बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥२.५०॥
buddhiyukto jahātīha ubhe sukṛtaduṣkṛte |
tasmādyogāya yujyasva yogaḥ karmasu kauśalam ||2.50||
बुद्धियुक्तः 1/1 जहाति III/1 इह 0 उभे 2/2 सुकृतदुष्कृते 2/2 ।
तस्मात् 5/1 योगाय 4/1 युज्यस्व II/1 योगः 1/1 कर्मसु 7/3 कौशलम् 1/1 ॥२.५०॥
· बुद्धियुक्तः [buddhiyuktaḥ] = One who is endowed with the samatva-buddhi = बुद्धियुक्त (m.) + 1/1
· जहाति [jahāti] = gives up = हा (3P) to give up + लट्/कर्तरि/III/1
· इह [iha] = here = अव्ययम्
· उभे [ube] = both = उभ (pron. n.) + adj. to सुकृतदुष्कृते 2/2
· सुकृतदुष्कृते [sukṛtaduṣkṛte] = puṇya and pāpa = सुकृतदुष्कृत (n.) + कर्मणि to जहाति 2/2
o सुकृतं (puṇya) च दुष्कृतं (pāpa) च सुकृतदुष्कृते (इतरेतरद्वन्द्वसमासः)
· तस्मात् [tasmāt] = therefore = तद् (pron. n.) + हेतौ 5/1
· योगाय [yogāya] = to karma-yoga = योग (m.) + 4/1
· युज्यस्व [yujyasva] = commit yourself = युज् (4A) to concentrate the mind + लोट्/कर्तरि/II/1
· योगः [yogaḥ] = karma-yoga = योग (m.) + 1/1
· कर्मसु [karmasu] = in action = कर्मन् (n.) + 7/3
· कौशलम् [kauśalam] = discretion = कौशल (n.) + 1/1
o कुशलस्य भावः कौशलम्
o कुशल + ङस् + ष्यञ्
One who is endowed with the samatva-buddhi, sameness of mind, gives up both puṇya and pāpa here, in this world. Therefore, commit yourself to karma-yoga. Karma-yoga is discretion in action.
Sentence 1:
बुद्धियुक्तः 1/1 उभे 2/2 सुकृतदुष्कृते 2/2 इह 0 जहाति III/1 ।
One who is endowed with the samatva-buddhi, sameness of mind (बुद्धियुक्तः 1/1), gives up (जहाति III/1) both (उभे 2/2) puṇya and pāpa (सुकृतदुष्कृते 2/2) here, in this world (इह 0).
Sentence 2:
तस्मात् 5/1 योगाय 4/1 युज्यस्व II/1
Therefore (तस्मात् 5/1), commit yourself (युज्यस्व II/1) to karma-yoga (योगाय 4/1).
Sentence 3:
योगः 1/1 कर्मसु 7/3 कौशलम् 1/1 ॥२.५०॥
Karma-yoga (योगः 1/1) is discretion (कौशलम् 1/1) in action (कर्मसु 7/3).
समत्वबुद्धियुक्तः 1/1 सन् 1/1 स्वधर्मम् 2/1 अनुतिष्ठन् 1/1 यत् 2/1 फलम् 2/1 प्राप्नोति III/1 तत् 2/1 शृणु II/1 –
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते।तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्।।2.50।।
बुद्धियुक्तः 1/1 कर्मसमत्वविषयया 3/1 बुद्ध्या 3/1 युक्तः 1/1 बुद्धियुक्तः 1/1 सः 1/1 जहाति III/1 परित्यजति III/1 इह 0 अस्मिन् 7/1 लोके 7/1 उभे 2/2 सुकृत-दुष्कृते 2/2 पुण्यपापे 2/2 सत्त्वशुद्धि-ज्ञानप्राप्तिद्वारेण 3/1 यतः 0, तस्मात् 5/1 समत्वबुद्धियोगाय 4/1 युज्यस्व II/1 घटस्व II/1। योगः 1/1 हि 0 कर्मसु 7/3 कौशलम् 1/1 स्वधर्माख्येषु 7/3 कर्मसु 7/3 वर्तमानस्य 6/1 या 1/1 सिद्ध्यसिद्ध्योः 6/2 समत्वबुद्धिः 1/1 ईश्वरार्पित-चेतस्तया 3/1 तत् 1/1 कौशलम् 1/1 कुशलभावः 1/1 । तत् 0 हि 0 कौशलम् 1/1 यत् 0 बन्धन-स्वभावानि 1/3 अपि 0 कर्माणि 1/3 समत्वबुद्ध्या 3/1 स्वभावात् 5/1 निवर्तन्ते III/3 । तस्मात् 5/1 समत्वबुद्धियुक्तः 1/1 भव II/1 त्वम् 1/1 ॥