Showing posts with label 1315 13th Chapter 15th Sloka. Show all posts
Showing posts with label 1315 13th Chapter 15th Sloka. Show all posts

Friday, May 12, 2023

13th Chapter 15th Sloka

बहिरन्तश्च भूतानामचरं चरमेव च ।

सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ १३.१५ ॥

 

bahirantaśca bhūtānāmacaraṃ carameva ca |

sūkṣmatvāttadavijñeyaṃ dūrasthaṃ cāntike ca tat || 13.15 ||

 

बहिः 0 अन्तः 0 0 भूतानाम् 6/3 अचरम् 1/1 चरम् 1/1 एव 0 0

सूक्ष्मत्वात् 5/1 तत् 1/1 अविज्ञेयम् 1/1 दूरस्थम् 1/1 0 अन्तिके 7/1 0 तत् 1/1 ॥ १३.१५ ॥

 

That is outside and inside of the beings, it is that which does not move and indeed what moves. Because it is subtle, it is not known and it is far as well as near.

 

That (तत् 1/1) is outside (बहिः 0) and ( 0) inside (अन्तः 0) of the beings (भूतानाम् 6/3), it is that which does not move (अचरम् 1/1) and ( 0) indeed (एव 0) what moves (चरम् 1/1). Because it is subtle (सूक्ष्मत्वात् 5/1), it (तत् 1/1) is not known (अविज्ञेयम् 1/1) and ( 0) it is far (दूरस्थम् 1/1) as well as ( 0) near (अन्तिके 7/1).

 

·       बहिः [bahiḥ] = outside = (बहिस्) अव्ययम्

·       अन्तः [antaḥ] = inside = (अन्तर्) अव्ययम्

·       च [ca] = and = अव्ययम्

·       भूतानाम् [bhūtānām] = of beings = भूत n. + सम्बन्धे to बहिः and अन्तः 6/3

·       अचरम् [acaram] = that which does not move = अचर n. + S.C. to तत् 1/1

·       चरम् [caram] = that which moves = चर n. + S.C. to तत् 1/1

·       एव [eva] = indeed = अव्ययम्

·       च [ca] = and = अव्ययम्

·       सूक्ष्मत्वात् [sūkṣmatvāt] = because of being subtle = सूक्ष्मत्व (n.) + हेतौ to अविज्ञेयम् 5/1

·       तत् [tat] = that = तद् n. + 1/1

·       अविज्ञेयम् [avijñeyam] = that which is not known = अविज्ञेय n. + S.C. to तत् 1/1

o   न विज्ञेयम् अविज्ञेयम् (NT)

·       दूरस्थम् [dūrastham] = that which is far = दूरस्थ n. + S.C. to तत् 1/1

o   दूरे तिष्ठति इति दूरस्थम् ।

दूर + ङि + स्था + क              3.2.4 सुपि स्थः । ~ कः

प्रातिपदिक-संज्ञा is gained by 2.2.19 उपपदमतिङ् । ~ तत्पुरुषः समासः and 1.2.46 कृत्तद्धितसमासाश्च ।

दूर + स्था + क                      2.4.71 सुपो धातुप्रातिपदिकयोः । ~ लुक्

दूर + स्थ् + क                       6.4.64 आतो लोप इटि च । ~ अचि क्ङिति

·       च [ca] = and = अव्ययम्

·       अन्तिके [antike] = in vicinity = अन्तिक (n.) + अधिकरणे 7/1

·       च [ca] = and = अव्ययम्

·       तत् [tat] = that = तद् n. + 1/1

 

किञ्च

बहिरन्तश्च भूतानामचरं चरमेव च ।

सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ १५ ॥

बहिः त्वक्पर्यन्तं देहम् आत्मत्वेन अविद्याकल्पितम् अपेक्ष्य तमेव अवधिं कृत्वा बहिः उच्यते । तथा प्रत्यगात्मानमपेक्ष्य देहमेव अवधिं कृत्वा अन्तः उच्यते । बहिरन्तश्चइत्युक्ते मध्ये अभावे प्राप्ते, इदमुच्यते अचरं चरमेव , यत् चराचरं देहाभासमपि तदेव ज्ञेयं यथा रज्जुसर्पाभासः । यदि अचरं चरमेव च स्यात् व्यवहारविषयं सर्वं ज्ञेयम् , किमर्थम् इदम्इति सर्वैः न विज्ञेयम् इति ? उच्यते सत्यं सर्वाभासं तत् ; तथापि व्योमवत् सूक्ष्मम् । अतः सूक्ष्मत्वात् स्वेन रूपेण तत् ज्ञेयमपि अविज्ञेयम् अविदुषाम् । विदुषां तु, ‘आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २) ब्रह्मैवेदं सर्वम्इत्यादिप्रमाणतः नित्यं विज्ञातम् । अविज्ञाततया दूरस्थं वर्षसहस्रकोट्यापि अविदुषाम् अप्राप्यत्वात् । अन्तिके तत् , आत्मत्वात् विदुषाम् ॥ १५ ॥

 

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.