मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥२.१४॥
mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ |
āgamāpāyino'nityāstāṃstitikṣasva bhārata ||2.14||
मात्रास्पर्शाः 1/3 तु 0 कौन्तेय S/1 शीतोष्णसुखदुःखदाः 1/3 ।
आगमापायिनः 1/3 अनित्याः 1/3 तान् 2/3 तितिक्षस्व II/1 भारत S/1 ॥२.१४॥
· मात्रास्पर्शाः [mātrāsparśāḥ] = the contacts of the sense organs with the sensory world = मात्रास्पर्श (m.) + 1/3
o मात्राः (sense organs) च स्पर्शाः (contacts) च मात्रास्पर्शाः । इतरेतरद्वन्द्वसमासः
· तु [tu] = indeed; = अव्ययम्
· कौन्तेय [kaunteya] = O! Son of Kuntī (Arjuna) = कौन्तेय (m.) + सम्बोधने 1/1
· शीतोष्णसुखदुःखदाः [śītoṣṇasukhaduḥkhadāḥ] = which give rise to cold and heat, pleasure and pain = शीतोष्णसुखदुःखद (m.) + 1/3
o शीतं च ऊष्णं च, सुखं च दुःखं च शीतोष्णसुखदुःखानि । इतरेतरद्वन्द्वसमासः
o शीतोष्णसुखदुःखानि ददाति शीतोष्णसुखदुःखदः । उपपदतत्पुरुषसमासः
o 3.2.3 आतोऽनुपसर्गे । ~ कः
· आगमापायिनः [āgamāpāyinaḥ] = which are of the nature of coming and going = आगमापयिन् (m.) + 1/3
· अनित्याः [anityāḥ] = not constant = अनित्य (m.) + 1/3
· तान् [tān] = them = तद् (pron. m.) + कर्मणि to तितिक्षस्व 2/3
· तितिक्षस्व [titikṣasva] = endure = तितिक्ष to endure + लोट्/कर्तरि/II/1
o तिज् + सन् 3.1.5 गुप्-तिज्-किद्भ्यः सन् ।
= ति + तिज् + स 6.1.9 सन्यङोः ।
= ति + तिग् + स 8.2.30 चोः कुः ।
= ति + तिग् + ष 8.3.59 आदेशप्रत्यययोः ।
= ति + तिक् + ष 8.4.55 खरि च ।
= तितिक्ष 3.1.32 सनाद्यन्ता धातवः ।
· भारत [bhārata] = O! Descendnat of Bharata (Arjuna) = भारत (m.) + सम्बोधने 1/1
Sentence 1:
कौन्तेय S/1 मात्रास्पर्शाः 1/3 तु 0 शीतोष्णसुखदुःखदाः 1/3 आगमापायिनः 1/3 अनित्याः 1/3 ।
O! Son of Kuntī (कौन्तेय S/1)! The contacts of the sense organs with the sensory world (मात्रास्पर्शाः 1/3), which give rise to cold and heat, pleasure and pain (शीतोष्णसुखदुःखदाः 1/3), which are of the nature of coming and going (आगमापायिनः 1/3) are indeed (तु 0) not constant (अनित्याः 1/3).
Sentence 2:
तान् 2/3 तितिक्षस्व II/1 भारत S/1 ॥२.१४॥
Endure (तितिक्षस्व II/1) them (तान् 2/3), O! Descendnat of Bharata (भारत S/1)!
यद्यपि 0 आत्म-विनाश-निमित्तः 1/1 मोहः 1/1 न 0 सम्भवति III/1 नित्यः 1/1 आत्मा 1/1 इति 0 विजानतः 6/1, तथापि 0 शीत-उष्ण-सुख-दुःख-प्राप्ति-निमित्तः 1/1 मोहः 1/1 लौकिकः 1/1 दृश्यते III/1, सुख-वियोग-निमित्तः 1/1 मोहः 1/1 दुःख-संयोग-निमित्तः 1/1 च 0 शोकः 1/1 । इत्येतत् 2/1 अर्जुनस्य 6/1 वचनम् 2/1 आशङ्क्य 0 भगवान् 1/1 आह III/1 —
मात्राः 1/3 आभिः 3/3 (मात्राभिः) मीयन्ते III/3 शब्द-आदयः 1/3 इति 0 श्रोत्र-आदीनि 1/3 इन्द्रियाणि 1/3 । मात्राणाम् 6/3 स्पर्शाः 1/3 (मात्रास्पर्शाः 1/3) शब्द-आदिभिः 3/3 संयोगाः 1/3 । ते 1/3 शीतोष्णसुखदुःखदाः 1/3 शीतम् 2/1 उष्णम् 2/1 सुखम् 2/1 दुःखम् 2/1 च 0 प्रयच्छन्ति III/3 इति 0 । अथवा 0 स्पृश्यन्ते III/3 इति 0 स्पर्शाः 1/3 विषयाः 1/3 शब्द-आदयः 1/3 । मात्राः 1/3 च 0 स्पर्शाः 1/3 च 0 शीतोष्णसुखदुःखदाः 1/3 । शीतम् 1/1 कदाचित् 0 सुखम् 1/1 कदाचित् 0 दुःखम् 1/1 । तथा 0 उष्णम् 1/1 अपि 0 अनियत-स्वरूपम् 1/1। सुख-दुःखे 1/2 पुनः 0 नियत-रूपे 1/2 यतः 0 न 0 व्यभिचरतः III/2 । अतः 0 ताभ्याम् 5/2 पृथक् 0 शीतोष्णयोः 6/2 ग्रहणम् 1/1 । यस्मात् 5/1 ते 1/3 मात्रास्पर्शादयः 1/3 आगमापायिनः 1/3 आगम-अपाय-शीलाः 1/3 तस्मात् 5/1 अनित्याः 1/3 । अतः 0 तान् 2/3 शीतोष्णादीन् 2/3 तितिक्षस्व II/1 प्रसहस्व II/1। तेषु 7/3 हर्षम् 2/1 विषादम् 2/1 वा 0 मा 0 कार्षीः II/1 इत्यर्थः 1/1 ॥ १४ ॥