सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
अनेन प्रसविष्यध्वं एष वोऽस्त्विष्टकामधुक् ॥३.१०॥
sahayajñāḥ prajāḥ sṛṣṭvā purovāca
prajāpatiḥ |
anena prasaviṣyadhvaṃ eṣa vo'stviṣṭakāmadhuk
||3.10||
सहयज्ञाः 2/3 प्रजाः 2/3 सृष्ट्वा 0 पुरा 0 उवाच III/1 प्रजापतिः 1/1 ।
अनेन 3/1 प्रसविष्यध्वम् II/3 एषः 1/1 वः 6/3 अस्तु III/1 इष्टकामधुक् 1/1 ॥३.१०॥
·
सहयज्ञाः [sahayajñāḥ]
= along with yajña
= सहयज्ञा (f.) + 2/3
·
प्रजाः [prajāḥ]
= human beings
= प्रजा (f.) + 2/3
·
सृष्ट्वा [sṛṣṭvā]
= having created = अव्ययम्
o
सृज् + त्वा
·
पुरा [purā] = in the beginning = अव्ययम्
·
उवाच [uvāca] =
said = वच् (2P) to say + लट्/कर्तरि/III/1
·
प्रजापतिः [prajāpatiḥ]
= creator = प्रजापति (m.) + 1/1
o
प्रजानां
पतिः (6T) ।
·
अनेन [anena] = by this (yajña) = इदम् (pron. m.) + 3/1
·
प्रसविष्यध्वम्
[prasaviṣyadhvam] = may multiple = प्र + सू (4A) to produce + आशीर्लिङ्/कर्तरि/II/3 (आर्षप्रयोगः)
·
एषः [eṣaḥ] = this = एतद् (pron. m.) + 1/1
·
वः [vaḥ] = your = युष्मद् (pron. m.) + 6/3
·
अस्तु [astu] = may
it be = अस् (2P) to be + लोट्/कर्तरि/III/1
·
इष्टकामधुक् [iṣṭakāmadhuk]
= wish-fulfilling
cow = इष्टकामधुह् (m.) + 1/1
o
इष्टाः कामाः
इष्टकामाः (KT) ।
o
तान् दोग्धि इति
इष्टकामधुक् (UT) ।
इष्टकाम + शस् + दुह् (2P) to yield + क्विप्
इष्टकाम + धुह् 8.2.37 एकाचो बशो भष् झषन्तस्य स्ध्वोः ।
इष्टकामधुह्
इष्टकामधुह् + सु 4.1.2
इष्टकामधुघ् 6.1.68, 8.2.32 दादेर्धातोर्घः ।
इष्टकामधुक् 8.2.39, 8.4.56
In the beginning
the Creator, having created human beings along with yajña, said: “By this (yajña) shall you multiply. May this (yajña) be a wish-fulfilling cow for you.”
Sentence 1:
सहयज्ञाः 2/3 प्रजाः 2/3 सृष्ट्वा 0 पुरा 0 उवाच III/1 प्रजापतिः 1/1 ।
In the beginning
(पुरा 0) the Creator (प्रजापतिः 1/1),
having created (सृष्ट्वा 0) human beings (प्रजाः 2/3)
along with yajña (सहयज्ञाः 2/3),
said (उवाच III/1):
Sentence 2:
अनेन 3/1 प्रसविष्यध्वम् II/3
“By this (yajña) (अनेन 3/1) shall you multiply (प्रसविष्यध्वम् II/3).
Sentence 3:
एषः 1/1 वः 6/3 अस्तु III/1 इष्टकामधुक् 1/1 ॥३.१०॥
May this (yajña) (एषः 1/1) be (अस्तु III/1)
a wish-fulfilling cow (इष्टकामधुक् 1/1) for you (वः 6/3).”
इतः 0 च 0 अधिकृतेन 3/1 कर्म 1/1 कर्तव्यम् 1/1 --
सहयज्ञाः 2/3 प्रजाः 2/3 सृष्ट्वा 0 पुरा 0 उवाच III/1 प्रजापतिः 1/1 ।
अनेन 3/1 प्रसविष्यध्वम् II/3 एषः 1/1 वः 6/3 अस्तु III/1 इष्टकामधुक् 1/1 ॥३.१०॥
सहयज्ञाः 1/3 यज्ञसहिताः 1/3 प्रजाः 1/3 त्रयः 1/3 वर्णाः 1/3 ताः 2/3 सृष्ट्वा 0 उत्पाद्य 0 पुरा 0 पूर्वम् 0 सर्ग-आदौ 7/1 उवाच III/1 उक्तवान् 1/1 प्रजापतिः
1/1 प्रजानाम् 6/3 स्रष्टा 1/1 अनेन 3/1 यज्ञेन 3/1 प्रसविष्यध्वं II/3 प्रसवः 1/1 वृद्धिः 1/1 उत्पत्तिः 1/1 तम् 2/1 कुरुध्वम् II/3। एषः 1/1 यज्ञः 1/1 वः 6/3 युष्माकम् 6/3 अस्तु III/1 भवतु III/1 इष्टकामधुक् 1/1 इष्टान् 2/3 अभिप्रेतान्
2/3 कामान् 2/3 फलविशेषान्
2/3 दोग्धि III/1 इति 0 इष्टकामधुक् 1/1 ॥
दुह् (2P) to milk