श्रीभगवान् उवाच ।
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥४.५॥
śrībhagavān uvāca |
bahūni me vyatītāni janmāni tava cārjuna |
tānyahaṃ veda sarvāṇi na tvaṃ vettha parantapa ||4.5||
श्रीभगवान् 1/1 उवाच III/1 ।
बहूनि 1/3 मे 6/1 व्यतीतानि
1/3 जन्मानि 1/3 तव 6/1 च 0 अर्जुन 8/1 ।
तानि 2/3 अहम् 1/1 वेद I/1 सर्वाणि
2/3 न 0 त्वम् 1/1 वेत्थ II/1 परन्तप
8/1 ॥४.५॥
·
श्रीभगवान् [śrībhagavān] = Bhagavān = भगवत् (m.) + कर्तरि to उवाच 1/1
·
उवाच [uvāca]
= said = वच् (2P) to say + लिट्/कर्तरि/III/1
·
बहूनि [bahūni] = many = बहु (n.) + 1/3
·
मे [me] = my = अस्मद् (pron. m.) + 6/1
·
व्यतीतानि [vyatītāni] = that which have passed = व्यतीत
(n.) + 1/3
·
जन्मानि [janmāni] = births = जन्मन्
(n.) + 1/3
·
तव [tava] = your = युष्मद् (pron. m.) + 6/1
·
च [ca] = and = अव्ययम्
·
अर्जुन [arjuna] = Arjuna = अर्जुन (m.) + सम्बोधने 1/1
·
तानि [tāni] = them = तद् (pron. n.) + 1/3
·
अहम् [aham] = I = अस्मद् (pron. m.) + 1/1
·
वेद [veda] = I know= विद् (2P) to know + लट्/कर्तरि/I/1
·
सर्वाणि [sarvāṇi] = all = सर्व (pron. n.) + 1/3
·
न [na] = not = अव्ययम्
·
त्वम् [tvam] = you = युष्मद् (pron. m.) + 1/1
·
वेत्थ [vettha] = you
know= विद् (2P) to know
+ लट्/कर्तरि/II/1
·
परन्तप [parantapa] = the one who inflicts enemies
= परन्तप (m.) + 1/1
o
परान् तापयति
परन्तपः () ।
o
पर + शस् +
तप् + खच् 3.2.39 द्विषत्परयोस्तापेः। ~
खच्
o
पर + मुम् +
तप् + अ 6.3.66
अरुर्द्विषदजन्तस्य मुम् । ~ खिति
Śrī Bhagavān said:
Many births have passed for me and
you, O Arjuna! I know them all (whereas) you do not know, O Scorcher of foes!
Sentence 1:
श्रीभगवान् 1/1 उवाच III/1 ।
Śrī
Bhagavān (श्रीभगवान् 1/1) said (उवाच III/1).
Sentence 2:
मे 6/1 तव 6/1 च 0 बहूनि 1/3 जन्मानि 1/3 व्यतीतानि 1/3 अर्जुन 8/1 ।
Many (बहूनि 1/3) births (जन्मानि 1/3) have passed (व्यतीतानि 1/3) for me (मे 6/1) and (च 0) you (तव 6/1), O Arjuna (अर्जुन 8/1)!
Sentence 3:
अहम् 1/1 तानि 2/3 सर्वाणि 2/3 वेद I/1 त्वम् 1/1 न 0 वेत्थ II/1 परन्तप 8/1 ॥४.५॥
I (अहम् 1/1) know (वेद I/1) them (तानि 2/3) all (सर्वाणि 2/3) (whereas) you (त्वम् 1/1) do not (न 0) know (वेत्थ II/1), O Scorcher of foes (परन्तप 8/1)!
या 1/1 वासुदेवे 7/1 अनीश्वर-असर्वज्ञ-आशङ्का 1/1 मूर्खाणाम्
6/3, ताम् 2/1 परिहरन् 1/1 श्रीभगवान् 1/1 उवाच III/1, यदर्थः 1/1 हि 0 अर्जुनस्य
6/1 प्रश्नः 1/1 –
बहूनि 1/3 मे 6/1 मम 6/1 व्यतीतानि 1/3 अतिक्रान्तानि 1/3 जन्मानि 1/3 तव 6/1 च 0 हे 0 अर्जुन S/1 ।
तानि 2/3 अहम् 1/1 वेद I/1 जाने I/1 सर्वाणि 2/3 न 0 त्वम् 1/1 वेत्थ II/1 न 0 जानीषे II/1, धर्म-अधर्मादि-प्रतिबद्ध-ज्ञान-शक्तित्वात्
H5/1।
अहम् 1/1 पुनः 0 नित्य-शुद्ध-बुद्ध-मुक्त-स्वभावत्वात् H5/1 अनावरण-ज्ञान-शक्तिः
1/1 इति 0 वेद I/1 अहम् 1/1 हे 0 परन्तप S/1 ॥