अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः ।
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥२.३६॥
avācyavādāṃśca bahūn vadiṣyanti tavāhitāḥ |
nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim ||2.36||
अवाच्यवादान् 2/3 च 0 बहून् 2/3 वदिष्यन्ति III/3 तव 6/1 अहिताः 1/3 ।
निन्दन्तः 1/3 तव 6/1 सामर्थ्यम् 2/1 ततः 0 दुःखतरम् 1/1 नु 0 किम् 0 ॥२.३६॥
· अवाच्यवादान् [avācyavadān] = unutterable things = अवाच्यवाद (m.) + कर्मणि 2/3
· च [ca] = and = अव्ययम्
· बहून् [bahūn] = many = बहु (m.) + adj. to अवाच्यवादान् 2/3
· वदिष्यन्ति [vadiṣyanti] = (they) will speak = वद् (1P) to speak + लृट्/कर्तरि/III/3
· तव [tava] = your = युष्मद् (pron. m.) + सम्बन्धे 6/1
· अहिताः [ahitāḥ] = enemies = अहित (m.) + कर्तरि to वदिष्यन्ति 1/3
· निन्दन्तः [nindantaḥ] = belittling = निन्दत् (m.) + adj. to अहिताः 1/3
o निन्द् to critisize + शतृ (one who is …ing)
· तव [tava] = your = युष्मद् (pron. m.) + सम्बन्धे 6/1
· सामर्थ्यम् [sāmarthyam] = prowess = सामर्थ्य (n.) + कर्मणि 2/1
· ततः [tataḥ] = than that = अव्ययम्
o तद् + तसिल् (5th case meaning)
· दुःखतरम् [duḥkhataram] = more painful = दुःखतर (n.) + 1/1
· नु [nu] = indeed = अव्ययम्
· किम् [kim] = what = किम् (pron. n.) + 1/1
And belittling your prowess, your enemies will say many unutterable things about (you). Is there anything more painful than that?
Sentence 1:
तव 6/1 च 0 सामर्थ्यम् 2/1 निन्दन्तः 1/3 तव 6/1 अहिताः 1/3 बहून् 2/3 अवाच्यवादान् 2/3 वदिष्यन्ति III/3 ।
And (च 0) belittling (निन्दन्तः 1/3) your (तव 6/1) prowess (सामर्थ्यम् 2/1), your (तव 6/1) enemies (अहिताः 1/3) will say (वदिष्यन्ति III/3) many (बहून् 2/3) unutterable things (अवाच्यवादान् 2/3).
Sentence 2:
ततः 0 दुःखतरम् 2/1 नु 0 किम् 0 ॥२.३६॥
Is there anything (नु 0 किम् 0) more painful (दुःखतरम् 1/1) than that (ततः 0)?
किञ्च—
अवाच्यवादान् 2/3 अवक्तव्यवादान् 2/3 च 0 बहून् 2/3 अनेकप्रकारान् 2/3 वदिष्यन्ति III/3 तव 6/1 अहिताः 1/3 शत्रवः 1/3 निन्दन्तः 1/3 कुत्सयन्तः 1/3 तव 6/1 त्वदीयम् 2/1 सामर्थ्यम् 2/1 निवातकवचादि-युद्ध-निमित्तम् 2/1 । ततः 0 तस्मात् 5/1 निन्दा-प्राप्तेः 6/1 दुःखात् 5/1 दुःखतरम् 1/1 नु 0 किम् 0, ततः 0 कष्टतरम् 1/1 दुःखम् 1/1 न 0 अस्ति III/1 इति 0 अर्थः 1/1॥ ३६ ॥