विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसोप्यस्य परं दृष्ट्वा निवर्तते ॥२.५९॥
viṣayā vinivartante nirāhārasya dehinaḥ |
rasavarjaṃ rasopyasya paraṃ dṛṣṭvā nivartate ||2.59||
विषयाः 1/3 विनिवर्तन्ते III/3 निराहारस्य 6/1 देहिनः 6/1 ।
रसवर्जम् 0 रसः 1/1 अपि 0 अस्य 6/1 परम् 2/1 दृष्ट्वा 0 निवर्तते III/1 ॥२.५९॥
· विषयाः [viṣayāḥ] = sense organs = विषय (m.) + 1/3
· विनिवर्तन्ते [vinivartante] = come back = वि + नि + वृत् + लट्/कर्तरि/III/3
· निराहारस्य [nirāhārasya] = for one who does not feed = निराहार (m.) + 6/1
· देहिनः [dehinaḥ] = for one who has body = देहिन् (m.) + 6/1
· रसवर्जम् [rasavarjam] = leaving the longing behind = अव्ययम्
· रसः [rasaḥ] = the longing = रस (m.) + 1/1
· अपि [api] = even = अव्ययम्
· अस्य [asya] = his = इदम् (pron. m.) + 6/1
· परम् [param] = ultimate = पर (n.) + 2/1
· दृष्ट्वा [dṛṣṭvā] = having seen = अव्ययम्
· निवर्तते [nivartate] = goes away = नि + वृत् + लट्/कर्तरि/III/1
For one who does not feed the senses, the senses come back to oneself leaving the longing behind. Having seen Brahman (when the self is known) even the longing goes away.
Sentence 1:
निराहारस्य 6/1 देहिनः 6/1 विषयाः 1/3 रसवर्जम् 0 विनिवर्तन्ते III/3
For one who does not feed the senses (निराहारस्य 6/1 देहिनः 6/1), the senses (विषयाः 1/3) come back (विनिवर्तन्ते III/3) to oneself leaving the longing behind (रसवर्जम् 0).
Sentence 2:
अस्य 6/1 रसः 1/1 अपि 0 परम् 2/1 दृष्ट्वा 0 निवर्तते III/1 ॥२.५९॥
Having seen (दृष्ट्वा 0) Brahman (परम् 2/1) even (अपि 0) the longing (अस्य 6/1 रसः 1/1) goes away (निवर्तते III/1).
तत्र 0 विषयान् 2/3 अनाहरतः 6/1 (नञ् + आ + हृ to take + शतृँ one who is ~ ing) आतुरस्य 6/1 अपि 0 इन्द्रियाणि 1/3 कूर्म-अङ्गानि 1/3 इव 0 संह्रियन्ते III/3 न 0 तु 0 तद्विषयः 1/1 रागः 1/1, सः 1/1 कथम् 0 संह्रियते III/1 इति 0 उच्यते III/1 –
विषया विनिवर्तन्ते निराहारस्य देहिनः। रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते।।2.59।।
यद्यपि 0 विषयाः 1/3 विषय-उपलक्षितानि 1/3 विषय-शब्द-वाच्यानि 1/3 इन्द्रियाणि 1/3 निराहारस्य 6/1 अनाह्रियमाण-विषयस्य 6/1 कष्टे 7/1 तपसि 7/1 स्थितस्य 6/1 मूर्खस्य 6/1 अपि 0 विनिवर्तन्ते III/3 देहिनः 6/1 देहवतः 6/1 रसवर्जम् 0 रसः 1/1 रागः 1/1 विषयेषु 7/3 यः 1/1, तम् 2/1 वर्जयित्वा 0 ।
रसशब्दः 1/1 रागे 7/1 प्रसिद्धः 1/1, स्वरसेन 3/1 प्रवृत्तः 1/1 रसिकः 1/1 रसज्ञः 1/1, इत्यादि-दर्शनात् 5/1।
सः 1/1 अपि 0 रसः 1/1 रञ्जन-रूपः 1/1 सूक्ष्मः 1/1 अस्य 6/1 यतेः 6/1 परम् 2/1 परमार्थतत्त्वम् 2/1 ब्रह्म 2/1 दृष्ट्वा 0 उपलभ्य 0 “अहमेव तत्” इति 0 वर्तमानस्य 6/1 निवर्तते III/1 निर्बीजम् 1/1 विषय-विज्ञानम् 1/1 संपद्यते III/1 इत्यर्थः 1/1।
न 0 असति 7/1 सम्यग्दर्शने 7/1 रसस्य 6/1 उच्छेदः 1/1। तस्मात् 5/1 सम्यग्दर्शनात्मिकायाः 6/1 प्रज्ञायाः 6/1 स्थैर्यम् 1/1 कर्तव्यम् 1/1 इत्यभिप्रायः 1/1 ॥