अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ ९.२४ ॥
ahaṃ hi sarvayajñānāṃ bhoktā ca prabhureva ca |
na tu māmabhijānanti tattvenātaścyavanti te || 9.24 ||
अहम् 1/1 हि 0 सर्वयज्ञानाम् 6/3 भोक्ता 1/1 च 0 प्रभुः 1/1 एव 0 च 0 ।
न 0 तु 0 माम् 2/1 अभिजानन्ति III/3 तत्त्वेन 3/1 अतः 0 च्यवन्ति III/3 ते 1/3 ॥ ९.२४ ॥
· अहम् [aham] = I = अस्मद् m. + कर्तरि to [भवामि] 1/1
· हि [hi] = indeed = अव्ययम्
· सर्वयज्ञानाम् [sarvayajñānām] = of all rituals = सर्वयज्ञ (m.) + सम्बन्धे to भोक्ता 6/3
o सर्वे यज्ञाः सर्वयज्ञाः (KT), तेषाम् ।
· भोक्ता [bhoktā] = the recipient = भोक्तृ m. + S.C. to अहम् 1/1
· च [ca] = and = अव्ययम्
· प्रभुः [prabhuḥ] = lord = प्रभु (m.) + S.C. to अहम् 1/1
· एव [eva] = the only = अव्ययम्
· च [ca] = and = अव्ययम्
· न [na] = not = अव्ययम्
· तु [tu] = but = अव्ययम्
· माम् [mām] = me = अस्मद् m. + कर्मणि to अभिजानन्ति 2/1
· अभिजानन्ति [abhijānanti] = know = अभि + ज्ञा (9P) to know + लट्/कर्तरि/III/3
· तत्त्वेन [tattvena] = in reality = तत्त्व (n.) + प्रकृत्यादि 3/1
· अतः [ataḥ] = therefore = अव्ययम्
· च्यवन्ति [cyavanti] = fall away = च्यु गतौ (1A) to drop down + लट्/कर्तरि/III/3
· ते [te] = they = तद् m. + कर्तरि to च्यवन्ति 1/3
I am indeed the recipient of all rituals and the only Lord. But they do not know me in reality. Therefore, they fall away.
Sentence 1:
अहम् 1/1 हि 0 सर्वयज्ञानाम् 6/3 भोक्ता 1/1 च 0 प्रभुः 1/1 एव 0 च 0 ।
I am (अहम् 1/1) indeed (हि 0) the recipient (भोक्ता 1/1) of all rituals (सर्वयज्ञानाम् 6/3) and (च 0) the only (एव 0) Lord (प्रभुः 1/1).
Sentence 2:
न 0 तु 0 माम् 2/1 तत्त्वेन 3/1 अभिजानन्ति III/3 ।
But (तु 0) they do not (न 0) know (अभिजानन्ति III/3) me (माम् 2/1) in reality (तत्त्वेन 3/1).
Sentence 3:
अतः 0 ते 1/3 च्यवन्ति III/3 ॥
Therefore (अतः 0), they (ते 1/3) fall away (च्यवन्ति III/3).
कस्मात् ते अविधिपूर्वकं यजन्ते इत्युच्यते ; यस्मात् —
अहं हि सर्वयज्ञानां श्रौतानां स्मार्तानां च सर्वेषां यज्ञानां देवतात्मत्वेन भोक्ता च प्रभुः एव च । मत्स्वामिको हि यज्ञः, ‘अधियज्ञोऽहमेवात्र’ (भ. गी. ८ । ४) इति हि उक्तम् । तथा न तु माम् अभिजानन्ति तत्त्वेन यथावत् । अतश्च अविधिपूर्वकम् इष्ट्वा यागफलात् च्यवन्ति प्रच्यवन्ते ते ॥ २४ ॥