सर्वतःपाणिपादं तत्सर्वतोक्षिशिरोमुखम् ।
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १३.१३ ॥
sarvataḥpāṇipādaṃ tatsarvatokṣiśiromukham |
sarvataḥśrutimalloke sarvamāvṛtya tiṣṭhati || 13.13 ||
सर्वतःपाणिपादम् 1/1 तत् 1/1 सर्वतोक्षिशिरोमुखम् 1/1 ।
सर्वतःश्रुतिमत् 1/1 लोके 7/1 सर्वम् 2/1 आवृत्य 0 तिष्ठति III/1 ॥ १३.१३ ॥
That has hands and feet on all sides, has eyes, heads and mouths on all sides, has ears on all sides in the (bodies) of the people, and remains pervading everything.
That (तत् 1/1) has hands and feet on all sides (सर्वतःपाणिपादम् 1/1), has eyes, heads and mouths on all sides (सर्वतोक्षिशिरोमुखम् 1/1), has ears on all sides (सर्वतःश्रुतिमत् 1/1) in the (bodies) of the people (लोके 7/1), and remains (तिष्ठति III/1) pervading (आवृत्य 0) everything (सर्वम् 2/1).
· सर्वतःपाणिपादम् [sarvataḥpāṇipādam] = that which has hands and feet on all sides = सर्वतःपाणिपाद n. + S.C. to तत् 1/1
o सर्वतः 0 पाणयः 1/3 पादाः 1/3 च यस्य 6/1 तत् सर्वतःपाणिपादम् 1/1 (0116B)
· तत् [tat] = that = तद् n.+ कर्तरि to तिष्ठति 1/1
· सर्वतोक्षिशिरोमुखम् [sarvatokṣiśiromukham] = that which has eyes, heads and mouths on all sides = सर्वतोक्षिशिरोमुख n. + S.C. to तत् 1/1
o सर्वतः 0 अक्षीणि 1/3 शिरांसि 1/3 मुखानि 1/3 च यस्य 6/1 तत् सर्वतोक्षिशिरोमुखम् 1/1 (01116B)
· सर्वतःश्रुतिमत् [sarvataḥśrutimat] = that which has ears on all sides = सर्वतःश्रुतिमत् n. + S.C. to तत् 1/1
o सर्वतः 0 श्रुतयः 1/3 (=श्रोत्रेन्द्रियाणि 1/3) यस्य 6/1 तत् सर्वतःश्रुतिमत् 1/1
· लोके [loke] = in the (bodies) of the people = लोक (m.) + अधिकरणे to तिष्ठति 7/1
· सर्वम् [sarvam] = everything = सर्व n. + कर्मणि to आवृत्य 2/1
· आवृत्य [āvṛtya] = pervading = अव्ययम्
o आङ् + वृ to pervade + ल्यप्
· तिष्ठति [tiṣṭhati] = remains = स्था + लट्/कर्तरि/III/1
सच्छब्दप्रत्ययाविषयत्वात् असत्त्वाशङ्कायां ज्ञेयस्य सर्वप्राणिकरणोपाधिद्वारेण तदस्तित्वं प्रतिपादयन् तदाशङ्कानिवृत्त्यर्थमाह —
सर्वतःपाणिपादं तत्सर्वतोक्षिशिरोमुखम् ।
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १३ ॥
सर्वतःपाणिपादं सर्वतः पाणयः पादाश्च अस्य इति सर्वतःपाणिपादं तत् ज्ञेयम् ।
सर्वप्राणिकरणोपाधिभिः क्षेत्रज्ञस्य अस्तित्वं विभाव्यते । क्षेत्रज्ञश्च क्षेत्रोपाधितः उच्यते । क्षेत्रं च पाणिपादादिभिः अनेकधा भिन्नम् । क्षेत्रोपाधिभेदकृतं विशेषजातं मिथ्यैव क्षेत्रज्ञस्य, इति तदपनयनेन ज्ञेयत्वमुक्तम् ‘न सत्तन्नासदुच्यते’ इति । उपाधिकृतं मिथ्यारूपमपि अस्तित्वाधिगमाय ज्ञेयधर्मवत् परिकल्प्य उच्यते ‘सर्वतःपाणिपादम्’ इत्यादि । तथा हि सम्प्रदायविदां वचनम् — ‘अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते’ ( ? ) इति । सर्वत्र सर्वदेहावयवत्वेन गम्यमानाः पाणिपादादयः ज्ञेयशक्तिसद्भावनिमित्तस्वकार्याः इति ज्ञेयसद्भावे लिङ्गानि ‘ज्ञेयस्य’ इति उपचारतः उच्यन्ते । तथा व्याख्येयम् अन्यत् । सर्वतःपाणिपादं तत् ज्ञेयम् । सर्वतोक्षिशिरोमुखं सर्वतः अक्षीणि शिरांसि मुखानि च यस्य तत् सर्वतोक्षिशिरोमुखम् ; सर्वतःश्रुतिमत् श्रुतिः श्रवणेन्द्रियम् , तत् यस्य तत् श्रुतिमत् , लोके प्राणिनिकाये, सर्वम् आवृत्य संव्याप्य तिष्ठति स्थितिं लभते ॥ १३ ॥
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.