य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ १३.२३ ॥
ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha |
sarvathā vartamāno'pi na sa bhūyo'bhijāyate || 13.23 ||
यः 1/1 एवम् 0 वेत्ति III/1 पुरुषम् 2/1 प्रकृतिम् 2/1 च 0 गुणैः 3/3 सह 0 ।
सर्वथा 0 वर्तमानः 1/1 अपि 0 न 0 सः 1/1 भूयः 0 अभिजायते III/1 ॥ १३.२३ ॥
The one who knows in this manner, puruṣa and prakṛti along with its attributes, even though engaged in all ways, he is not born again.
The one who (यः 1/1) knows (वेत्ति III/1) in this manner (एवम् 0), puruṣa (पुरुषम् 2/1) and (च 0) prakṛti (प्रकृतिम् 2/1) along with (सह 0) its attributes (गुणैः 3/3), even though (अपि 0) engaged (वर्तमानः 1/1) in all ways (सर्वथा 0), he (सः 1/1) is not (न 0) born (अभिजायते III/1) again (भूयः 0).
· यः [yaḥ] = the one who = यद् m. + कर्तरि to वेत्ति 1/1
· एवम् [evam] = in this manner = अव्ययम्
· वेत्ति [vetti] = knows = विद् (2P) to know + लट्/कर्तरि/III/1
· पुरुषम् [puruṣam] = puruṣa = पुरुष (m.) + कर्मणि to वेत्ति 2/1
· प्रकृतिम् [prakṛtim] = prakṛti = प्रकृति (f.) + कर्मणि to वेत्ति 2/1
· च [ca] = and = अव्ययम्
· गुणैः [guṇaiḥ] = attributes = गुण (m.) + सह 3/3
· सह [saha] = with = अव्ययम्
· सर्वथा [sarvathā] = in all manners = अव्ययम्
o सर्व + थाल् 5.3.23 प्रकारवचने थाल् ।
· वर्तमानः [vartamānaḥ] = being engaged = वर्तमान m. + adj. to सः 1/1
o वृत् (1A) to exist, to occupy, to live on + शानच्
· अपि [api] = even though = अव्ययम्
· न [na] = not = अव्ययम्
· सः [saḥ] = he = तद् m. + कर्तरि to अभिजायते 1/1
· भूयः [bhūyaḥ] = again = (भूयस्) अव्ययम्
· अभिजायते [abhijāyate] = is born = अभि + जन् (4A) to be born + लट्/कर्तरि/III/1
अन्वयः
यः 1/1 पुरुषम् 2/1 गुणैः 3/3 सह 0 प्रकृतिम् 2/1 च 0 एवम् 0 वेत्ति III/1, सः 1/1 सर्वथा 0 वर्तमानः 1/1 अपि 0 भूयः 0 न 0 अभिजायते III/1 ॥
तमेतं यथोक्तलक्षणम् आत्मानम् —
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ २३ ॥
यः एवं यथोक्तप्रकारेण वेत्ति पुरुषं साक्षात् अहमिति प्रकृतिं च यथोक्ताम् अविद्यालक्षणां गुणैः स्वविकारैः सह निवर्तिताम् अभावम् आपादितां विद्यया, सर्वथा सर्वप्रकारेण वर्तमानोऽपि सः भूयः पुनः पतिते अस्मिन् विद्वच्छरीरे देहान्तराय न अभिजायते न उत्पद्यते, देहान्तरं न गृह्णाति इत्यर्थः । अपिशब्दात् किमु वक्तव्यं स्ववृत्तस्थो न जायते इति अभिप्रायः ॥
ननु, यद्यपि ज्ञानोत्पत्त्यनन्तरं पुनर्जन्माभाव उक्तः, तथापि प्राक् ज्ञानोत्पत्तेः कृतानां कर्मणाम् उत्तरकालभाविनां च, यानि च अतिक्रान्तानेकजन्मकृतानि तेषां च, फलमदत्त्वा नाशो न युक्त इति ।
(プールヴァパクシャ)知識を得た後は、次に生まれることは無いと言われましたが、それでも、知識が起きる前に為されたカルマと、(知識が起きた)後にあるカルマ、そして、生前の無数にある人生で為されたカルマが、結果をもたらさずに亡くなるというのは不適切です。
स्युः त्रीणि जन्मानि, कृतविप्रणाशो हि न युक्त इति, यथा फले प्रवृत्तानाम् आरब्धजन्मनां कर्मणाम् ।
(それらみっつのタイプのカルマを消化するためには)みっつの人生が必要です。なぜなら、為されたことが無くなるというのは不適切だからです。実ろうとしている今回既に始まっている人生のカルマ(プラーラブダ)のように。
न च कर्मणां विशेषः अवगम्यते ।
(プラーラブダと、それ以外の)カルマの違いが分かりません。
तस्मात् त्रिप्रकाराण्यपि कर्माणि त्रीणि जन्मानि आरभेरन् ; संहतानि वा सर्वाणि एकं जन्म आरभेरन् ।
ゆえに、三種類のカルマは、みっつの人生を生み出すべきです。もしくは、全てまとめてひとつの人生を生み出すべきです。
अन्यथा कृतविनाशे सति सर्वत्र अनाश्वासप्रसङ्गः, शास्त्रानर्थक्यं च स्यात् ।
さもなくば、為されたことが無くなるとしたら、何においてもリラックスできなくなります。聖典の意味もなくなってしまいます。
इत्यतः इदमयुक्तमुक्तम् ‘न स भूयोऽभिजायते’ इति ।
このことから、「再び生まれることはありません」というのは不適切です。
न ; ‘क्षीयन्ते चास्य कर्माणि’ (मु. उ. २ । २ । ९) ‘ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) ‘तस्य तावदेव चिरम्’ (छा. उ. ६ । १४ । २) ‘इषीकातूलवत् सर्वाणि कर्माणि प्रदूयन्ते’ (छा. उ. ५ । २४ । ३) इत्यादिश्रुतिशतेभ्यः उक्तो विदुषः सर्वकर्मदाहः ।
(シッダーンタ)それは違います。「その人のカルマは解消されます」「ブランマンを知る人はブランマンになります」「その人の待ち時間はそれだけ(身体が続く間だけの時間)です」「綿の繊維のように、全てのカルマは消えて無くなります」といった何百ものシュルティによって、知識を持つ人の全てのカルマが焼却されることが言われています。
इहापि च उक्तः ‘यथैधांसि’ (भ. गी. ४ । ३७) इत्यादिना सर्वकर्मदाहः, वक्ष्यति च ।
ここ(バガヴァッド・ギーター)においても、「(火が)木の枝を(燃やし尽くす)ように」といったように、全てのカルマの焼却が言われていますし、これからも言われます。
उपपत्तेश्च — अविद्याकामक्लेशबीजनिमित्तानि हि कर्माणि जन्मान्तराङ्कुरम् आरभन्ते ।
論理的にも、(知識を持つ人のカルマが解消されることは正しいです。) - 無知・欲望・苦悩という種が原因となっているカルマは、次の生という芽を生み出します。
इहापि च ‘साहङ्काराभिसन्धीनि कर्माणि फलारम्भकाणि, न इतराणि’ इति तत्र तत्र भगवता उक्तम् ।
ここ(バガヴァッド・ギーター)においても、「アハンカーラを伴った(結果を得ることを)目的としたカルマは、結果をもたらすものです。そうでない(カルマは、結果をもたらすものでは)ありません」と、あちらこちらでバガヴァーンによって言われています。
‘बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः । ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः’ (मो. २११ । १७) इति च ।
「火によって焼かれた種は、再び芽を出すことはありません。同様に、知識によって焼かれた、苦悩(の原因となるカルマ)によって、ジーヴァは再び生まれてくることはありません」とも。
अस्तु तावत् ज्ञानोत्पत्त्युत्तरकालकृतानां कर्मणां ज्ञानेन दाहः ज्ञानसहभावित्वात् ।
(アークシェーパ)それなら、まず、知識が起きた後に為されたカルマは、知識によって燃やされたとしましょう。知識を伴っていることから。
न तु इह जन्मनि ज्ञानोत्पत्तेः प्राक् कृतानां कर्मणां अतीतजन्मकृतानां च दाहः युक्तः ।
しかし、この生において、知識の起きる前に行われたカルマと、以前の生で為されたカルマが燃やされると言うのは適切ではありません。
न ; ‘सर्वकर्माणि’ (भ. गी. ४ । ३७) इति विशेषणात् ।
(サマーダーナ)それは違います。「(知識の火は)全てのカルマを(灰にします)」と特定されていることから。
ज्ञानोत्तरकालभाविनामेव सर्वकर्मणाम् इति चेत् ।
(アークシェーパ)知識が起きた後に為された、全てのカルマという意味では?
न ; सङ्कोचे कारणानुपपत्ते ।
(サマーダーナ)それは違います。限定することにおいて、その理由が無いことから。
यत्तु उक्तम् ‘यथा वर्तमानजन्मारम्भकाणि कर्माणि न क्षीयन्ते फलदानाय प्रवृत्तान्येव सत्यपि ज्ञाने, तथा अनारब्धफलानामपि कर्मणां क्षयो न युक्तः’ इति, तत् असत् ।
前に言われた、「知識があっても、既に実を結び始めている、今回の生を始めたカルマは解消されないのと同様に、まだ実を結び始めていないカルマが解消されるのもあり得ない」というのも間違っています。
कथम् ? तेषां मुक्तेषुवत् प्रवृत्तफलत्वात् ।
なぜでしょうか? それらは、放たれた矢のように、実を結び始めているからです。
यथा पूर्वं लक्ष्यवेधाय मुक्तः इषुः धनुषः लक्ष्यवेधोत्तरकालमपि आरब्धवेगक्षयात् पतनेनैव निवर्तते, एवं शरीरारम्भकं कर्म शरीरस्थितिप्रयोजने निवृत्तेऽपि, आ संस्कारवेगक्षयात् पूर्ववत् वर्तते एव ।
例えば、以前に、標的を射抜くために弓から放たれた矢が、標的を射抜いた後にも、得られた推進力が尽きて落ちることによってのみ止まるように、同様に、身体を生み出したカルマも、身体が存続する目的が無くなっても(最大のゴールであるモークシャを手に入れても)、サムスカーラ(カルマ)の推進力が無くなるまでは、以前のように存続するのです。
यथा स एव इषुः प्रवृत्तिनिमित्तानारब्धवेगस्तु अमुक्तो धनुषि प्रयुक्तोऽपि उपसंह्रियते, तथा अनारब्धफलानि कर्माणि स्वाश्रयस्थान्येव ज्ञानेन निर्बीजीक्रियन्ते इति, पतिते अस्मिन् विद्वच्छरीरे ‘न स भूयोऽभिजायते’ इति युक्तमेव उक्तमिति सिद्धम् ॥ २३ ॥
同じ矢でも、放たれておらず、向かう理由(標的を射抜くこと)へ推進力が始められていなければ、弓に番えられていても、破棄されます。同様に、まだ実を結んでいないカルマは、あるところにあるままで、知識によって芽が出ないようにされてしまいます。このことから、この知識を持った人の身体が尽きた時、「その人は再び生まれることはありません」というのは、適切に言われたと、確立されました。