Showing posts with label 1811 18th Chapter 11th Sloka. Show all posts
Showing posts with label 1811 18th Chapter 11th Sloka. Show all posts

Monday, December 1, 2025

18th Chapter 11th Sloka

न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।

यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ १८.११ ॥

 

na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ |

yastu karmaphalatyāgī sa tyāgītyabhidhīyate || 18.11 ||

 

न 0 हि 0 देहभृता 3/1 शक्यम् 1/1 त्यक्तुम् 0 कर्माणि 2/3 अशेषतः 0 ।

यः 1/1 तु 0 कर्मफलत्यागी 1/1 सः 1/1 त्यागी 1/1 इति 0 अभिधीयते III/1॥  १८.११ ॥

 

 

·       न [na] = not = अव्ययम्

·       हि [hi] = indeed = अव्ययम्

·       देहभृता [dehabhṛtā] = by the one who sustains a body = देहभृत् (m.) + कर्तरि to शक्यम् 3/1

o   देहं बिभर्ति इति देहभृत् ।

o   देह + भृ + क्विप्

·       शक्यम् [śakyam] = that which is possible = शक्य (n.) + कर्तरि to (भवति) 1/1

·       त्यक्तुम् [tyaktum] = to give up = अव्ययम्

o   त्यज् (1P) to abandon + तुमुन्

·       कर्माणि [karmāṇi] = actions = कर्मन् (n.) + कर्मणि to त्यक्तुम् 2/3

·       अशेषतः [aśeṣataḥ] = completely = अव्ययम्

·       यः [yaḥ] = the one who = यद् (pron.) + कर्तरि to (भवति) 1/1

·       तु [tu] = but = अव्ययम्

·       कर्मफलत्यागी [karmaphalatyāgī] = renunciate of the results of action = कर्मफलत्यागिन् (m.) + S.C. to यः 1/1

·       सः [saḥ] = he = तद् (pron.) + कर्तरि to अभिधीयते 1/1

·       त्यागी [tyāgī] = the tyāgin = त्यागिन् (m.) + S.C. to सः 1/1

·       इति [iti] = thus = अव्ययम्

·       अभिधीयते [abhidhīyate] = is called = अभि + धा (3A) to call, name + लट्/कर्मणि/III/1

 

 

Indeed actions cannot be given up completely by the one who sustains a body; but the one who is a renunciate of the results of action is called a tyāgin.

 

 

Sentence 1:

हि 0 देहभृता 3/1 कर्माणि 2/3 अशेषतः 0 त्यक्तुम् 0 न 0 शक्यम् 1/1।

Indeed (हि 0) actions (कर्माणि 2/3) cannot be (न 0 शक्यम् 1/1) given up (त्यक्तुम् 0) completely (अशेषतः 0) by the one who sustains a body (देहभृता 3/1).

 

Sentence 2:

यः 1/1 तु 0 कर्मफलत्यागी 1/1 सः 1/1 त्यागी 1/1 इति 0 अभिधीयते III/1॥

On the other hand (तु 0), the one who (यः 1/1) is a renunciate of the results of action (कर्मफलत्यागी 1/1) is called (सः 1/1 इति 0 अभिधीयते III/1) a tyāgin (त्यागी 1/1).

 

 

यः पुनः अधिकृतः सन् देहात्माभिमानित्वेन देहभृत् अज्ञः अबाधितात्मकर्तृत्वविज्ञानतया ‘अहं कर्ता’ इति निश्चितबुद्धिः तस्य अशेषकर्मपरित्यागस्य अशक्यत्वात् कर्मफलत्यागेन चोदितकर्मानुष्ठाने एव अधिकारः, न तत्त्यागे इति एतम् अर्थं दर्शयितुम् आह —

न हि यस्मात् देहभृता, देहं बिभर्तीति देहभृत् , देहात्माभिमानवान् देहभृत् उच्यते, न विवेकी ; स हि ‘वेदाविनाशिनम्’ (भ. गी. २ । २१) इत्यादिना कर्तृत्वाधिकारात् निवर्तितः ।

अतः तेन देहभृता अज्ञेन न शक्यं त्यक्तुं संन्यसितुं कर्माणि अशेषतः निःशेषेण । तस्मात् यस्तु अज्ञः अधिकृतः नित्यानि कर्माणि कुर्वन् कर्मफलत्यागी कर्मफलाभिसन्धिमात्रसंन्यासी सः त्यागी इति अभिधीयते कर्मी अपि सन् इति स्तुत्यभिप्रायेण ।

तस्मात् परमार्थदर्शिनैव अदेहभृता देहात्मभावरहितेन अशेषकर्मसंन्यासः शक्यते कर्तुम् ॥ ११ ॥

 

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.