अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥२.२८॥
avyaktādīni bhūtāni vyaktamadhyāni bhārata |
avyaktanidhanānyeva tatra kā paridevanā ||2.28||
अव्यक्तादीनि 1/3 भूतानि 1/3 व्यक्तमध्यानि 1/3 भारत S/1 ।
अव्यक्तनिधनानि 1/3 एव 0 तत्र 0 का 1/1 परिदेवना 1/1 ॥२.२८॥
· अव्यक्तादीनि [avyaktādīni] = the one for whom unmanifest is the beginning = अव्यक्तादि (n.) + 1/3
o अव्यक्तः आदिः येषां ते अव्यक्तादीनि । 116B बहुव्रीहिसमासः ।
· भूतानि [bhūtāni] = beings = भूत (n.) + 1/3
· व्यक्तमध्यानि [vyaktamadhyāni] = the one for whom manifest is the middle = व्यक्तमध्य (n.) + 1/3
o व्यक्तः मध्यः येषां ते व्यक्तमध्यानि । 116B बहुव्रीहिसमासः ।
· भारत [bhārata] = O! descendant of Bharata (Arjuna) = भारत (m.) + 1/1
· अव्यक्तनिधनानि [avyaktanidhanāni] = the one for whom unmanifest is the end = अव्यक्तनिधन (n.) + 1/3
o अव्यक्तं निधनं येषां ते अव्यक्तनिधनानि । 116B बहुव्रीहिसमासः ।
· एव [eva] = indeed = अव्ययम्
· तत्र [tatra] = with reference to that = अव्ययम्
· का [kā] = what = किम् (pron. f.) + 1/1
· परिदेवना [paridevanā] = grief = परिदेवना (f.) + 1/1
All beings are unmanifest in the beginning, manifest in the middle, and again unmanifest in the end. What indeed is there to grieve about, O! Bhārata!
Sentence 1:
भूतानि 1/3 अव्यक्तादीनि 1/3 व्यक्तमध्यानि 1/3 अव्यक्तनिधनानि 1/3 एव 0 ।
All beings (भूतानि 1/3) are unmanifest in the beginning (अव्यक्तादीनि 1/3), manifest in the middle (व्यक्तमध्यानि 1/3), and indeed (एव 0) unmanifest in the end (अव्यक्तनिधनानि 1/3).
Sentence 2:
तत्र 0 का 1/1 परिदेवना 1/1 भारत S/1 ॥२.२८॥
What (का 1/1) is there (तत्र 0) to grieve about (परिदेवना 1/1), O! Bhārata (भारत S/1)!
कार्य-करण-संघात-आत्मकानि 2/3 अपि 0 भूतानि 2/3 उद्दिश्य 0 शोकः 1/1 न 0 युक्तः 1/1 कर्तुम् 0, यतः 0 – ।
अव्यक्तादीनि 1/3 भूतानि 1/3 व्यक्तमध्यानि 1/3 भारत S/1 ।
अव्यक्तनिधनानि 1/3 एव 0 तत्र 0 का 1/1 परिदेवना 1/1 ॥२.२८॥
अव्यक्तादीनि 1/3 अव्यक्तम् 1/1 अदर्शनम् 1/1 अनुपलब्धिः 1/1 आदिः 1/1 येषाम् 6/3 भूतानाम् 6/3 पुत्र-मित्र-आदि-कार्य-करण-संघात-आत्मकानाम् 6/3 तानि 1/3 अव्यक्तादीनि 1/3 भूतानि 1/3 प्राक् 0 उत्पत्तेः 5/1, उत्पन्नानि 1/3 च 0 प्राक् 0 मरणात् 5/1 व्यक्तमध्यानि 1/3 । अव्यक्तनिधनानि 1/3 एव 0 पुनः 0 अव्यक्तम् 1/1 अदर्शम् 1/1 निधनम् 1/1 मरणम् 1/1 येषाम् 6/3 तानि 1/3 अव्यक्तनिधनानि 1/3 । मरणात् 5/1 ऊर्ध्वम् 0 अपि 0 अव्यक्तताम् 2/1 एव 0 प्रतिपद्यन्ते III/3 इत्यर्थः 1/1। तथा 0 च 0 उक्तम् 1/1 – “अदर्शनात् 5/1 आपतितः 1/1 पुनः 0 च 0 अदर्शनम् 2/1 गतः 1/1 । न 0 असौ 1/1 (पुरुषः) तव 6/1 न 0 तस्य 6/1 त्वम् 1/1 वृथा 0 का 1/1 परिदेवना 1/1” इति 0। तत्र 0 का 1/1 परिदेवना 1/1 कः 1/1 वा 0 प्रलापः 1/1 अदृष्ट-दृष्ट-प्रनष्ट-भ्रान्ति-भूतेषु 7/3 भूतेषु 7/3 इत्यर्थः 1/1॥