Thursday, May 11, 2023

13th Chapter 9th Sloka

असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।

नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ १३.९ ॥  

 

asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu |

nityaṃ ca samacittatvamiṣṭāniṣṭopapattiṣu || 13.9 || 

 

असक्तिः 1/1 अनभिष्वङ्गः 1/1 पुत्रदारगृहादिषु 7/3

नित्यम् 1/1 0 समचित्तत्वम् 1/1 इष्टानिष्टोपपत्तिषु 7/3 ॥ १३.९ ॥ 

 

... absence of sense of ownership, absence of obsession towards son, wife, house and the like, and always evenness of mind regarding the gain of the desired and not desired …

 

... absence of sense of ownership (असक्तिः 1/1), absence of obsession (अनभिष्वङ्गः 1/1) towards son, wife, house and the like (पुत्रदारगृहादिषु 7/3), and ( 0) always (नित्यम् 1/1) evenness of mind (समचित्तत्वम् 1/1) regarding the gain of the desired and not desired (इष्टानिष्टोपपत्तिषु 7/3) …

 

·       असक्तिः [asaktiḥ] = absence of sense of ownership = असक्ति (f.) प्रातिपदिकार्थमात्रे 1/1

o   ष॒ञ्जँ + क्तिन्     3.3.94 स्त्रियां क्तिन् ।

o   सञ्ज् + ति    6.1.64 धात्वादेः षः सः ।

o   सज् + ति     6.4.24 अनिदितां हल उपधायाः क्ङिति । ~ नलोपः

o   सग् + ति     8.2.30 चोः कुः । ~ झलि

o   सक् + ति     8.4.55 खरि च ।

o   न सक्तिः इति असक्तिः (NT)

·       अनभिष्वङ्गः [anabhiṣvaṅgaḥ] = absence of obsession = अनभिष्वङ्ग (m.) + प्रातिपदिकार्थमात्रे 1/1

o   अभि + ष्व॒ञ्चँ॒ + घञ्     3.3.18 भावे । ~ घञ्

o   अभि + स्वञ्ज् + अ    6.1.64 धात्वादेः षः सः ।

o   अभि + स्वञ् ग् + अ    7.3.52 चजोः कु घिण्ण्यतोः ।

o   अभि + स्वन् ग् + अ    *

o   अभि + स्वंग् + अ    8.3.24 नश्चापदान्तस्य झलि । ~ मः अनुस्वारः

o   अभि + स्वङ्ग् + अ    8.4.58 अनुस्वारस्य ययि परसवर्णः ।

o   अभि + ष्वङ्ग        8.3.59 आदेशप्रत्यययोः । ~ मूर्धन्यः सः इण्कोः

o   न अभिष्वङ्गः इति अनभिष्वङ्गः (NT)

·       पुत्रदारगृहादिषु [putradāragṛhādiṣu] = towards son, wife, house and the like = पुत्रदारगृहादि m. + अधिकरणे to अनभिष्वङ्गः 7/3

o   पुत्राः च दाराः च गृहाः च इति पुत्रदारगृहाः (ID)

o   पुत्रदारगृहाः आदयः येषां ते पुत्रदारगृहादयः (116B), तेषु ।

·       नित्यम् [nityam] = always = नित्य n. + adj. to समचित्तत्वम् 1/1

·       च [ca] = and = अव्ययम्

·       समचित्तत्वम् [samacittatvam] = evenness of mind = समचित्तत्व + प्रातिपदिकार्थमात्रे 1/1

o   समं चित्तं यस्य सः समचित्तः (116B) । तस्य भावः समचित्तत्वम् ।

·       इष्टानिष्टोपपत्तिषु [iṣṭāniṣṭopapattiṣu] = regarding the gain of the desired and not desired = इष्टानिष्टोपपत्ति (f.) + 7/3

o   इष् to desire + क्त …ed = इष्ट that which is desired । न इष्टम् अनिष्टम् (NT)

o   इष्टानि च अनिष्टानि च इष्टानिष्टानि (ID) । तेषाम् उपपत्तयः इष्टानिष्टोपपत्तयः (6T), तेषु ।

 

किञ्च

असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।

नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ १३.९ ॥ 

असक्तिः सक्तिः सङ्गनिमित्तेषु विषयेषु प्रीतिमात्रम् , तदभावः असक्तिः । अनभिष्वङ्गः अभिष्वङ्गाभावः । अभिष्वङ्गो नाम आसक्तिविशेष एव अनन्यात्मभावनालक्षणः ; यथा अन्यस्मिन् सुखिनि दुःखिनि वा अहमेव सुखी, दुःखी च,’ जीवति मृते वा अहमेव जीवामि मरिष्यामि चइति । क्व इति आह पुत्रदारगृहादिषु, पुत्रेषु दारेषु गृहेषु आदिग्रहणात् अन्येष्वपि अत्यन्तेष्टेषु दासवर्गादिषु । तच्च उभयं ज्ञानार्थत्वात् ज्ञानमुच्यते । नित्यं समचित्तत्वं तुल्यचित्तता । क्व ? इष्टानिष्टोपपत्तिषु इष्टानामनिष्टानां च उपपत्तयः सम्प्राप्तयः तासु इष्टानिष्टोपपत्तिषु नित्यमेव तुल्यचित्तता । इष्टोपपत्तिषु न हृष्यति, न कुप्यति च अनिष्टोपपत्तिषु । तच्च एतत् नित्यं समचित्तत्वं ज्ञानम् ॥ ९ ॥

 

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.