beloved (इष्टः 1/1) to me (मे 6/1), therefore (इति 0 ततः 0), I will tell (वक्ष्यामि I/1) you, what is good (हितम् 2/1) for you (ते 6/1).
सर्वगुह्यतमम् 2/1 सर्वेभ्यः गुह्येभ्यः अत्यन्तगुह्यतमम् अत्यन्तरहस्यम् , उक्तमपि असकृत् भूयः 0 पुनः शृणु II/1 मे 6/1 मम परमम् 2/1 प्रकृष्टं वचः 2/1 वाक्यम् । न भयात् नापि अर्थकारणाद्वा वक्ष्यामि ; किं तर्हि ? इष्टः 1/1 प्रियः असि II/1 मे 6/1 मम दृढम् 0 अव्यभिचारेण इति 0 कृत्वा ततः 0 तेन कारणेन वक्ष्यामि I/1 कथयिष्यामि ते 6/1 तव हितम् 2/1 परमं ज्ञानप्राप्तिसाधनम् , तद्धि सर्वहितानां हिततमम् ॥ १८.६४ ॥