सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥ १८.२० ॥
sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣate |
avibhaktaṃ vibhakteṣu tajjñānaṃ viddhi sāttvikam || 18.20 ||
सर्वभूतेषु 7/3 येन 3/1 एकम् 2/1 भावम् 2/1 अव्ययम् 2/1 ईक्षते III/1 ।
अविभक्तम् 2/1 विभक्तेषु 7/3 तत् 2/1 ज्ञानम् 2/1 विद्धि II/1 सात्त्विकम् 2/1 ॥ १८.२० ॥
· सर्वभूतेषु [sarvabhūteṣu] = among all beings = सर्वभूत (n.) + अधिकरणे 7/3
· येन [yena] = by which = यद् (pron.) + करणे to ईक्षते 3/1
· एकम् [ekam] = one = एक (n.) + adj. to भावम् 2/1
· भावम् [bhāvam] = existence, reality = भाव (m.) + कर्मणि to ईक्षते 2/1
· अव्ययम् [avyayam] = immutable = अव्यय (n.) + adj. to भावम् 2/1
· ईक्षते [īkṣate] = sees, knows = ईक्ष् (1A) to see + लट्/कर्तरि/III/1
· अविभक्तम् [avibhaktam] = undivided = अविभक्त (n.) + कर्मणि to ईक्षते 2/1
· विभक्तेषु [vibhakteṣu] = among the divided = विभक्त (n.) + अधिकरणे to ईक्षते 7/3
· तत् [tat] = that = तद् (pron.) + adj. to ज्ञानम् 2/1
· ज्ञानम् [jñānam] = knowledge = ज्ञान (n.) + कर्मणि to विद्धि 2/1
· विद्धि [viddhi] = know = विद् (2P) to know + लोट्/कर्तरि/II/1
· सात्त्विकम् [sāttvikam] = sāttvika = सात्त्विक (n.) + O.C. to ज्ञानम् 2/1
Know that to be sāttvika knowledge by which one knows one changeless existence in all things (and beings) and the undivided among the divided.
Sentence 1:
येन 3/1 सर्वभूतेषु 7/3 एकम् 2/1 अव्ययम् 2/1 भावम् 2/1 विभक्तेषु 7/3 अविभक्तम् 2/1 ईक्षते III/1, तत् 2/1 ज्ञानम् 2/1 सात्त्विकम् 2/1 विद्धि II/1॥
Know (विद्धि II/1) that (तत् 2/1) to be sāttvika (सात्त्विकम् 2/1) knowledge (ज्ञानम् 2/1) by which (येन 3/1) one knows (ईक्षते III/1) one (एकम् 2/1) changeless (अव्ययम् 2/1) existence (भावम् 2/1) in all things (सर्वभूतेषु 7/3) (and beings) and the undivided (अविभक्तम् 2/1) among the divided (विभक्तेषु 7/3).
ज्ञानस्य तु तावत् त्रिविधत्वम् उच्यते III/1 —
सर्वभूतेषु 7/3 अव्यक्तादिस्थावरान्तेषु भूतेषु येन 3/1 ज्ञानेन एकम् 1/1 भावम् 1/1 वस्तु — भावशब्दः वस्तुवाची, एकम् आत्मवस्तु इत्यर्थः ; अव्ययम् 1/1 न व्येति स्वात्मना स्वधर्मेण वा, कूटस्थम् इत्यर्थः ; ईक्षते III/1 पश्यति III/1 येन ज्ञानेन, तं च भावम् अविभक्तम् 2/1 प्रतिदेहं विभक्तेषु 7/3 देहभेदेषु न विभक्तं तत् आत्मवस्तु, व्योमवत् निरन्तरमित्यर्थः ; तत् 2/1 ज्ञानम् 2/1 साक्षात् सम्यग्दर्शनम् अद्वैतात्मविषयं सात्त्विकम् 2/1 विद्धि II/1 इति ॥ १८.२०॥