निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥१.३१॥
nimittāni ca paśyāmi viparītāni keśava |
na ca śreyo'nupaśyāmi hatvā svajanamāhave ||1.31||
निमित्तानि 2/3 च 0 पश्यामि I/1 विपरीतानि 2/3 केशव S/1 ।
न 0 च 0 श्रेयः 2/1 अनुपश्यामि I/1 हत्वा 0 स्वजनम् 2/1 आहवे 7/1 ॥१.३१॥
· निमित्तानि [nimittāni] = omen = निमित्त (n.) + कर्मणि of पश्यामि 2/3
· च [ca] = and + अव्ययम्
· पश्यामि [paśyāmi] = दृश् to see + लट्/कर्तरि/I/1
· विपरीतानि [viparītāni] = inauspicious = विपरीत (n.) + adj. to निमित्तानि 2/3
· केशव [keśava] = Kṛṣṇa = केशव + सम्बोधने 1/1
· न [na] = not + अव्ययम्
· च [ca] = and + अव्ययम्
· श्रेयः [śreyaḥ] = welfare = श्रेयस् (n.) + कर्मणि of अनुपश्यामि 2/1
o प्रशस्य (good) + ईयसुँन् (comparative)
= श्र + ईयस् 5.3.60 प्रशस्यस्य श्रः । ~ अजादी
= श्रेयस् 6.1.87 आद्गुणः ।
· अनुपश्यामि [anupaśyāmi] = अनु + दृश् to see + लट्/कर्तरि/I/1
· हत्वा [hatvā] = having killed = अव्ययम्
o हन् (2P) to injure + क्त्वा
= ह + त्वा 6.4.37 अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति ।
· स्वजनम् [svajanam] = our people = svajana (m.) + कर्म of हत्वा 2/1
· आहवे [āhave] = in the battle = आहव (m.) + अधिकरणे of हत्वा 7/1
Keśava! I see bad omens and I do not see any good in killing one’s own poeple in this battle.
Keśava (केशव S/1)! I see (पश्यामि I/1 च 0) bad (विपरीतानि 2/3) omens (निमित्तानि 2/3) and (च 0) I do not see (न 0 अनुपश्यामि I/1) any good (श्रेयः 2/1) in killing (हत्वा 0) one’s own poeple (स्वजनम् 2/1) in this battle (आहवे 7/1).
Sentence 1:
केशव S/1 विपरीतानि 2/3 निमित्तानि 2/3 च 0 पश्यामि I/1 । O Keśava! (केशव S/1) And (च 0) I see (पश्यामि I/1) the bad (विपरीतानि 2/3) omens (निमित्तानि 2/3).
Sentence 2:
हत्वा 0 स्वजनम् 2/1 आहवे 7/1 श्रेयः 2/1 च 0 न 0 अनुपश्यामि I/1 ॥३१॥ And (च 0) I do not see (न 0 अनुपश्यामि I/1) any good (श्रेयः 2/1) after killing (हत्वा 0) our own people (स्वजनम् 2/1) in the battle (आहवे 7/1).