द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥४.२८॥
dravyayajñāstapoyajñā yogayajñāstathāpare |
svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ ||4.28||
द्रव्ययज्ञाः 1/3 तपोयज्ञाः 1/3 योगयज्ञाः 1/3 तथा 0 अपरे 1/3 ।
स्वाध्यायज्ञानयज्ञाः 1/3 च 0 यतयः 1/3 संशितव्रताः 1/3 ॥४.२८॥
·
द्रव्ययज्ञाः [dravyayajñāḥ] = those who distribute wealth = द्रव्ययज्ञ
(m.) + 1/3
o
तीर्थेषु द्रव्यविनियोगं यज्ञबुद्ध्या
कुर्वन्ति ये ते द्रव्ययज्ञाः ।
·
तपोयज्ञाः [tapoyajñāḥ] = those who follow prayerful disciplines = तपोयज्ञ
(m.) + 1/3
o
तपः यज्ञः येषां ते तपोयज्ञाः (116B)।
·
योगयज्ञाः [yogayajñāḥ] = those who practise
yoga = योगयज्ञ (m.) + 1/3
o
योगः यज्ञः येषां ते योगयज्ञाः (116B)।
·
तथा [tathā] =
so, too = अव्ययम्
·
अपरे [apare] =
others = अपर (pron. m.) + 1/3
·
स्वाध्यायज्ञानयज्ञाः [svādhyāyajñānayajñāḥ] = those who pursue knowledge = स्वाध्यायज्ञानयज्ञ
(m.) + 1/3
o
स्वाध्यायः ज्ञानं च स्वाध्यायज्ञाने (ID) ।
o
स्वाध्यायज्ञाने यज्ञौ येषां ते स्वाध्यायज्ञानयज्ञाः
(116B)।
·
च [ca] = and
= अव्ययम्
·
यतयः [yatayaḥ]
= those who make efforts = यति (m.) + 1/3
·
संशितव्रताः [saṃśitavratāḥ] = those of firm vows = संशितव्रत
(m.) + 1/3
o
सम्यक् शितानि व्रतानि येषां ते संशितव्रताः (116B) ।
So too, there are those who
distribute wealth, those who follow prayerful disciplines, those who practise yoga,
and those of firm vows and efforts who pursue knowledge.
Sentence 1:
तथा 0 अपरे 1/3 द्रव्ययज्ञाः 1/3 तपोयज्ञाः 1/3 योगयज्ञाः 1/3 स्वाध्यायज्ञानयज्ञाः 1/3 यतयः 1/3 संशितव्रताः 1/3 च 0 ॥४.२८॥
So too (तथा 0), there are those (अपरे 1/3) who distribute
wealth (द्रव्ययज्ञाः 1/3), those who follow
prayerful disciplines (तपोयज्ञाः 1/3), those who practise
yoga (योगयज्ञाः 1/3), and (च 0) those of firm vows (संशितव्रताः 1/3) and efforts (यतयः 1/3) who pursue knowledge (स्वाध्यायज्ञानयज्ञाः 1/3).
द्रव्ययज्ञाः 1/3 तीर्थेषु 7/3 द्रव्य-विनियोगम् 2/1 यज्ञबुद्ध्या
3/1 कुर्वन्ति III/3 ये 1/3 ते 1/3 द्रव्ययज्ञाः 1/3। तपोयज्ञाः 1/3 तपः 1/1 यज्ञः 1/1 येषाम् 6/3
तपस्विनाम् 6/3 ते 1/3 तपोयज्ञाः 1/3
। योगयज्ञाः 1/3 प्राणायाम-प्रत्याहार-आदि-लक्षणः 1/1 योगः 1/1 यज्ञः 1/1 येषाम् 1/1 ते 1/3 योगयज्ञाः 1/3
। तथा 0 अपरे 1/3 स्वाध्यायज्ञानयज्ञाः 1/3 च 0 स्वाध्यायः 1/1 यथाविधि 0 ऋग्-आदि-अभ्यासः 1/1 यज्ञः 1/1 येषाम् 6/3 ते 1/3 स्वाध्याय-यज्ञाः 1/3 । ज्ञानयज्ञाः 1/3 ज्ञानम् 1/1 शास्त्रार्थ-परिज्ञानम् 1/1 यज्ञः 1/1 येषाम् 6/3 ते 1/3 ज्ञानयज्ञाः 1/3 च 0 यतयः 1/3 यतनशीलाः 1/3 संशितव्रताः 1/3 सम्यक् 0 शितानि 1/3 तनूकृतानि 1/3 तीक्ष्णीकृतानि 1/3 व्रतानि 1/3 येषाम् 3/3 ते 1/3 संशितव्रताः 1/3॥