अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥१-७॥
asmākaṃ tu viśiṣṭā ye tānnibodha dvijottama |
nāyakā mama sainyasya saṃjñārthaṃ tānbravīmi te ||1-7||
अस्माकम् 6/3 तु 0 विशिष्टाः 1/3 ये 1/3 तान् 2/3 निबोध II/1 द्विजोत्तम S/1 ।
नायकाः 1/3 मम 6/1 सैन्यस्य 6/1 संज्ञार्थम् 0 तान् 2/3 ब्रवीमि I/1 ते 4/1 ॥१-७॥
· अस्माकम् [asmākam] = our = अस्मद् (pron. m.) + सम्बन्ध to नायकाः 6/3
· तु [tu] = whereas = अव्ययम्
· विशिष्टाः [viśiṣṭāḥ] = important = विशिष्ट (m.) + adj. to ये 1/3
· ये [ye] = those who = यद् (pron. m.) + adj. to नायकाः 1/3
· तान् [tān] = them = तद् (pron. m.) + कर्मणि to निबोध 2/3
· निबोध [nibodha] = Please know = नि + बुध् (1P) to learn + लोट्/कर्तरि/II/1
· द्विजोत्तम [dvijottama] = learned among the twice-born (brāhmaṇas)= द्विजोत्तम (m.) + सम्बोधने 1/1
o द्विजानाम् उत्तमः द्विजोत्तमः । 6T
· नायकाः [nāyakāḥ] = leaders = नायक (m.) + कर्तरि to [भवन्ति] 1/3
o नी to lead + ण्वुल् (…er, कर्तरि) = नायक (leader)
· च [ca] = and = अव्ययम्
· मम [mama] = my (these) = अस्मद् (pron. m.) + सम्बन्ध to सैन्यस्य 6/1
· सैन्यस्य [sainyasya] = of (my) army = सैन्य (m.) + सम्बन्ध to नायकाः 6/1
· संज्ञार्थम् [saṃjñārtham] = in order to introduce= अव्ययम्
o संज्ञाय इदम् संज्ञार्थम् । 4T
o In the sense of adverb, the word can be treated as indeclinable.
· ब्रवीमि [bravīmi] = I tell = ब्रूञ् (2U) to say+ लट्/कर्तरि/I/1
· ते [te] = to you = युष्मद् (pron. m.) + सम्प्रदाने 4/1 (optional form of तुभ्यम्)
॥ १-७॥
Whereas (तु 0), the learnd among the twice-born (द्विजोत्तम S/1)! Please take not of (निबोध II/1) those (तान् 2/3) who are (ये 1/3) important (विशिष्टाः 1/3) amongst ourselves (अस्माकम् 6/3), the leaders (नायकाः 1/3) of my (मम 6/1) army (सैन्यस्य 6/1). I mention (ब्रवीमि I/1) them (तान् 2/3) in order to itroduce them (संज्ञार्थम् 0) to you (ते 4/1).
Sentence 1:
Relative clause (यत्-clause):
द्विजोत्तम S/1 तु 0 मम 6/1 सैन्यस्य 6/1 अस्माकम् 6/3 ये 1/3 विशिष्टाः 1/3 नायकाः 1/3।
O Learned among the twice-born! Those who are important of us,
Main clause (तत्-clause):
तान् 2/3 निबोध II/1 । Please take note of them.
Sentence 2:
तान् 2/3 संज्ञार्थम् 0 ते 4/1 ब्रवीमि I/1 । I tell you in order to introduce them.
द्विजोत्तम S/1 ये 1/3 तु 0 अस्माकम् 6/3 विशिष्टाः 1/3 मम 6/1 सैन्यस्य 6/1 नायकाः 1/3, तान् 2/3 निबोध II/1 ।
तान् 2/3 ते 4/1 संज्ञार्थम् 0 ब्रवीमि I/1 ॥१-७॥