इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ १३.८ ॥
indriyārtheṣu vairāgyamanahaṅkāra eva ca |
janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam || 13.8 ||
इन्द्रियार्थेषु 7/3 वैराग्यम् 1/1 अनहङ्कारः 1/1 एव 0 च 0 ।
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् 1/1 ॥ १३.८ ॥
... dispassion towards the sense objects, absence of pride and seeing clearly the defects of pain in birth, death, old age and disease …
... dispassion (वैराग्यम् 1/1) towards the sense objects (इन्द्रियार्थेषु 7/3), absence of pride (अनहङ्कारः 1/1) and (एव 0 च 0) seeing clearly the defects of pain in birth, death, old age and disease (जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् 1/1) …
· इन्द्रियार्थेषु [indriyārtheṣu] = with reference to the sense objects = इन्द्रियार्थ (m.) + अधिकरणे 7/3
o इन्द्रियाणाम् अर्थाः (6T), तेषु ।
· वैराग्यम् [vairāgyam] = dispassion = वैराग्य (n.) + प्रातिपदिकार्थमात्रे 1/1
o विगताः रागाः यस्मात् सः विरागः (115B) ।
o विरागस्य भावः वैराग्यम् (विराग + ङस् + ष्यञ् 5.1.123 वर्णदृढादिभ्यः ष्यञ् च ।)
· अनहङ्कारः [anahaṅkāraḥ] = absence of pride = 1/1
o न अहंकारः अनहंकारः ।
· एव [eva] = indeed = अव्ययम्
· च [ca] = and = अव्ययम्
· जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् [janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam] = seeing clearly the defects of pain in birth, death, old age and disease = जन्ममृत्युजराव्याधिदुःखदोषानुदर्शन (n.) 1/1
o जन्म च मृत्युः च जरा च व्याधयः च दुःखं च जन्ममृत्युजराव्याधिदुःखानि (ID) । दोषस्य अनुदर्शनम् दोषानुदर्शनम् (6T) । जन्ममृत्युजराव्याधिदुःखेषु दोषानुदर्शनम् (7T) ।
o जन्म च मृत्युः च जरा च व्याधयः च जन्ममृत्युजराव्याधयः (ID) । दुःखानि एव दोषः दुःखदोषः (KT) । दुःखदोषस्य अनुदर्शनम् दुःखदोषानुदर्शनम् (6T) । जन्ममृत्युजराव्याधिषु दुःखदोषानुदर्शनम् (7T) ।
किञ्च —
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ १३.८ ॥
इन्द्रियार्थेषु शब्दादिषु दृष्टादृष्टेषु भोगेषु विरागभावो वैराग्यम् अनहङ्कारः अहङ्काराभावः एव च जन्म-मृत्यु-जरा-व्याधि-दुःख-दोषानुदर्शनं जन्म च मृत्युश्च जरा च व्याधयश्च दुःखानि च तेषु जन्मादि-दुःखान्तेषु प्रत्येकं दोषानुदर्शनम् । जन्मनि गर्भवासयोनिद्वारनिःसरणं दोषः, तस्य अनुदर्शनमालोचनम् । तथा मृत्यौ दोषानुदर्शनम् । तथा जरायां प्रज्ञाशक्तितेजोनिरोधदोषानुदर्शनं परिभूतता चेति । तथा व्याधिषु शिरोरोगादिषु दोषानुदर्शनम् । तथा दुःखेषु अध्यात्माधिभूताधिदैवनिमित्तेषु । अथवा दुःखान्येव दोषः दुःखदोषः तस्य जन्मादिषु पूर्ववत् अनुदर्शनम् — दुःखं जन्म, दुःखं मृत्युः, दुःखं जरा, दुःखं व्याधयः । दुःखनिमित्तत्वात् जन्मादयः दुःखम् , न पुनः स्वरूपेणैव दुःखमिति । एवं जन्मादिषु दुःखदोषानुदर्शनात् देहेन्द्रियादिविषयभोगेषु वैराग्यमुपजायते । ततः प्रत्यगात्मनि प्रवृत्तिः करणानामात्मदर्शनाय । एवं ज्ञानहेतुत्वात् ज्ञानमुच्यते जन्मादिदुःखदोषानुदर्शनम् ॥ ८ ॥