कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः
।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं
शाधि मां त्वां प्रपन्नम् ॥२.७॥
kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi
tvāṃ dharmasammūḍhacetāḥ |
yacchreyaḥ syānniścitaṃ brūhi tanme
śiṣyaste:'haṃ śādhi māṃ tvāṃ prapannam ||2.7||
कार्पण्यदोषोपहतस्वभावः 1/1 पृच्छामि I/1 त्वाम् 2/1 धर्मसम्मूढचेताः 1/1 ।
यत् 1/1 श्रेयः 1/1 स्यात्
III/1 निश्चितम् 1/1 ब्रूहि
II/1 तत् 2/1 मे
4/1 शिष्यः 1/1 ते
6/1 अहम् 1/1 शाधि
II/1 माम् 2/1 त्वाम्
2/1 प्रपन्नम् 2/1 ॥२.७॥
·
कार्पण्यदोषोपहतस्वभावः
[kārpaṇyadoṣopahatasvabhāvaḥ] = one who is overcome by faint-heartedness =
कार्पण्यदोषोपहतस्वभाव (m.) + adj.
to Arjuna 1/1
o
कृपणस्य (of miser) भावः (status)
कार्पण्यम् (miserliness) ।
o
कार्पण्यम्
एव दोषः (limitation) कार्पण्यदोषः
। कर्मधारयतत्पुरुषसमासः
o
कार्पण्यदोषेण
(by the limitation which is miserliness) उपहतः
(overpowered) स्वभावः (one’s nature) यस्य
(for whom) सः कार्पण्यदोषोपहतस्वभावः । बहुव्रीहिसमासः 311-6B
·
पृच्छामि [pṛcchāmi]
= I ask = प्रछ् (6P) to question + लट्/कर्तरि/I/1
·
त्वाम् [tvām] = you = युष्मद् (pron. m.)
+ कर्मणि to पृच्छामि
2/1
·
धर्मसम्मूढचेताः
[dharmasammūḍhacetāḥ] = confused about my duty= धर्मसम्मूढचेतस् (m.) + adj. to Arjuna 1/1
o
धर्मे [विषये] (about duty) सम्मूढं (confused) चेतः (mind) यस्य (for whom) सः
धर्मसम्मूढचेताः । बहुव्रीहिसमासः 711-6B
·
यद् [yad] = that
which = यद् (pron. n.)
+ 1/1
·
श्रेयः [śreyaḥ]
= better = श्रेयस् (n.) + 1/1
·
स्यात् [syāt] = would be = अस् (2P) to be
+ विधिलिङ्/कर्तरि/ III/1
·
निश्चितम् [niścitam]
= definetely = निश्चित (n.) + adj. to श्रेयः 1/1
·
ब्रूहि [brūhi] =
please tell = ब्रू (2P) to tell + लोट्/कर्तरि/II/1
·
तद् [tad] = that = तद् (pron. n.)
+ कर्मणि to ब्रूहि 2/1
·
मे [me] = for
me = अस्मद् (pron. m.)
+ संप्रदाने to ब्रूहि 4/1
·
शिष्यः [śiṣyaḥ]
= student = शिष्य (m.) + 1/1
·
ते [te] = your
= युष्मद् (pron. m.)
+ सम्बन्धने 6/1
·
अहम् [aham] = I
= अस्मद् (pron. m.)
+ 1/1
·
शाधि [śādhi] =
please teach = शास् (2P) to teach
+ लोट्/कर्तरि/II/1
·
माम् [mām] = me
= अस्मद् (pron. m.)
+ कर्मणि to शाधि 2/1
·
त्वाम् [tvām] = to you = युष्मद् (pron. m.)
+ कर्मणि to प्रपन्नम्
2/1
·
प्रपन्नम् [prapannam]
= one who has taken refuge = प्रपन्न (m.) + adj. to माम् 2/1
o
प्र + पद् (to take refuge) + क्त (कर्तरि)
Main sentence 1:
कार्पण्यदोषोपहतस्वभावः 1/1 धर्मसम्मूढचेताः 1/1 [अहं 1/1] त्वाम्
2/1 पृच्छामि I/1 ।
Overcome by faint-heartedness (कार्पण्यदोषोपहतस्वभावः 1/1), confused about my duty (धर्मसम्मूढचेताः 1/1), I ask (पृच्छामि
I/1) you (त्वाम् 2/1).
Sentence 2 – तद् clause:
तत् 2/1 मे 4/1 ब्रूहि
II/1
Please tell (ब्रूहि
II/1) me (मे 4/1) that (तत्
2/1)
Sentence 2 – यद् clause:
यत् 1/1 श्रेयः 1/1 स्यात्
III/1 निश्चितम् 1/1
which (यत् 1/1)
is (स्यात् III/1) definitely (निश्चितम्
1/1) better for me (श्रेयः 1/1).
Sentence 3:
अहम् 1/1 ते 6/1 शिष्यः 1/1
I am (अहम् 1/1)
your (ते 6/1) student (शिष्यः
1/1).
Sentence 4:
माम् 2/1 त्वाम् 2/1 प्रपन्नम् 2/1 शाधि II/1 ॥२.७॥
Please teach (शाधि
II/1) me (माम् 2/1), who has taken refuge
(प्रपन्नम् 2/1) in you (त्वाम्
2/1).