Showing posts with label 1303 13th Chapter 3rd Sloka. Show all posts
Showing posts with label 1303 13th Chapter 3rd Sloka. Show all posts

Tuesday, April 18, 2023

13th Chapter 3rd Sloka

तत्क्षेत्रं यच्च यादृक् च यद्विकारि यतश्च यत् ।

स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥ १३.३ ॥

 

tatkṣetraṃ yacca yādṛk ca yadvikāri yataśca yat |

sa ca yo yatprabhāvaśca tatsamāsena me śṛṇu || 13.3 ||

 

तत् 1/1 क्षेत्रम् 1/1 यत् 1/1 0 यादृक् 1/1 0 यद्विकारि 1/1 यतः 0 0 यत् 1/1

सः 1/1 0 यः 1/1 यत्प्रभावः 1/1 0 तत् 2/1 समासेन 3/1 मे 6/1 शृणु II/1 ॥ १३.३ ॥

 

·       तत् [tat] = that = तद् (pron.) n. + कर्तरि to (भवति) 1/1

·       क्षेत्रम् [kṣetram] = the field = क्षेत्र (n.) + कर्तरि to (भवति) 1/1

·       यत् 1/1 [yat] = that which = यद् (pron.) n. + adj. to क्षेत्रम् 1/1

·       [ca] = and = अव्ययम्

·       यादृक् [yādṛk] = of which nature = यादृश् n. + S.C. to तत् 1/1

o   यद् + दृश् + क्विन् (3.2.60 त्यदादिषु दृशोऽनालोचने कञ्च । ~ क्विन् धातोः प्रत्ययः परश्च)

·       [ca] = and = अव्ययम्

·       यद्विकारि [yadvikāri] = of what modifications = + S.C. to तत् 1/1

o   यः विकारः यद्विकारः (KT)

o   यद्विकारः अस्य अस्ति इति तत् यद्विकारि ।

o   यद्विकार + इनिँ (5.2.115 अत इनिठनौ । ~ तत् अस्य अस्मिन् इति)

·       यतः [yataḥ] = from which = अव्ययम्

·       [ca] = and = अव्ययम्

·       यत् 1/1 [yat] = that which = यद् (pron.) n. + adj. to क्षेत्रम् 1/1

·       सः [saḥ] = that = तद् (pron.) m. + कर्तरि to (भवति)  1/1

·       [ca] = and = अव्ययम्

·       यः [yaḥ] = that which = यद् (pron.) m. + adj. to (क्षेत्रज्ञः) 1/1

·       यत्प्रभावः [yatprabhāvaḥ] = which are the glories = यत्प्रभाव m. + S.C. to सः 1/1

o   ये प्रभावाः उपाधिकृताः शक्तयः यस्य सः यत्प्रभावः (116B) 

·       [ca] = and = अव्ययम्

·       तत् [tat] = that = तद् (pron.) n. + कर्मणि to शृणु 2/1

·       समासेन [samāsena] = briefly = समास (m.) + क्रियाविशेषणे 3/1

·       मे [me] = my = अस्मद् (pron.) m. + सम्बन्धे to (वाक्यतः) 6/1

·       शृणु [śṛṇu] = listen = श्रु (1P) to listen + लोट्/कर्तरि/II/1

 

And what is that ketra, of what nature, of what modifications, from what has it come and who is the ketrajña and what is (his) glory — (for) that in brief, listen to me.

 

Sentence 1:

And ( 0) what is that (यत् 1/1तत् 1/1) ketra (क्षेत्रम् 1/1), of what nature (यादृक् 1/1 0), of what modifications (यद्विकारि 1/1), from what has it come (यत् 1/1यतः 0 0)

 

Sentence 2:

And ( 0) who is the (यः 1/1 सः 1/1) (ketrajña) and what is (his) glory (यत्प्रभावः 1/1 0)

 

Sentence 3:

— (for) that (तत् 2/1) in brief (समासेन 3/1), listen (शृणु II/1) to me (मे 6/1).

 

[अन्वयः]

यत् क्षेत्रं तत् 1) यादृक् च, 2) यद्विकारि, च 3) यतः यत् (2) कार्यम् उत्पद्यते) च,

यः (क्षेत्रज्ञः) च सः 1) यत्प्रभावः,

तत् समसेन मे शृणु ।

 

’इदं शरीरम्’ इत्यादिश्लोकोपदिष्टस्य क्षेत्राध्यायार्थस्य सङ्ग्रहश्लोकः अयम् उपन्यस्यते तत्क्षेत्रं यच्चइत्यादि, व्याचिख्यासितस्य हि अर्थस्य सङ्ग्रहोपन्यासः न्याय्यः इति

तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् 

स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥ ३ ॥

यत् निर्दिष्टम् इदं शरीरम्’ इति तत् तच्छब्देन परामृशति यच्च इदं निर्दिष्टं क्षेत्रं तत् यादृक् यादृशं स्वकीयैः धर्मैः -शब्दः समुच्चयार्थः यद्विकारि यः विकारः यस्य तत् यद्विकारि, यतः यस्मात् यत् , कार्यम् उत्पद्यते इति वाक्यशेषः  यः क्षेत्रज्ञः निर्दिष्टः सः यत्प्रभावः ये प्रभावाः उपाधिकृताः शक्तयः यस्य सः यत्प्रभावश्च तत् क्षेत्रक्षेत्रज्ञयोः याथात्म्यं यथाविशेषितं समासेन सङ्क्षेपेण मे मम वाक्यतः शृणु, श्रुत्वा अवधारय इत्यर्थः ॥ ३ ॥

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.