असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ १३.९ ॥
asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu |
nityaṃ ca samacittatvamiṣṭāniṣṭopapattiṣu || 13.9 ||
असक्तिः 1/1 अनभिष्वङ्गः 1/1 पुत्रदारगृहादिषु 7/3 ।
नित्यम् 1/1 च 0 समचित्तत्वम् 1/1 इष्टानिष्टोपपत्तिषु 7/3 ॥ १३.९ ॥
... absence of sense of ownership, absence of obsession towards son, wife, house and the like, and always evenness of mind regarding the gain of the desired and not desired …
... absence of sense of ownership (असक्तिः 1/1), absence of obsession (अनभिष्वङ्गः 1/1) towards son, wife, house and the like (पुत्रदारगृहादिषु 7/3), and (च 0) always (नित्यम् 1/1) evenness of mind (समचित्तत्वम् 1/1) regarding the gain of the desired and not desired (इष्टानिष्टोपपत्तिषु 7/3) …
· असक्तिः [asaktiḥ] = absence of sense of ownership = असक्ति (f.) प्रातिपदिकार्थमात्रे 1/1
o ष॒ञ्जँ + क्तिन् 3.3.94 स्त्रियां क्तिन् ।
o सञ्ज् + ति 6.1.64 धात्वादेः षः सः ।
o सज् + ति 6.4.24 अनिदितां हल उपधायाः क्ङिति । ~ नलोपः
o सग् + ति 8.2.30 चोः कुः । ~ झलि
o सक् + ति 8.4.55 खरि च ।
o न सक्तिः इति असक्तिः (NT) ।
· अनभिष्वङ्गः [anabhiṣvaṅgaḥ] = absence of obsession = अनभिष्वङ्ग (m.) + प्रातिपदिकार्थमात्रे 1/1
o अभि + ष्व॒ञ्चँ॒ + घञ् 3.3.18 भावे । ~ घञ्
o अभि + स्वञ्ज् + अ 6.1.64 धात्वादेः षः सः ।
o अभि + स्वञ् ग् + अ 7.3.52 चजोः कु घिण्ण्यतोः ।
o अभि + स्वन् ग् + अ *
o अभि + स्वंग् + अ 8.3.24 नश्चापदान्तस्य झलि । ~ मः अनुस्वारः
o अभि + स्वङ्ग् + अ 8.4.58 अनुस्वारस्य ययि परसवर्णः ।
o अभि + ष्वङ्ग 8.3.59 आदेशप्रत्यययोः । ~ मूर्धन्यः सः इण्कोः
o न अभिष्वङ्गः इति अनभिष्वङ्गः (NT) ।
· पुत्रदारगृहादिषु [putradāragṛhādiṣu] = towards son, wife, house and the like = पुत्रदारगृहादि m. + अधिकरणे to अनभिष्वङ्गः 7/3
o पुत्राः च दाराः च गृहाः च इति पुत्रदारगृहाः (ID) ।
o पुत्रदारगृहाः आदयः येषां ते पुत्रदारगृहादयः (116B), तेषु ।
· नित्यम् [nityam] = always = नित्य n. + adj. to समचित्तत्वम् 1/1
· च [ca] = and = अव्ययम्
· समचित्तत्वम् [samacittatvam] = evenness of mind = समचित्तत्व + प्रातिपदिकार्थमात्रे 1/1
o समं चित्तं यस्य सः समचित्तः (116B) । तस्य भावः समचित्तत्वम् ।
· इष्टानिष्टोपपत्तिषु [iṣṭāniṣṭopapattiṣu] = regarding the gain of the desired and not desired = इष्टानिष्टोपपत्ति (f.) + 7/3
o इष् to desire + क्त …ed = इष्ट that which is desired । न इष्टम् अनिष्टम् (NT) ।
o इष्टानि च अनिष्टानि च इष्टानिष्टानि (ID) । तेषाम् उपपत्तयः इष्टानिष्टोपपत्तयः (6T), तेषु ।
किञ्च —
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ १३.९ ॥
असक्तिः सक्तिः सङ्गनिमित्तेषु विषयेषु प्रीतिमात्रम् , तदभावः असक्तिः । अनभिष्वङ्गः अभिष्वङ्गाभावः । अभिष्वङ्गो नाम आसक्तिविशेष एव अनन्यात्मभावनालक्षणः ; यथा अन्यस्मिन् सुखिनि दुःखिनि वा ‘अहमेव सुखी, दुःखी च,’ जीवति मृते वा ‘अहमेव जीवामि मरिष्यामि च’ इति । क्व इति आह — पुत्रदारगृहादिषु, पुत्रेषु दारेषु गृहेषु आदिग्रहणात् अन्येष्वपि अत्यन्तेष्टेषु दासवर्गादिषु । तच्च उभयं ज्ञानार्थत्वात् ज्ञानमुच्यते । नित्यं च समचित्तत्वं तुल्यचित्तता । क्व ? इष्टानिष्टोपपत्तिषु इष्टानामनिष्टानां च उपपत्तयः सम्प्राप्तयः तासु इष्टानिष्टोपपत्तिषु नित्यमेव तुल्यचित्तता । इष्टोपपत्तिषु न हृष्यति, न कुप्यति च अनिष्टोपपत्तिषु । तच्च एतत् नित्यं समचित्तत्वं ज्ञानम् ॥ ९ ॥