ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ १८.६१ ॥
īśvaraḥ sarvabhūtānāṃ hṛddeśe'rjuna tiṣṭhati |
bhrāmayansarvabhūtāni yantrārūḍhāni māyayā || 18.61 ||
ईश्वरः 1/1 सर्वभूतानाम् 6/3 हृद्देशे 7/1 अर्जुन S/1 तिष्ठति III/1।
भ्रामयन् 1/1 सर्वभूतानि 2/3 यन्त्रारूढानि 2/3 मायया 3/1॥ १८.६१ ॥
· ईश्वरः [īśvaraḥ] = the Lord = ईश्वर (m.) + कर्तरि to तिष्ठति 1/1
· सर्वभूतानाम् [sarvabhūtānām] = of all beings = सर्वभूत (n.) + सम्बन्धे to हृद्देशे 6/3
· हृद्देशे [hṛddeśe] = in the seat of the heart/intellect = हृद्देश (m.) + अधिकरणे to तिष्ठति 7/1
· अर्जुन [arjuna] = O Arjuna! = अर्जुन (m.) + सम्बोधने 1/1
· तिष्ठति [tiṣṭhati] = remains, abides = स्था (1P) to stand, remain + लट्/कर्तरि/III/1
· भ्रामयन् [bhrāmayan] = causing to move/revolve = भ्रामयत् (m.) + adj. to ईश्वरः 1/1
· सर्वभूतानि [sarvabhūtāni] = all beings = सर्वभूत (n.) + कर्मणि to भ्रामयन् 2/3
· यन्त्रारूढानि [yantrārūḍhāni] = mounted on a machine = यन्त्रारूढ (n.) + adj. to सर्वभूतानि 2/3
· मायया [māyayā] = by māyā = माया (f.) + करणे to भ्रामयन् 3/1
The Lord remains at the seat of the intellect of all beings, Arjuna! causing all beings to move (revolve), by (the magic of his) māyā, (like) those (figures) which are mounted on a machine (are made to revolve).
Sentence 1:
अर्जुन S/1 ईश्वरः 1/1 सर्वभूतानि 2/3 यन्त्रारूढानि 2/3 (इव) मायया 3/1 भ्रामयन् 1/1 सर्वभूतानाम् 6/3 हृद्देशे 7/1 तिष्ठति III/1 ॥
The Lord (ईश्वरः 1/1) remains (तिष्ठति III/1) at the seat of the intellect (हृद्देशे 7/1) of all beings (सर्वभूतानाम् 6/3), Arjuna! (अर्जुन S/1) causing all beings (सर्वभूतानि 2/3) to move (भ्रामयन् 1/1) (revolve), by (the magic of his) māyā (मायया 3/1), (like) those (figures) which are mounted on a machine (यन्त्रारूढानि 2/3) (are made to revolve).
ईश्वरः 1/1 ईशनशीलः नारायणः सर्वभूतानाम् 6/3 सर्वप्राणिनां हृद्देशे 7/1 हृदयदेशे अर्जुन S/1 शुक्लान्तरात्मस्वभावः विशुद्धान्तःकरणः — “अहश्च कृष्णमहरर्जुनं च” (ऋ. मं. ६ । १ । ९ । १) इति दर्शनात् — तिष्ठति III/1 स्थितिं लभते । तेषु सः कथं तिष्ठतीति, आह — भ्रामयन् 1/1 भ्रमणं कारयन् सर्वभूतानि 2/3 यन्त्रारूढानि 2/3 यन्त्राणि आरूढानि अधिष्ठितानि इव — इति इवशब्दः अत्र द्रष्टव्यः — यथा दारुकृतपुरुषादीनि यन्त्रारूढानि । मायया 3/1 च्छद्मना भ्रामयन् तिष्ठति इति सम्बन्धः ॥ १८.६१ ॥