अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ९.११ ॥
avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam |
paraṃ bhāvamajānanto mama bhūtamaheśvaram || 9.11 ||
अवजानन्ति III/3 माम् 2/1 मूढाः 1/3 मानुषीम् 2/1 तनुम् 2/1 आश्रितम् 2/1 ।
परम् 2/1 भावम् 2/1 अजानन्तः 1/3 मम 6/1 भूतमहेश्वरम् 2/1 ॥ ९.११ ॥
· अवजानन्ति [avajānanti] = (they) fail to recognize = अव + ज्ञा (9P) to have a low opinion, to despite + लट्/कर्तरि/III/3
· माम् [mām] = me = अस्मद् m. + कर्मणि to अवजानन्ति 2/1
· मूढाः [mūḍhāḥ] = the deluded = मूढ m. + कर्तरि to अवजानन्ति 1/3
o मुह् (4P) to be confused + क्त
मूढ् + त 8.2.31 हो ढः । ~ झलि
मूढ् + ध 8.2.40 झषस्तथोर्धोऽधः ।
मूढ् + ढ 8.4.41 ष्टुना ष्टुः । ~ स्तोः
मू + ढ 8.3.13 ढो ढे लोपः ।
· मानुषीम् [mānuṣīm] = that which belongs to human = मानुषी (f.) + adj. to तनुम् 2/1
o मनोः जातः मानुषः । human
मनु + अञ् 4.1.161 मनोर्जातावञ्यतौ षुक् च।
मनु षुक् + अ 4.1.161 मनोर्जातावञ्यतौ षुक् च।
मानु ष् + अ 7.2.117 तद्धितेष्वचामादेः । ~ वृद्धिः
o मानुषस्य इदम् । that which belongs to human
मानुष + अण् 4.3.120 तस्येदम् ।
मानुष् + अ 6.4.148 यस्येति च । ~ लोपः तद्धिते भस्य
o मानुष + ङीप् 4.1.15 टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः।
मानुष् + ई 6.4.148 यस्येति च । ~ लोपः तद्धिते भस्य
· तनुम् [tanum] = body = तनु (f.) + कर्मणि to आश्रितम् 2/1
· आश्रितम् [āśritam] = that which obtains = आश्रित m. + adj. to माम् 2/1
· परम् [param] = limitless = पर m. + adj. to भावम् 2/1
· भावम् [bhāvam] = nature = भाव (m.) + कर्मणि to अजानन्तः 2/1
· अजानन्तः [ajānantaḥ] = not knowing = अजानत् m. + adj. to मूढाः 1/3
o ज्ञा (9P) to know + शतृ
ज्ञा + श्ना + अत्
जा + ना + अत् 7.3.79 ज्ञाजनोर्जा ।
जा + न् + अत् 6.4.112 श्नाभ्यस्तयोरातः । ~ लोपः क्ङिति सार्वधातुके
o न जानन्तः अजानन्तः (NT)
· मम [mama] = my = अस्मद् m. + सम्बन्धे to भावम् 6/1
· भूतमहेश्वरम् [bhūtamaheśvaram] = as the Lord of all beings = भूतमहेश्वर (m.) + O.C. to भावम् 2/1
The deluded fail to recognise me, the one who obtains in the human body, not knowing my limitless nature as the Lord of all beings.
Sentence 1:
मम 6/1 परम् 2/1 भावम् 2/1 भूतमहेश्वरम् 2/1 अजानन्तः 1/3 मूढाः 1/3 माम् 2/1 मानुषीम् 2/1 तनुम् 2/1 आश्रितम् 2/1 अवजानन्ति III/3 ।
The deluded (मूढाः 1/3) fail to recognise (अवजानन्ति III/3) me (माम् 2/1), the one who obtains (आश्रितम् 2/1) in the human (मानुषीम् 2/1) body (तनुम् 2/1), not knowing (अजानन्तः 1/3) my (मम 6/1) limitless (परम् 2/1) nature (भावम् 2/1) as the Lord of all beings (भूतमहेश्वरम् 2/1).
एवं मां नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वजन्तूनाम् आत्मानमपि सन्तम् —
अवजानन्ति अवज्ञां परिभवं कुर्वन्ति मां मूढाः अविवेकिनः मानुषीं मनुष्यसम्बन्धिनीं तनुं देहम् आश्रितम् , मनुष्यदेहेन व्यवहरन्तमित्येतत् , परं प्रकृष्टं भावं परमात्मतत्त्वम् आकाशकल्पम् आकाशादपि अन्तरतमम् अजानन्तो मम भूतमहेश्वरं सर्वभूतानां महान्तम् ईश्वरं स्वात्मानम् । ततश्च तस्य मम अवज्ञानभावनेन आहताः ते वराकाः ॥ ११ ॥