किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥४.१६॥
kiṃ karma kimakarmeti kavayo'pyatra mohitāḥ |
tatte karma pravakṣyāmi yajjñātvā mokṣyase'śubhāt ||4.16||
किम् 1/1 कर्म 1/1 किम् 1/1 अकर्म 1/1 इति 0 कवयः 1/3 अपि 0 अत्र 0 मोहिताः 1/3 ।
तत् 2/1 ते 4/1 कर्म 2/1 प्रवक्ष्यामि I/1 यत् 2/1 ज्ञात्वा 0 मोक्ष्यसे II/1 अशुभात् 5/1 ॥४.१६॥
·
किम् [kim] = what
= किम् (pron. n.) + 1/1
·
कर्म [karma] =
action = कर्मन् (n.) + 1/1
·
किम् [kim] = what
= किम् (pron. n.) + 1/1
·
अकर्म [karma] =
actionlessness. = अकर्मन् (n.) + 1/1
o
न कर्म अकर्म (NT) ।
·
इति [iti] = thus = अव्ययम्
·
कवयः [kavayaḥ]
= seers (scholars) = कवि (m.) + 1/3
·
अपि [api] = even = अव्ययम्
·
अत्र [atra] = with reference to this = अव्ययम्
·
मोहिताः [mohitāḥ]
= confused = मोहित (m.) + 1/3
·
तत् [tat] = that = तद्
(pron. n.) + adj. to कर्म 2/1
·
ते [te] = for
you = युष्मद् (pron. m.) + सम्प्रदाने to प्रवक्ष्यामि 4/1
·
कर्म [karma] =
action = कर्मन् (n.) + कर्मणि to प्रवक्ष्यामि 2/1
·
प्रवक्ष्यामि [pravakṣyāmi] = I will tell = प्र + वच् to say + लृट्/कर्तरि/I/1
·
यत् [yat] = which
= यद् (pron. n.) + कर्मणि to ज्ञात्वा 2/1
·
ज्ञात्वा [jñātvā] = having known = अव्ययम्
·
मोक्ष्यसे [mokṣyase] = you will be freed = मुच् to be free + लृट्/कर्तरि/II/1
·
अशुभात् [aśubhāt]
= from inauspicious (संसार) = अशुभ
(n.) + अपादाने 5/1
Even the seers (scholars) are
confused with reference to what is action (and) what is actionlessness. I shall
tell you about action, knowing which you will be released from what is
inauspicious (samsāra).
Sentence 1:
किम् 1/1 कर्म 1/1 किम् 1/1 अकर्म 1/1 इति 0 कवयः 1/3 अपि 0 अत्र 0 मोहिताः 1/3 ।
Even (अपि 0) the seers (scholars) (कवयः 1/3) are confused (मोहिताः 1/3) with reference to (अत्र 0) what is (किम् 1/1) action (कर्म 1/1) what is (किम् 1/1) actionlessness (अकर्म 1/1).
Sentence 2:
तत् 2/1 कर्म 2/1 ते 4/1 प्रवक्ष्यामि I/1 यत् 2/1 ज्ञात्वा 0 अशुभात् 5/1 मोक्ष्यसे II/1 ॥४.१६॥
I shall tell (प्रवक्ष्यामि I/1) you (ते 4/1) about action (तत् 2/1 कर्म 2/1), knowing (ज्ञात्वा 0) which (यत् 2/1) you will be
released (मोक्ष्यसे II/1) from what is
inauspicious (samsāra) (अशुभात् 5/1).
तत्र 0 कर्म 1/1 चेत् 0 कर्तव्यम्
1/1 त्वद्वचनात् 5/1 एव 0 करोमि I/1
अहम् 1/1, किम् 0 विशेषितेन 3/1 “पूर्वैः 3/3 पूर्वतरम् 2/1 कृतम् 2/1” (गीता 4.15) इत्युच्यते
III/1; यस्मात् 5/1 महत् 1/1 वैषम्यम् 1/1 कर्मणि 7/1
। कथम् 0 ? -
“किम् 1/1 कर्म 1/1 किम् 1/1 च 0 अकर्म 1/1“ इति 0 कवयः 1/3 मेधाविनः 1/3 अपि 0 अत्र 0 अस्मिन् 7/1 कर्मादि-विषये 7/1 मोहिताः 1/3 मोहम् 2/1 गताः 1/3। तत् 2/1 अतः 0 ते 4/1 तुभ्यम् 4/1 अहम् 1/1 कर्म 2/1 अकर्म 2/1 च 0 प्रवक्ष्यामि I/1, यत् 2/1 ज्ञात्वा 0 विदित्वा 0 कर्मादि 2/1 मोक्ष्यसे II/1 अशुभात् 5/1 संसारात् 5/1 ॥