Showing posts with label 1813 18th Chapter 13th Sloka. Show all posts
Showing posts with label 1813 18th Chapter 13th Sloka. Show all posts

Monday, December 1, 2025

18th Chapter 13th Sloka

पञ्चैतानि महाबाहो कारणानि निबोध मे ।

साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ १८.१३ ॥

 

pañcaitāni mahābāho kāraṇāni nibodha me |

sāṅkhye kṛtānte proktāni siddhaye sarvakarmaṇām || 18.13 ||

 

पञ्च 2/3 एतानि 2/3 महाबाहो S/1 कारणानि 2/3 निबोध II/1 मे 6/1 ।

साङ्ख्ये 7/1 कृतान्ते 7/1 प्रोक्तानि 2/3 सिद्धये 4/1 सर्वकर्मणाम् 6/3 ॥ १८.१३ ॥

 

 

·       पञ्च [pañca] = five = पञ्चन् (n..) = adj. to कारणानि 2/3

·       एतानि [etāni] = these = एतद् (pron.) = adj. to कारणानि 2/3

·       महाबाहो [mahābāho] = O mighty-armed! = महाबाहु (m.) + सम्बोधने 1/1

·       कारणानि [kāraṇāni] = causes = कारण (n.) + कर्मणि to निबोध 2/3

·       निबोध [nibodha] = understand = नि + बुध (1P) to know + लोट्/कर्तरि/II/1

·       मे [me] = from Me = अस्मद् (pron.) + सम्बन्धे to (वचनात्) 6/1

·       साङ्ख्ये [sāṅkhye] = in the Vedānta śāstra = सांख्य (n.) + अधिकरणे to प्रोक्तानि 7/1

·       कृतान्ते [kṛtānte] = the point of culmination of all karma = कृतान्त (n.) + adj. to साङ्ख्ये 7/1

·       प्रोक्तानि [proktāni] = are told = प्रोक्त (n.) O.C. to कारणानि 2/3

·       सिद्धये [siddhaye] = for the accomplishment = सिद्धि (f.) + तादर्थ्ये to प्रोक्तानि 4/1

·       सर्वकर्मणाम् [sarvakarmaṇām] = of all karmas = सर्वकर्मन् (n.) + सम्बन्धे to सिद्धये 6/3

 

 

Understand from Me, Arjuna, the mighty armed! these five causes for the accomplishment of all karmas are told in the śāstra at the end of the Veda (that is, Vedanta) which is the point of culmination of all karma.

 

Sentence 1:

कृतान्ते 7/1 साङ्ख्ये 7/1 प्रोक्तानि 2/3 सर्वकर्मणाम् 6/3 सिद्धये 4/1 एतानि 2/3 पञ्च 2/3 कारणानि 2/3 मे 6/1 निबोध II/1 महाबाहो S/1॥

Understand (निबोध II/1) from Me (मे 6/1), Arjuna, the mighty armed (महाबाहो S/1)! These (एतानि 2/3) five (पञ्च 2/3) causes (कारणानि 2/3) for the accomplishment (सिद्धये 4/1) of all karmas (सर्वकर्मणाम् 6/3) are told (प्रोक्तानि 2/3) in the śāstra at the end of the Veda (साङ्ख्ये 7/1) (that is, Vedānta) which is the point of culmination of all karma (कृतान्ते 7/1).

 

 

 

अतः परमार्थदर्शिनः एव अशेषकर्मसंन्यासित्वं सम्भवति, अविद्याध्यारोपितत्वात् आत्मनि क्रियाकारकफलानाम् ; न तु अज्ञस्य अधिष्ठानादीनि क्रियाकर्तृकारकाणि आत्मत्वेनैव पश्यतः अशेषकर्मसंन्यासः सम्भवति तदेतत् उत्तरैः श्लोकैः दर्शयति —

 

पञ्चैतानि महाबाहो कारणानि निबोध मे ।

साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ १३ ॥

पञ्च एतानि वक्ष्यमाणानि हे महाबाहो, कारणानि निर्वर्तकानि ।

निबोध मे मम इति उत्तरत्र चेतःसमाधानार्थम् , वस्तुवैषम्यप्रदर्शनार्थं च ।

तानि च कारणानि ज्ञातव्यतया स्तौति — साङ्ख्ये ज्ञातव्याः पदार्थाः सङ्ख्यायन्ते यस्मिन् शास्त्रे तत् साङ्ख्यं वेदान्तः । कृतान्ते इति तस्यैव विशेषणम् । कृतम् इति कर्म उच्यते, तस्य अन्तः परिसमाप्तिः यत्र सः कृतान्तः, कर्मान्तः इत्येतत् । ‘यावानर्थ उदपाने’ (भ. गी. २ । ४६) ‘सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते’ (भ. गी. ४ । ३३) इति आत्मज्ञाने सञ्जाते सर्वकर्मणां निवृत्तिं दर्शयति ।

अतः तस्मिन् आत्मज्ञानार्थे साङ्ख्ये कृतान्ते वेदान्ते प्रोक्तानि कथितानि सिद्धये निष्पत्त्यर्थं सर्वकर्मणाम् ॥ १३ ॥

 

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.