विहाय कामान् यः सर्वान् पुमांश्चरति निःस्पृहः ।
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥२.७१॥
vihāya kāmān yaḥ sarvān pumāṃścarati niḥspṛhaḥ |
nirmamo nirahaṅkāraḥ sa śāntimadhigacchati ||2.71||
विहाय 0 कामान् 2/3 यः 1/1 सर्वान् 2/3 पुमान् 1/1 चरति III/1 निःस्पृहः 1/1 ।
निर्ममः 1/1 निरहङ्कारः 1/1 सः 1/1 शान्तिम् 2/1 अधिगच्छति III/1 ॥२.७१॥
· विहाय [vihāya] = having given up = अव्ययम्
o वि + हा त्यागे (3P) to give up + ल्यप्
· कामान् [kāmān] = desire = काम (m.) + कर्मणि to विहाय 2/3
· यः [yaḥ] = the one who = यद् (pron. m.) + 1/1
· सर्वान् [sarvān] = all = सर्व (pron. m.) + adj. to कामान् 2/3
· पुमान् [pumān] = a person = पुंस् (m.) + कर्तरि to चरति 1/1
· चरति [carati] = moves = चर् (1P) to move + लट्/कर्तरि/III/1
· निःस्पृहः [niḥspṛhaḥ] = devoid of longing = निस्पृह (m.) + adj. to पुमान् 1/1
· निर्ममः [nirmamaḥ] = devoid of sense of ‘mine’ = निर्मम (m.) + adj. to पुमान् 1/1
· निरहङ्कारः [nirahaṅkāraḥ] = devoid of sense of limited ‘I’ = निरहङ्कार (m.) + adj. to पुमान् 1/1
· सः [saḥ] = he = तद् (pron. m.) + 1/1
· शान्तिम् [śāntim] = peace = शान्ति (f.) + 2/1
· अधिगच्छति [adhigacchati] = gains = अधि + गम् (1P) to gain + लट्/कर्तरि/III/1
Having given up all binding desires, the person who moves around devoid of longing without the sense of limited ‘I’ and ‘mine’, gains peace.
Sentence 1:
यः 1/1 पुमान् 1/1 सर्वान् 2/3 कामान् 2/3 विहाय 0 निःस्पृहः 1/1 निरहङ्कारः 1/1 निर्ममः 1/1 चरति III/1 ।
सः 1/1 शान्तिम् 2/1 अधिगच्छति III/1 ॥२.७१॥
Having given up (विहाय 0) all (सर्वान् 2/3) binding desires (कामान् 2/3), the person (पुमान् 1/1) who (यः 1/1) moves around (चरति III/1) devoid of longing (निःस्पृहः 1/1) without the sense of limited ‘I’ (निरहङ्कारः 1/1) and ‘mine’ (निर्ममः 1/1), gains (सः 1/1 अधिगच्छति III/1) peace (शान्तिम् 2/1).
यस्मात् 5/1 एवम् 0 तस्मात् 5/1 –
विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः। निर्ममो निरहंकारः स शांतिमधिगच्छति ॥ 2.71 ॥
विहाय 0 परित्यज्य 0 कामान् 2/3 यः 1/1 संन्यासी 1/1 पुमान् 1/1 सर्वान् 2/3 अशेषतः 0 कार्त्स्न्येन 0 चरति III/1, जीवन-मात्र-चेष्टा-शेषः 1/1 पर्यटति 1/1 इत्यर्थः 1/1 । निःस्पृहः 1/1 शरीर-जीवन-मात्रे 7/1 अपि 0 निर्गता 1/1 स्पृहा 1/1 यस्य 6/1 सः 1/1 निःस्पृहः 1/1 सन् 1/1, निर्ममः 1/1 शरीर-जीवन-मात्र-आक्षिप्त-परिग्रहे 7/1 अपि 0 मम 6/1 इदम् 1/1 इति 0 अभिनिवेश-वर्जितः 1/1, निरहंकारः 1/1 विद्यावत्त्व-आदि-निमित्त-आत्म-संभावना-रहितः 1/1 इत्येतत् 1/1 । सः 1/1 एवंभूतः 1/1 स्थितप्रज्ञः 1/1 ब्रह्मवित् 1/1 शान्तिम् 2/1 सर्व-संसार-दुःख-उपरम-लक्षणाम् 2/1 निर्वाण-आख्याम् 2/1 अधिगच्छति III/1 प्राप्नोति III/1 ब्रह्मभूतः 1/1 भवति III/1 इत्यर्थः 1/1 ॥
कृत्स्नस्य भावः कार्त्स्न्यम्