नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः
॥२.१६॥
nāsato vidyate bhāvo nābhāvo vidyate sataḥ |
ubhayorapi dṛṣṭo'ntastvanayostattvadarśibhiḥ ||2.16||
न 0 असतः 6/1 विद्यते III/1 भावः 1/1 न 0 अभावः 1/1 विद्यते III/1 सतः 6/1 ।
उभयोः 6/2 अपि 0 दृष्टः 1/1 अन्तः 1/1 तु 0 अनयोः 6/2 तत्त्वदर्शिभिः 3/3 ॥२.१६॥
·
न [na] =
not = अव्ययम्
·
असतः [asataḥ] = of मिथ्या = असत् (n.) + सम्बन्धे to भावः 6/1
·
विद्यते [vidyate]
= there is = विद् (4A) to exist + लट्/कर्तरि/III/1
·
भावः [bhāvaḥ] = existence = भाव (m.) + कर्तरि to विद्यते 1/1
·
न [na] =
not = अव्ययम्
·
अभावः [abhāvaḥ] = non existence = अभाव (m.) + कर्तरि to विद्यते 1/1
·
विद्यते [vidyate]
= there is = विद् (4A) to exist + लट्/कर्तरि/III/1
·
सतः [sataḥ] = of the real = सत् (n.) + सम्बन्धे to अभावः 6/1
·
उभयोः [ubhayoḥ] = of both = उभ (pron. m.) + सम्बन्धे to अन्तः 6/2
·
अपि [api] = also
= अव्ययम्
·
दृष्टः [dṛṣṭaḥ] = seen = दृष्ट (m.) + 1/1
·
अन्तः [antaḥ] = truth = अन्त (m.) + 1/1
·
तु [tu] =
indeed = अव्ययम्
·
अनयोः [anayoḥ] = of these = इदम् (pron. m.) + सम्बन्धे to अन्तः 6/2
·
तत्त्वदर्शिभिः
[tattvadarśibhiḥ] = by the seers of thruth = तत्त्वदर्शिन् (m.) + कर्तरि to दृष्टः 3/3
o
तस्य सर्वस्य ब्रह्मणः भावः तत्त्वं
द्रष्टुं शीलं येषां ते तत्वदर्शिनः । उपपदतत्पुरुषसमासः
o
तत्त्व + दृश् + णिनिँ ।
Sentence 1:
असतः 6/1 भावः 1/1 न 0 विद्यते III/1
There is (विद्यते III/1) no (न 0) existence
(भावः 1/1) of मिथ्या (असतः 6/1).
Sentence 2:
सतः 6/1 अभावः 1/1 न 0 विद्यते III/1 ।
There is (विद्यते III/1) no (न 0)
non-existence (अभावः 1/1) of the
real (सतः 6/1).
Sentence 3:
उभयोः 6/2 अनयोः 6/2 अपि 0 अन्तः 1/1 तत्त्वदर्शिभिः 3/3 तु 0 दृष्टः 1/1 ॥२.१६॥
The truth (अन्तः 1/1) of these (अनयोः 6/2) two (उभयोः 6/2) is indeed (तु 0) seen (दृष्टः 1/1) by the seers of the truth (तत्त्वदर्शिभिः 3/3).
इतश्च शोकमोहौ अकृत्वा शीतोष्णादिसहनं युक्तम् , यस्मात् —
इतः 0 च 0 शोक-मोहौ 2/2 अकृत्वा 0 शीत-उष्ण-आदि-सहनम् 1/1 युक्तम् 1/1, यस्मात् 5/1 –
この理由からも、悲しみや混乱を持たずに状況を客観的に捉えることは可能なのです。
न असतः अविद्यमानस्य शीतोष्णादेः सकारणस्य न विद्यते नास्ति भावो
भवनम् अस्तिता ॥
न 0 असतः 6/1 अविद्यमानस्य 6/1 शीत-उष्ण-आदेः 6/1 सकारणस्य 6/1 न 0 विद्यते III/1 न 0 अस्ति III/1 भावः 1/1 भवनम् 1/1 अस्तिता 1/1 ।
それ自体で存在しない、原因に頼っている状況には、それ自体の存在はありません。
न हि शीतोष्णादि सकारणं प्रमाणैर्निरूप्यमाणं वस्तुसद्भवति ।
न 0 हि 0 शीतोष्णादि 1/1 सकारणम् 1/1 प्रमाणैः 3/3 निरूप्यमाणम् 1/1 वस्तु 1/1 सम्भवति III/1 ।
原因に頼っているものは、(無いわけではなく、目などのプラマーナでその存在が認識されているけど)(シュルティとそれをサポートするロジックという)プラマーナによって定義されると(その存在を問いかけると)、それ自身に本質的なリアリティはありえないことが分かります。
विकारो हि सः, विकारश्च व्यभिचरति ।
विकारः 1/1 हि 0 सः 1/1, विकारः 1/1 च 0 व्यभिचरति III/1 ।
なぜならそれは変化したもの(結果、状況)だからです。変化したものは、その定義が変わり続け、一定ではありません。
यथा घटादिसंस्थानं चक्षुषा निरूप्यमाणं मृद्व्यतिरेकेणानुपलब्धेरसत् , तथा सर्वो विकारः कारणव्यतिरेकेणानुपलब्धेरसन्
।
यथा 0 घट-आदि-संस्थानम् 1/1 चक्षुषा 3/1 निरूप्यमाणम् 1/1 मृत्-व्यतिरेकेण 3/1 अनुपलब्धेः 5/1 असत् 1/1, तथा 0 सर्वः 1/1 विकारः 1/1 कारण-व्यतिरेकेण 3/1 अनुपलब्धेः 5/1 असन् 1/1।
例えば、視覚によって認識されている壺などの容態は、土以外のものとしては見えないことから、それ自体では存在しません。同様に、全ての生まれきたものも、その原因以外のものとして見られないことから、それ自体で存在するものではありません。
जन्मप्रध्वंसाभ्यां प्रागूर्ध्वं च अनुपलब्धेः कार्यस्य घटादेः मृदादिकारणस्य च
तत्कारणव्यतिरेकेणानुपलब्धेरसत्त्वम् ॥
जन्म-प्रध्वंसाभ्याम् 5/2 प्राक् 0 ऊर्ध्वम् 0 च 0 अनुपलब्धेः 5/1 कार्यस्य 6/1 घटादेः 6/1 मृत्-आदि-कारणस्य 6/1 च 0 तत्कारण-व्यतिरेकेण
3/1 अनुपलब्धेः 5/1 असत्त्वम् 1/1॥
生まれる前と無くなった後に見受けられないことから、壺などの生まれてきた結果である土などの原因も、その原因以外のものとして見受けられないことから、それ自体の存在はありません。
तदसत्त्वे सर्वाभावप्रसङ्ग इति चेत्, न; सर्वत्र बुद्धिद्वयोपलब्धेः, सद्बुद्धिरसद्बुद्धिरिति।
तत्-असत्त्वे 7/1 सर्व-अभाव-प्रसङ्गः 1/1 इति 0 चेत् 0, न 0; सर्वत्र 0 बुद्धि-द्वय-उपलब्धेः 5/1, सद्-बुद्धिः 1/1 असद्-बुद्धिः 1/1 इति
0 ।
原因のそれ自体の存在が無いのなら、全てのものは存在しないということになっていまいます。そのような質問があるとしたら、それは違います。全てのものの認識において、サット・ブッディとアサット・ブッディという、ふたつの認識が見られることから。
यद्विषया बुद्धिर्न व्यभिचरति, तत् सत्; यद्विषया व्यभिचरति, तदसत्; इति सदसद्विभागे बुद्धितन्त्रे स्थिते, सर्वत्र द्वे बुद्धी सर्वैरुपलभ्येते समानाधिकरणे न नीलोत्पलवत्, सन् घटः, सन् पटः, सन् हस्ती इति।
यत्-विषया 1/1 बुद्धिः 1/1 न 0 व्यभिचरति III/1, तत् 1/1 सत् 1/1; यत्-विषया 1/1 बुद्धिः 1/1 व्यभिचरति III/1, तत् 1/1 असत् 1/1; इति 0 सत्-असत्-विभागे 7/1 बुद्धि-तन्त्रे 7/1 स्थिते 7/1, सर्वत्र 0 द्वे 1/2 बुद्धी 1/2 सर्वैः 3/3 उपलभ्येते III/2 समानाधिकरणे 1/2 न 0 नील-उत्पलवत् 0, सन् 1/1 घटः 1/1, सन् 1/1 पटः 1/1, सन् 1/1 हस्ती 1/1 इति 0।
それを対象としている認識が変わることなくあれば、それ(その認識の対象)をサット(存在)と呼びます。それを対象としている認識が変われば、それ(その認識の対象)をアサット(それ自体で存在していないもの)と呼びます。このように、認識に関してサットとアサットの分類が確立されたとき、全ての認識において、ふたつのブッディ(認識)は、全ての人によって、「存在している壺、存在している布、存在している象」のように、ひとつの認識の中に、認識されます。「青い蓮」(一か所にあるけれども二つ別々に認識できるもの)としてではありません。
एवं सर्वत्र।
एवम् 0 सर्वत्र 0।
同様のことが(このジャガットの)全てにおいて言えます。
तयोर्बुद्ध्योः घटादिबुद्धिः व्यभिचरति।
तयोः 6/2 बुद्ध्योः 6/2 घट-आदि-बुद्धिः 1/1 व्यभिचरति III/1।
このふたつのブッディの中で、壺などのブッディは変化します。
तथा च दर्शितम्।
तथा 0 च 0 दर्शितम् 1/1।
それが(バガヴァーンによって「नासतो विद्यते भावः」として)言われています。
न तु सद्बुद्धिः।
न 0 तु 0 सद्बुद्धिः 1/1।
一方、サット・ブッディはそうではありません。
तस्मात् घटादिबुद्धिविषयः असन् , व्यभिचारात् ; न तु सद्बुद्धिविषयः, अव्यभिचारात् ॥
तस्मात् 5/1 घटादि-बुद्धि-विषयः 1/1 असन् 1/1, व्यभिचारात् 5/1; न 0 तु 0 सद्बुद्धि-विषयः 1/1, अव्यभिचारात् 5/1॥
ゆえに、壺などの認識の対象は、変化することから、アサット(それ自体で存在しないもの)です。しかし、サット・ブッディの対象は、変化しないことから、そうではありません。
घटे विनष्टे घटबुद्धौ व्यभिचरन्त्यां सद्बुद्धिरपि व्यभिचरतीति चेत्, न; पटादावपि सद्बुद्धिदर्शनात्।
घटे 7/1 विनष्टे 7/1 घट-बुद्धौ 7/1 व्यभिचरन्त्याम् 7/1 सद्बुद्धिः 1/1 अपि 0 व्यभिचरति III/1 इति 0 चेत् 0, न 0; पट-आदौ 7/1 अपि 0 सद्बुद्धि-दर्शनात्
5/1।
壺が壊れたら、壺の認識も無くなってしまう時、サット・ブッディも無くなってしまうのでは、とすると、それは違います。布などの中にもサット・ブッディは見られるからです。
विशेषणविषयैव सा सद्बुद्धिः॥
विशेषण-विषया 1/1 एव 0 सा 1/1 सद्बुद्धिः 1/1॥
サット・ブッディは、「存在する」という形容詞を対象としています。
सद्बुद्धिवत् घटबुद्धिरपि घटान्तरे दृश्यत इति चेत्, न; पटादौ अदर्शनात् ॥
सद्बुद्धिवत् 0 घट-बुद्धिः 1/1 अपि 0 घट-अन्तरे 7/1 दृश्यते III/1 इति 0 चेत् 0, न 0; पट-आदौ 7/1 अदर्शनात् 5/1 ॥
サット・ブッディのように、壺の認識も、他の壺において見られる(ので、変化せず一定にある)とすると、それは違います。布などにおいて(壺の認識は)見られないことから。
सद्बुद्धिरपि नष्टे घटे न दृश्यत इति चेत्, न; विशेष्याभावात्।
सद्बुद्धिः 1/1 अपि 0 नष्टे 7/1 घटे 7/1 न 0 दृश्यते III/1 इति 0 चेत् 0, न 0; विशेष्य-अभावात् 5/1 ।
サット・ブッディも、壊れた壺においては見られません、というと、それは違います。(「存在する」という形容詞によって)形容されているものが無いことから。
विशेषण adjective/qualifier/形容詞 विशेष्य substantive/形容される方の名詞
सद्बुद्धिः विशेषणविषया सती विशेष्याभावे विशेषणानुपपत्तौ किंविषया स्यात्? न तु पुनः सद्बुद्धेः विषयाभावात्॥
सद्बुद्धिः 1/1 विशेषण-विषया 1/1 सती 1/1 विशेष्य-अभावे
7/1 विशेषण-अनुपपत्तौ 7/1 किंविषया 1/1 स्यात् III/1? न 0 तु 0 पुनः 0 सद्बुद्धेः 6/1 विषय-अभावात् 5/1॥
サット・ブッディが(「存在する」という)形容詞を対象としていることから、形容されているものが無いところに形容詞は付加できないとき、何を(サット・ブッディの)対象とするのでしょうか?。しかしそれは、サット・ブッディの対象が無いから、ということではありません。
एक-अधिकरणत्वम्
1/1 घट-आदि-विशेष्य-अभावे 7/1 न 0 युक्तम् 1/1 इति 0 चेत् 0, न 0; “इदम् 1/1 उदकम् 1/1” इति 0 मरीचि-आदौ 7/1 अन्यतर-अभावे 7/1 अपि
0 सामानाधिकरण्य-दर्शनात् 5/1॥
壺などの形容される名詞が無い時、(サット・ブッディが壺の認識と)同じひとつの認識であるのはおかしいとすると、それは違います。「これは水だ」と、蜃気楼などにおいて、一方(水など)が無いことろにも、(「これ」という認識が)同じひとつの認識であることが見られることから。
तस्माद्देहादेः द्वन्द्वस्य च सकारणस्य असतो न विद्यते भाव इति।
तस्मात् 5/1 देह-आदेः 6/1 द्वन्द्वस्य 6/1 च 0 सकारणस्य 6/1 असतः 6/1 न 0 विद्यते III/1 भावः 1/1 इति 0।
ゆえに、身体などの相対的で原因に頼っている状態の、(それ自体での)存在はありません。
तथा सतः 6/1 चात्मनः अभावः 1/1 अविद्यमानता न 0 विद्यते III/1, सर्वत्राव्यभिचारादित्यवोचाम॥
तथा 0 सतः 6/1 च 0 आत्मनः 6/1 अभावः 1/1 अविद्यमानता 1/1 न 0 विद्यते III/1, सर्वत्र 0 अव्यभिचारात् 5/1 इति 0 अवोचाम I/3॥
同様に、(それ自体での)存在である本質に、無くなってしまうということはありません。全てにおいて不変であることから、ということは既に言われました。
एवम् आत्मानात्मनोः सदसतोः उभयोः 6/2 अपि 0 दृष्टः 1/1 उपलब्धः अन्तः 1/1 निर्णयः सत् सदेव असत् असदेवेति, तु 0 अनयोः 6/2 यथोक्तयोः तत्त्वदर्शिभिः 3/3 ।
एवम् 0 आत्म-अनात्मनोः 6/2 सद्-असतोः 6/2 उभयोः 6/2 अपि 0 दृष्टः 1/1 उपलब्धः 1/1 अन्तः 1/1 निर्णयः 1/1 सत् 1/1 सत् 1/1 एव 0 असत् 1/1 असत् 1/1 एव 0 इति 0, तु 0 अनयोः 6/2 यथोक्तयोः 6/2 तत्त्व-दर्शिभिः 3/3 ।
このように、本質と本質でない、サットとアサットの、これら両方について、それらの本質的な在り方が、サットはサットとして、アサットはアサットとして、真実を知る人々によって見られています。
तदिति सर्वनाम, सर्वं च ब्रह्म, तस्य नाम तदिति, तद्भावः तत्त्वम्, ब्रह्मणो याथात्म्यम्।
तत् 1/1 इति 0 सर्वनाम 1/1, सर्वम् 1/1 च 0 ब्रह्म 1/1, तस्य 6/1 नाम 1/1 तत् 1/1
इति 0, (तस्य भावः) तद्-भावः
1/1 तत्त्वम् 1/1, ब्रह्मणः 6/1 याथात्म्यम् 1/1।
(真実と訳されたतत्त्वという言葉の基礎の部分である)तत्とは、全ての名前です。全てとはブランマンです。その名前をतत्とします。その在り方がतत्त्व、つまり、ブランマンの在り方そのものです。
तत् द्रष्टुं शीलं येषां ते तत्त्वदर्शिनः, तैः तत्त्वदर्शिभिः।
तत् 2/1 द्रष्टुम् 0 शीलम् 1/1 येषाम् 6/3 ते 1/3 तत्त्वदर्शिनः 1/3, तैः 3/3 तत्त्वदर्शिभिः 3/3।
その真実を見ることを特徴としている人々を、真実を見ている人々と言います。その人たちによって。
त्वमपि तत्त्वदर्शिनां दृष्टिमाश्रित्य शोकं मोहं च हित्वा शीतोष्णादीनि नियतानियतरूपाणि द्वन्द्वानि “विकारोऽयमसन्नेव मरीचिजलवन्मिथ्यावभासते” इति मनसि निश्चित्य तितिक्षस्व इत्यभिप्रायः॥
त्वम् 1/1 अपि 0 तत्त्व-दर्शिनाम् 6/3 दृष्टिम् 2/1 आश्रित्य 0 शोकम् 2/1 मोहम् 2/1 च 0 हित्वा 0 शीत-उष्णादीनि
1/3 नियत-अनियत-रूपाणि 1/3 द्वन्द्वानि 1/3 “विकारः 1/1 अयम् 1/1 असन् 1/1
एव 0 मरीचि-जलवत् 0 मिथ्या 0 अवभासते III/1” इति 0 मनसि 7/1 निश्चित्य 0 तितिक्षस्व II/1 इत्यभिप्रायः 1/1॥
あなたも、真実を見る人々のヴィジョンにもとづいて、悲しみと混乱を手放し、寒さ暑さといった予想できるものと出来ないものである相対的な事象を、「これは変化するものであり、それ自体での存在の無いものなので、蜃気楼の水のように、それ自体の存在を持たずに、表れているのだ」と心の中で明確にし、現状を客観的に捉えなさい、というのが要点です。