लभन्ते ब्रह्मनिर्वाणम् ऋषयः क्षीणकल्मषाः ।
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥५.२५॥
labhante
brahmanirvāṇam ṛṣayaḥ kṣīṇakalmaṣāḥ |
chinnadvaidhā
yatātmānaḥ sarvabhūtahite ratāḥ ||5.25||
लभन्ते III/3 ब्रह्मनिर्वाणम् 2/1 ऋषयः 1/3 क्षीणकल्मषाः 1/3
।
छिन्नद्वैधाः 1/3 यतात्मानः 1/3 सर्वभूतहिते
7/1 रताः 1/3 ॥५.२५॥
·
लभन्ते [labhante]
= लभ् to gain + लट्/कर्तरि/III/3
·
ब्रह्मनिर्वाणम्
[brahmanirvāṇam] = the freedom which is Brahman = ब्रह्मनिर्वाण (n.) + कर्मणि to अधिगच्छति
2/1
·
ऋषयः [ṛṣayaḥ]
= sages = ऋषि (m.) + कर्तरि to लभन्ते 1/3
·
क्षीणकल्मषाः
[kṣīṇakalmaṣāḥ] = ones whose impurities have been
destroyed = क्षीणकल्मष (m.) + adjective
to ऋषयः 1/3
o
क्षीणाः कल्मषाः पापादिदोषाः येषां ते क्षीणकल्मषाः (116B) ।
·
छिन्नद्वैधाः
[chinnadvaidhāḥ] = ones whose doubts have been resolved = छिन्नद्वैध (m.) + adjective
to ऋषयः 1/3
o
छिन्नाः द्वैधाः संशयाः येषां ते छिन्नद्वैधाः (116B) ।
·
यतात्मानः [yatātmānaḥ]
= ones who have self mastery = यतात्मन् (m.) + adjective to ऋषयः 1/3
o
यतानि इन्द्रियाणि येषां ते यतात्मानः (116B) ।
·
सर्वभूतहिते [sarvabhūtahite]
= in the good of all beings = सर्वभूतहित (m.) + अधिकरणे to रताः 7/1
o
सर्वेषां भूतानां हितः सर्वभूतहितः (6T), तस्मिन् ।
·
रताः [ratāḥ] =
ones who are happily engaged = रत (m.) + adjective to ऋषयः 1/3
Sages whose
impurities have been destroyed, whose doubts have been resolved, who have self
mastery (and) who are happily engaged in the good of all beings, gain
liberation.
Sentence 1:
ऋषयः 1/3 क्षीणकल्मषाः 1/3 छिन्नद्वैधाः 1/3 यतात्मानः
1/3 सर्वभूतहिते 7/1 रताः
1/3 ब्रह्मनिर्वाणम् 2/1 लभन्ते
III/3 ॥५.२५॥
Sages (ऋषयः 1/3) whose impurities have been
destroyed (क्षीणकल्मषाः 1/3), whose doubts have been resolved (छिन्नद्वैधाः 1/3), who have self mastery (यतात्मानः 1/3) (and) who are happily engaged (रताः 1/3) in the good of all beings (सर्वभूतहिते 7/1), gain (लभन्ते III/3) liberation (ब्रह्मनिर्वाणम् 2/1).
किञ्च –
लभन्ते III/3 ब्रह्मनिर्वाणम् 2/1 मोक्षम् 2/1 ऋषयः 1/3 सम्यग्दर्शिनः 1/3 संन्यासिनः 1/3 क्षीणकल्मषाः 1/3 क्षीणपापाः 1/3 निर्दोषाः 1/3 । छिन्नद्वैधाः 1/3 छिन्नसंशयाः 1/3 यतात्मानः 1/3 संयतेन्द्रियाः 1/3 सर्वभूतहिते 7/1 रताः 1/3 सर्वेषाम् 6/3 भूतानाम् 6/3 हिते 7/1 आनुकूल्ये 7/1 रताः 1/3 अहिंसकाः 1/3 इत्यर्थः 1/1॥