Wednesday, July 3, 2024

9th Chapter 2nd Sloka

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।

प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ ९.२॥

 

rājavidyā rājaguhyaṃ pavitramidamuttamam |

pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam || 9.2||

 

राजविद्या 1/1 राजगुह्यम् 1/1 पवित्रम् 1/1 इदम् 1/1 उत्तमम् 1/1

प्रत्यक्षावगमम् 1/1 धर्म्यम् 1/1 सुसुखम् 1/1 कर्तुम् 0 अव्ययम् 1/1 ॥ ९.२॥

 

·       राजविद्या [rājavidyā] = king of all-knowledge = राजविद्या (f.) + 1/1

·       राजगुह्यम् [rājaguhyam] = the king of secrets = राजगुह्य n. + 1/1

·       पवित्रम् [pavitram] = purifier = पवित्र n.+ 1/1

·       इदम् [idam] = this = इदम् n. + adj. to ज्ञानम् 1/1

·       उत्तमम् [uttamam] = the greatest = उत्तम n. + 1/1

·       प्रत्यक्षावगमम् [pratyakṣāvagamam] = directly appreciated = प्रत्यक्षावगम n. + 1/1

·       धर्म्यम् [dharmyam] = not opposed to dharma = धर्म्य n. + 1/1

·       सुसुखम् [susukham] = easy = सुसुख n. + 1/1

·       कर्तुम् [kartum] = to accomplish = अव्ययम्

·       अव्ययम् [avyayam] = imperishable = अव्यय n. + 1/1

 

This is the king of all-knowledge, the king of secrets, the greatest purifier, directly appreciated, not opposed to dharma, easy to accomplish and imperishable.

 

Sentence 1:

This (इदम् 1/1) is the king of all-knowledge (राजविद्या 1/1), the king of secrets (राजगुह्यम् 1/1), the greatest (उत्तमम् 1/1) purifier (पवित्रम् 1/1), directly appreciated (प्रत्यक्षावगमम् 1/1), not opposed to dharma (धर्म्यम् 1/1), easy (सुसुखम् 1/1) to accomplish (कर्तुम् 0) and imperishable (अव्ययम् 1/1).

 

 

तच्च

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।

प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥

राजविद्या विद्यानां राजा, दीप्त्यतिशयवत्त्वात् ; दीप्यते हि इयम् अतिशयेन ब्रह्मविद्या सर्वविद्यानाम् । तथा राजगुह्यं गुह्यानां राजा । पवित्रं पावनं इदम् उत्तमं सर्वेषां पावनानां शुद्धिकारणं ब्रह्मज्ञानम् उत्कृष्टतमम् । अनेकजन्मसहस्र-सञ्चितमपि धर्माधर्मादि समूलं कर्म क्षणमात्रादेव भस्मीकरोति इत्यतः किं तस्य पावनत्वं वक्तव्यम् । किञ्च प्रत्यक्षावगमं प्रत्यक्षेण सुखादेरिव अवगमो यस्य तत् प्रत्यक्षावगमम् । अनेक-गुणवतोऽपि धर्मविरुद्धत्वं दृष्टम् , न तथा आत्मज्ञानं धर्मविरोधि, किन्तु धर्म्यं धर्मादनपेतम् । एवमपि, स्याद्दुःखसम्पाद्यमित्यत आह सुसुखं कर्तुम् , यथा रत्नविवेकविज्ञानम् । तत्र अल्पायासानामन्येषां कर्मणां सुखसम्पाद्यानाम् अल्पफलत्वं दुष्कराणां च महाफलत्वं दृष्टमिति, इदं तु सुखसम्पाद्यत्वात् फलक्षयात् व्येति इति प्राप्ते, आह अव्ययम् इति । न अस्य फलतः कर्मवत् व्ययः अस्तीति अव्ययम् । अतः श्रद्धेयम् आत्मज्ञानम् ॥ २ ॥

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.