यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् ।
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ १८.२२ ॥
yattu kṛtsnavadekasminkārye saktamahaitukam |
atattvārthavadalpaṃ ca tattāmasamudāhṛtam || 18.22 ||
यत् 1/1 तु 0 कृत्स्नवत् 0 एकस्मिन् 7/1 कार्ये 7/1 सक्तम् 1/1 अहैतुकम् 1/1 ।
अतत्त्वार्थवत् 1/1 अल्पम् 1/1 च 0 तत् 1/1 तामसम् 1/1 उदाहृतम् 1/1॥ १८.२२ ॥
· यत् [yat] = that which = यद् (pron. n.) + adj. to ज्ञानम् 1/1
· तु [tu] = whereas / on the other hand = अव्ययम्
· कृत्स्नवत् [kṛtsnavat] = as though it is everything = अव्ययम्
· एकस्मिन् [ekasmin] = in one = एक (pron. n.) + adj. to कार्ये 7/1
· कार्ये [kārye] = object (of attention) = कार्य (n.) + अधिकरणे to सक्तम् 7/1
· सक्तम् [saktam] = attached, committed = सक्त (n.) + adj. to ज्ञानम् 1/1
· अहैतुकम् [ahaitukam] = illogical (without cause) = अहैतुक (n.) + adj. to ज्ञानम् 1/1
· अतत्त्वार्थवत् [atattvārthavat] = devoid of truth = अतत्त्वार्थवत् (n.) + adj. to ज्ञानम् 1/1
· अल्पम् [alpam] = very limited = अल्प (n.) + adj. to ज्ञानम् 1/1
· च [ca] = and = अव्ययम्
· तत् [tat] = that = तद् (pron. n.) + adj. to ज्ञानम् 1/1
· तामसम् [tāmasam] = tāmasa = तामस (n.) + O.C. to ज्ञानम् 1/1
· उदाहृतम् [udāhṛtam] = is called = उदाहृत (n.) + कर्तरि to (भवति) 1/1
o उद् + आङ् + हृ to cite
Whereas that (knowledge by) which (one is) committed to one object, as though it is everything (and) which is illogical, without truth, and very limited, that (knowledge) is called tāmasa.
Sentence 1:
यत् 1/1 तु 0 एकस्मिन् 7/1 कार्ये 7/1 कृत्स्नवत् 0 सक्तम् 1/1 अहैतुकम् 1/1 अतत्त्वार्थवत् 1/1 अल्पम् 1/1 च 0 तत् 1/1 तामसम् 1/1 उदाहृतम् 1/1॥
Whereas (तु 0) that (यत् 1/1) (knowledge by) which (one is) committed (सक्तम् 1/1) to one (एकस्मिन् 7/1) object (कार्ये 7/1), as though it is everything (कृत्स्नवत् 0) (and) which is illogical (अहैतुकम् 1/1), without truth (अतत्त्वार्थवत् 1/1), and (च 0) very limited (अल्पम् 1/1), that (तत् 1/1) (knowledge) is called (उदाहृतम् 1/1) tāmasa (तामसम् 1/1).
यत् 1/1 ज्ञानं कृत्स्नवत् 0 समस्तवत् सर्वविषयमिव एकस्मिन् 7/1 कार्ये 7/1 देहे बहिर्वा प्रतिमादौ सक्तम् 1/1 “एतावानेव आत्मा ईश्वरो वा, न अतः परम् अस्ति” इति, यथा नग्नक्षपणकादीनां शरीरान्तर्वर्ती देहपरिमाणो जीवः, ईश्वरो वा पाषाणदार्वादिमात्रम् , इत्येवम् एकस्मिन् कार्ये सक्तम् अहैतुकम् 1/1 हेतुवर्जितं निर्युक्तिकम् , अतत्त्वार्थवत् 1/1 अयथाभूतार्थवत् , यथाभूतः अर्थः तत्त्वार्थः, सः अस्य ज्ञेयभूतः अस्तीति तत्त्वार्थवत् , न तत्त्वार्थवत् अतत्त्वार्थवत् ; अहैतुकत्वादेव अल्पम् 1/1 च 0, अल्पविषयत्वात् अल्पफलत्वाद्वा । तत् 1/1 तामसम् 1/1 उदाहृतम् 1/1। तामसानां हि प्राणिनाम् अविवेकिनाम् ईदृशं ज्ञानं दृश्यते ॥ १८.२२ ॥