अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥२.३३॥
atha cettvamimaṃ dharmyaṃ saṅgrāmaṃ na kariṣyasi |
tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi ||2.33||
अथ 0 चेत् 0 त्वम् 1/1 इमम् 2/1 धर्म्यम् 2/1 सङ्ग्रामम् 2/1 न 0 करिष्यसि II/1 ।
ततः 0 स्वधर्मम् 2/1 कीर्तिम् 2/1 च 0 हित्वा 0 पापम् 2/1 अवाप्स्यसि II/1 ॥२.३३॥
· अथ [atha] = but = अव्ययम्
· चेत् [cet] = if = अव्ययम्
· त्वम् [tvam] = you = युष्मद् (pron. m.) + कर्तरि to करिष्यसि 1/1
· इमम् [imam] = this = इदम् (pron. m.) + adj. to सङ्ग्रामम् 2/1
· धर्म्यम् [dharmyam] = righteous = धर्म्य (m.) + adj. to सङ्ग्रामम् 2/1
· सङ्ग्रामम् [saṅgrāmam] = battle = सङ्ग्राम (m.) + कर्मणि to करिष्यसि 2/1
· न [na] = not = अव्ययम्
· करिष्यसि [kariṣyasi] = (you) will do = कृ (8U) to do + लृट्/कर्तरि/II/1
· ततः [tataḥ] = and = अव्ययम्
· स्वधर्मम् [svadharmam] = own duty = स्वधर्म (m.) + 2/1
o स्वस्य धर्मः स्वधर्मः । षष्ठीतत्पुरुषः
· कीर्तिम् [kīrtim] = honour = कीर्ति (f.) + 2/1
· च [ca] = and = अव्ययम्
· हित्वा [hitvā] = forfeiting = अव्ययम्
o हा (3P) to give up + त्वा (having …ed)
o हा becomes हि by 7.4.43 जहातेश्च क्त्वि । ~ इत्
· पापम् [pāpam] = pāpa = पाप (n.) + 2/1
· अवाप्स्यसि [avāpsyasi] = (you) will gain = अव + आप् (5P) to gain + लृट्/कर्तरि/II/1
But if you refuse to engage in this war which is in keeping with dharma, then, forfeiting your own duty and honour, you will incur pāpa.
Sentence 1:
अथ 0 त्वम् 1/1 इमम् 2/1 धर्म्यम् 2/1 सङ्ग्रामम् 2/1 न 0 करिष्यसि II/1 चेत् 0
ततः 0 स्वधर्मम् 2/1 कीर्तिम् 2/1 च 0 हित्वा 0 पापम् 2/1 अवाप्स्यसि II/1 ॥२.३३॥
But (अथ 0) if (चेत् 0) you (त्वम् 1/1) refuse to engage (न 0 करिष्यसि II/1) in this (इमम् 2/1) war (सङ्ग्रामम् 2/1) which is in keeping with dharma (धर्म्यम् 2/1), then (ततः 0), forfeiting (हित्वा 0) your own duty (स्वधर्मम् 2/1) and (च 0) honour (कीर्तिम् 2/1), you will incur (अवाप्स्यसि II/1) pāpa (पापम् 2/1).
एवम् 0 कर्तव्यता-प्राप्तम् 1/1 अपि 0 —
अथ 0 चेत् 0 त्वम् 1/1 इमम् 2/1 धर्म्यम् 2/1 धर्मात् 5/1 अनपेतम् 2/1 विहितम् 2/1 सङ्ग्रामम् 2/1 युद्धम् 2/1 न 0 करिष्यसि II/1 चेत् 0, ततः 0 तत्-अकरणात् 5/1 स्वधर्मम् 2/1 कीर्तिम् 2/1 च 0 महादेव-आदि-समागम-निमित्ताम् 2/1 हित्वा 0 केवलम् 0 पापम् 2/1 अवाप्स्यसि II/1 ॥ ३३ ॥