राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ ९.२॥
rājavidyā rājaguhyaṃ pavitramidamuttamam |
pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam || 9.2||
राजविद्या 1/1 राजगुह्यम् 1/1 पवित्रम् 1/1 इदम् 1/1 उत्तमम् 1/1 ।
प्रत्यक्षावगमम् 1/1 धर्म्यम् 1/1 सुसुखम् 1/1 कर्तुम् 0 अव्ययम् 1/1 ॥ ९.२॥
· राजविद्या [rājavidyā] = king of all-knowledge = राजविद्या (f.) + 1/1
· राजगुह्यम् [rājaguhyam] = the king of secrets = राजगुह्य n. + 1/1
· पवित्रम् [pavitram] = purifier = पवित्र n.+ 1/1
· इदम् [idam] = this = इदम् n. + adj. to ज्ञानम् 1/1
· उत्तमम् [uttamam] = the greatest = उत्तम n. + 1/1
· प्रत्यक्षावगमम् [pratyakṣāvagamam] = directly appreciated = प्रत्यक्षावगम n. + 1/1
· धर्म्यम् [dharmyam] = not opposed to dharma = धर्म्य n. + 1/1
· सुसुखम् [susukham] = easy = सुसुख n. + 1/1
· कर्तुम् [kartum] = to accomplish = अव्ययम्
· अव्ययम् [avyayam] = imperishable = अव्यय n. + 1/1
This is the king of all-knowledge, the king of secrets, the greatest purifier, directly appreciated, not opposed to dharma, easy to accomplish and imperishable.
Sentence 1:
This (इदम् 1/1) is the king of all-knowledge (राजविद्या 1/1), the king of secrets (राजगुह्यम् 1/1), the greatest (उत्तमम् 1/1) purifier (पवित्रम् 1/1), directly appreciated (प्रत्यक्षावगमम् 1/1), not opposed to dharma (धर्म्यम् 1/1), easy (सुसुखम् 1/1) to accomplish (कर्तुम् 0) and imperishable (अव्ययम् 1/1).
तच्च —
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥
राजविद्या विद्यानां राजा, दीप्त्यतिशयवत्त्वात् ; दीप्यते हि इयम् अतिशयेन ब्रह्मविद्या सर्वविद्यानाम् । तथा राजगुह्यं गुह्यानां राजा । पवित्रं पावनं इदम् उत्तमं सर्वेषां पावनानां शुद्धिकारणं ब्रह्मज्ञानम् उत्कृष्टतमम् । अनेकजन्मसहस्र-सञ्चितमपि धर्माधर्मादि समूलं कर्म क्षणमात्रादेव भस्मीकरोति इत्यतः किं तस्य पावनत्वं वक्तव्यम् । किञ्च — प्रत्यक्षावगमं प्रत्यक्षेण सुखादेरिव अवगमो यस्य तत् प्रत्यक्षावगमम् । अनेक-गुणवतोऽपि धर्मविरुद्धत्वं दृष्टम् , न तथा आत्मज्ञानं धर्मविरोधि, किन्तु धर्म्यं धर्मादनपेतम् । एवमपि, स्याद्दुःखसम्पाद्यमित्यत आह — सुसुखं कर्तुम् , यथा रत्नविवेकविज्ञानम् । तत्र अल्पायासानामन्येषां कर्मणां सुखसम्पाद्यानाम् अल्पफलत्वं दुष्कराणां च महाफलत्वं दृष्टमिति, इदं तु सुखसम्पाद्यत्वात् फलक्षयात् व्येति इति प्राप्ते, आह — अव्ययम् इति । न अस्य फलतः कर्मवत् व्ययः अस्तीति अव्ययम् । अतः श्रद्धेयम् आत्मज्ञानम् ॥ २ ॥