येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ ९.२३ ॥
ye'pyanyadevatābhaktā yajante śraddhayānvitāḥ |
te'pi māmeva kaunteya yajantyavidhipūrvakam || 9.23 ||
ये 1/3 अपि 0 अन्यदेवताभक्ताः 1/3 यजन्ते III/3 श्रद्धया 3/1 अन्विताः 1/3 ।
ते 1/3 अपि 0 माम् 2/1 एव 0 कौन्तेय S/1 यजन्ति III/3 अविधिपूर्वकम् 0 ॥ ९.२३ ॥
· ये [ye] = those = यद् m. + adj. to [जनाः] 1/3
· अपि [api] = even = अव्ययम्
· अन्यदेवताभक्ताः [anyadevatābhaktāḥ] = those devotees who worship other devatās = अन्यदेवताभक्त m. + adj. to [जनाः] 1/3
· यजन्ते [yajante] = worship = यज् (1U) to worship + लट्/कर्तरि/III/3
· श्रद्धया [śraddhayā] = with śraddhā = श्रद्धा (f.) + कर्तरि to अन्विताः 3/1
· अन्विताः [anvitāḥ] = those who are endowed = + 1/3
· ते [te] = they = तद् m. + कर्तरि to यजन्ति 1/3
· अपि [api] = also = अव्ययम्
· माम् [mām] = me = अस्मद् m. + कर्मणि to यजन्ति 2/1
· एव [eva] = only = अव्ययम्
· कौन्तेय [kaunteya] = Kaunteya = कौन्तेय m. + सम्बोधने 1/1
· यजन्ति [yajanti] = worship = यज् (1U) to worship + लट्/कर्तरि/III/3
· अविधिपूर्वकम् [avidhipūrvakam] = backed by ignorance = अव्ययम्
Kaunteya! Even those devotees who worship other devatās with śraddhā, worship me only, (but) backed by ignorance.
Sentence 1:
ये 1/3 अन्यदेवताभक्ताः 1/3 अपि 0 श्रद्धया 3/1 अन्विताः 1/3 यजन्ते III/3 ।
ते 1/3 अपि 0 अविधिपूर्वकम् 0 माम् 2/1 एव 0 यजन्ति III/3 कौन्तेय S/1 ॥ ९.२३ ॥
Kaunteya (कौन्तेय S/1)! Even (अपि 0) those (ये 1/3) devotees of other devatās (अन्यदेवताभक्ताः 1/3) who worship (यजन्ते III/3) with (अन्विताः 1/3) śraddhā (श्रद्धया 3/1), they (ते 1/3) also (अपि 0) worship (यजन्ति III/3) me (माम् 2/1) only (एव 0), (but) backed by ignorance (अविधिपूर्वकम् 0).
ननु अन्या अपि देवताः त्वमेव चेत् , तद्भक्ताश्च त्वामेव यजन्ते । सत्यमेवम् —
येऽपि अन्यदेवताभक्ताः अन्यासु देवतासु भक्ताः अन्यदेवताभक्ताः सन्तः यजन्ते पूजयन्ति श्रद्धया आस्तिक्यबुद्ध्या अन्विताः अनुगताः, तेऽपि मामेव कौन्तेय यजन्ति अविधिपूर्वकम् अविधिः अज्ञानं तत्पूर्वकं यजन्ते इत्यर्थः ॥ २३ ॥