नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥३.१८॥
naiva tasya kṛtenārtho nākṛteneha
kaścana |
na cāsya sarvabhūteṣu
kaścidarthavyapāśrayaḥ ||3.18||
न 0 एव 0 तस्य 6/1 कृतेन 3/1 अर्थः 1/1 न 0 अकृतेन 3/1 इह 0 कश्चन 0 ।
न 0 च 0 अस्य 6/1 सर्वभूतेषु 7/3 कश्चित्
0 अर्थव्यपाश्रयः 1/1 ॥३.१८॥
·
न [na] = not = अव्ययम्
·
एव [eva] = alone = अव्ययम्
·
तस्य [tasya] = for this person = तद् (m.) + सम्बन्धे to कृतेन 6/1
·
कृतेन [kṛtena] = by doing action = कृत (m.) + 3/1
·
अर्थः [arthaḥ] = purpose = अर्थ (m.) + 1/1
·
न [na] = not = अव्ययम्
·
अकृतेन [akṛtena] = by not doing action= अकृत (m.) + 3/1
·
इह [iha] = here in this world = अव्ययम्
·
कश्चन [kaścana] = any (purpose) = अव्ययम्
o
कः + चन
·
न [na] = not = अव्ययम्
·
अस्य [asya] = for this person = इदम् (m.) + सम्बन्धे to अर्थव्यपाश्रयः 6/1
·
सर्वभूतेषु [sarvabhūteṣu] = on any beings = सर्वभूत
(n.) + 7/3
·
कश्चित् [kaścit] = any = अव्ययम्
·
अर्थव्यपाश्रयः
[arthavyapāśrayaḥ] = dependence = अर्थव्यपाश्रय (m.) + 1/1
For that person (who revels in the self),
there is indeed no purpose here in this world for doing or not doing action.
Nor does such a person depend on any being for any object whatsoever.
Sentence 1:
तस्य 6/1 कश्चन 0 अर्थः 1/1 कृतेन 3/1 न 0 एव 0, अकृतेन 3/1 न 0 इह 0 ।
For that person (तस्य 6/1), there is indeed (एव 0) no (न 0) purpose (अर्थः 1/1) here in
this world (इह 0) for doing
(कृतेन 3/1) or (कश्चन 0 न 0) not doing
action (अकृतेन 3/1).
Sentence 2:
न 0 च 0 अस्य 6/1 कश्चित् 0 सर्वभूतेषु 7/3 अर्थव्यपाश्रयः 1/1 ॥३.१८॥
Nor (न 0 च 0) does such
a person (अस्य 6/1) depend on any
being (सर्वभूतेषु 7/3 ) for any (कश्चित् 0) object whatsoever (अर्थव्यपाश्रयः 1/1).
किञ्च 0 –
न 0 एव 0 तस्य 6/1 कृतेन 3/1 अर्थः 1/1 न 0 अकृतेन 3/1 इह 0 कश्चन 0 ।
न 0 च 0 अस्य 6/1 सर्वभूतेषु 7/3 कश्चित् 0 अर्थव्यपाश्रयः 1/1 ॥३.१८॥
नैव 0 तस्य 6/1 = परमात्मरतेः 6/1 कृतेन 3/1 = कर्मणा 3/1 अर्थः 1/1 = प्रयोजनम् 1/1 अस्ति III/1।
अस्तु III/1 तर्हि 0 अकृतेन 3/1 = अकरणेन 3/1 प्रत्यवायाख्यः 1/1 अनर्थः 1/1। न 0, अकृतेन 3/1 इह 0 लोके 7/1 कश्चन 0 कश्चित् 0 अपि 0 प्रत्यवाय-प्राप्ति-रूपः 1/1 आत्म-हानि-लक्षणः 1/1 वा 0 नैव 0 अस्ति III/1। न 0 च 0 अस्य 6/1 सर्वभूतेषु 7/3 ब्रह्मादि-स्थावरान्तेषु 7/3 भूतेषु 7/3 कश्चित् 0 अर्थव्यपाश्रयः 1/1 प्रयोजन-निमित्त-क्रिया-साध्यः
1/1 व्यपाश्रयः 1/1 व्यपाश्रयणम् 1/1 । आलम्बनम् 2/1 कञ्चित् 0 भूत-विशेषम् 2/1 आश्रित्य 0 न 0 साध्यः 1/1 कश्चित् 0 अर्थः 1/1 अस्ति III/1, येन 3/1 तदर्था 1/1 क्रिया 1/1 अनुष्ठेया 1/1 स्यात् III/1। न 0 त्वम् 1/1 तस्मिन् 7/1 सर्वतःसंप्लुतोदकस्थानीये 7/1 सम्यग्दर्शने 7/1 वर्तसे II/1 ॥