स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते ॥२.३१॥
svadharmamapi cāvekṣya na vikampitumarhasi |
dharmyāddhi yuddhācchreyo'nyat kṣatriyasya na vidyate ||2.31||
स्वधर्मम् 2/1 अपि 0 च 0 अवेक्ष्य 0 न 0 विकम्पितुम् 0 अर्हसि II/1 ।
धर्म्यात् 5/1 हि 0 युद्धात् 5/1 श्रेयः 1/1 अन्यत् 1/1 क्षत्रियस्य 6/1 न 0 विद्यते III/1 ॥२.३१॥
· स्वधर्मम् [svadharmam] = own duty = स्वधर्म (m.) + 2/1
o स्वस्य धर्मः स्वधर्मः । षष्ठीतत्पुरुषः
· अपि [api] = also = अव्ययम्
· च [ca] = and = अव्ययम्
· अवेक्ष्य [avekṣya] = observing, seeing from the stand point of = अव्ययम्
o अव + ईक्ष् to observe, to have regard to, to have in view + ल्यप्
· न [na] = not = अव्ययम्
· विकम्पितुम् [vikampitum] = to waver = अव्ययम्
o वि + कम्प् to waver + तुमुँन्
· अर्हसि [arhasi] = (you) deserve = अर्ह् (1P) to deserve + लट्/कर्तरि/II/1
· धर्म्यात् [dharmyāt] = righteous = धर्म्य (n.) + 5/1
· हि [hi] = indeed = अव्ययम्
· युद्धात् [yuddhāt] = war = युद्ध (n.) + 5/1
· श्रेयः [śreyaḥ] = better = श्रेयस् (n.) + 1/1
· अन्यत् [anyat] = other = अन्य (pron. m.) + 1/1
· क्षत्रियस्य [kṣatriyasya] = for kṣatriya = क्षत्रिय (n.) + 6/1
· न [na] = not = अव्ययम्
· विद्यते [vidyate] = there is = विद् (4A) to be + लट्/कर्तरि/III/1
And also, from the standpoint of your own duty, you should not waver. There is nothing greater for a kṣatriya than a righteous war.
Sentence 1:
अपि 0 च 0 स्वधर्मम् 2/1 अवेक्ष्य 0 विकम्पितुम् 0 न 0 अर्हसि II/1 ।
And (च 0) also (अपि 0), from the standpoint of (अवेक्ष्य 0) your own duty (स्वधर्मम् 2/1), you should not (न 0 अर्हसि II/1) waver (विकम्पितुम् 0).
Sentence 2:
धर्म्यात् 5/1 हि 0 युद्धात् 5/1 श्रेयः 1/1 अन्यत् 1/1 क्षत्रियस्य 6/1 न 0 विद्यते III/1 ॥२.३१॥
There is nothing (अन्यत् 1/1 हि 0 न 0 विद्यते III/1) greater (श्रेयः 1/1) for a kṣatriya (1 क्षत्रियस्य 6/1) than a righteous (धर्म्यात् 5/1) war (युद्धात् 5/1).
इह 0 परम-अर्थ-तत्त्व-अपेक्षायाम् 7/1 शोकः 1/1 मोहः 1/1 वा 0 न 0 सम्भवति III/1 इति 0 उक्तम् 1/1 । न 0 केवलम् 0 परम-अर्थ-तत्त्व-अपेक्षायाम् 7/1 एव 0 । किंतु 0 —
स्वधर्मम् 2/1 अपि 0 स्वः 1/1 धर्मः 1/1 क्षत्रियस्य 6/1 युद्धम् 1/1 तम् 2/1 अपि 0 अवेक्ष्य 0 त्वम् 1/1 न 0 विकम्पितुम् 0 प्रचलितुम् 0 न 0 अर्हसि II/1 । क्षत्रियस्य 6/1 स्वाभाविकात् 5/1 धर्मात् 5/1 आत्मस्वाभाव्यात् 5/1 इति 0 अभिप्रायः 1/1 । तत् 1/1 च 0 युद्धम् 1/1 पृथिवी-जय-द्वारेण 3/1 धर्म-अर्थम् 1/1 प्रजा-रक्षण-अर्थम् 0 च 0 इति 0 धर्मात् 5/1 अनपेतम् 1/1 परम् 1/1 धर्म्यम् 1/1 । तस्मात् 5/1 धर्म्यात् 5/1 युद्धात् 5/1 श्रेयः 1/1 अन्यत् 1/1 क्षत्रियस्य 6/1 न 0 विद्यते III/1 हि 0 यस्मात् 5/1 ॥ ३१ ॥