Thursday, July 25, 2024

9th Chapter 4th Sloka

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।

मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ ९.४ ॥

 

mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā |

matsthāni sarvabhūtāni na cāhaṃ teṣvavasthitaḥ || 9.4 ||

 

मया 3/1 ततम् 1/1 इदम् 1/1 सर्वम् 1/1 जगत् 1/1 अव्यक्तमूर्तिना 3/1

मत्स्थानि 1/3 सर्वभूतानि 1/3 0 0 अहम् 1/1 तेषु 7/3 अवस्थितः 1/1 ॥ ९.४ ॥

 

·       मया [mayā] = by me = अस्मद् m. + कर्तरि to ततम् 3/1

·       ततम् [tatam] = is pervaded = तत n. + S.C. to जगत् 1/1

o   तत = तन् विस्तारे to spread + क्त, अनुनासिकलोप by 6.4.37 अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति ।

·       इदम् [idam] = this = इदम् n. + adj. to जगत् 1/1

·       सर्वम् [sarvam] = entire = सर्व n. + adj. to जगत् 1/1

·       जगत् [jagat] = world = जगत् (n.) + कर्तरि to [भवति] 1/1

·       अव्यक्तमूर्तिना [avyaktamūrtinā] = by the one whose form cannot be objectified = अव्यक्तमूर्ति m. + adj. to मया 3/1

·       मत्स्थानि [matsthāni] = those who have their being in me = मत्स्थ n. + S.C. to सर्वभूतानि 1/3

·       सर्वभूतानि [sarvabhūtāni] = all beings = सर्वभूत (n.) + कर्तरि to [भवन्ति] 1/3

·       [na] = not = अव्ययम्

·       [ca] = and = अव्ययम्

·       अहम् [aham] = I = अस्मद् m. + कर्तरि to [भवामि] 1/1

·       तेषु [teṣu] = in them (सर्वभूतेषु) = तद् n. + अधिकरणे to अवस्थितः 7/3

·       अवस्थितः [avasthitaḥ] = based = अवस्थित m. + S.C. to अहम् 1/1

 

 

This entire world is pervaded by me whose form cannot be objectified. All beings have their being in me and I am not based in them.

 

Sentence 1:

मया 3/1 अव्यक्तमूर्तिना 3/1 इदम् 1/1 सर्वम् 1/1 जगत् 1/1 ततम् 1/1

This (इदम् 1/1) entire (सर्वम् 1/1) world (जगत् 1/1) is pervaded (ततम् 1/1) by me (मया 3/1) whose form cannot be objectified (अव्यक्तमूर्तिना 3/1).

 

Sentence 2:

सर्वभूतानि 1/3 मत्स्थानि 1/3 अहम् 1/1 0 तेषु 7/3 0 अवस्थितः 1/1 ॥ ९.४ ॥

All beings (सर्वभूतानि 1/3) have their being in me (मत्स्थानि 1/3) and ( 0) I (अहम् 1/1) am not ( 0) based (अवस्थितः 1/1) in them (तेषु 7/3).

 

 

स्तुत्या अर्जुनमभिमुखीकृत्य आह

मया मम यः परो भावः तेन ततं व्याप्तं सर्वम् इदं जगत् अव्यक्तमूर्तिना न व्यक्ता मूर्तिः स्वरूपं यस्य मम सोऽहमव्यक्तमूर्तिः तेन मया अव्यक्तमूर्तिना, करणागोचरस्वरूपेण इत्यर्थः । तस्मिन् मयि अव्यक्तमूर्तौ स्थितानि मत्स्थानि, सर्वभूतानि ब्रह्मादीनि स्तम्बपर्यन्तानि । न हि निरात्मकं किञ्चित् भूतं व्यवहाराय अवकल्पते । अतः मत्स्थानि मया आत्मना आत्मवत्त्वेन स्थितानि, अतः मयि स्थितानि इति उच्यन्ते । तेषां भूतानाम् अहमेव आत्मा इत्यतः तेषु स्थितः इति मूढबुद्धीनां अवभासते ; अतः ब्रवीमि अहं तेषु भूतेषु अवस्थितः, मूर्तवत् संश्लेषाभावेन आकाशस्यापि अन्तरतमो हि अहम् । न हि असंसर्गि वस्तु क्वचित् आधेयभावेन अवस्थितं भवति ॥ ४ ॥

 

Wednesday, July 3, 2024

9th Chapter 3rd Sloka

अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।

अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ९.३ ॥

 

aśraddadhānāḥ puruṣā dharmasyāsya parantapa |

aprāpya māṃ nivartante mṛtyusaṃsāravartmani || 9.3 ||

 

अश्रद्दधानाः 1/3 पुरुषाः 1/3 धर्मस्य 6/1 अस्य 6/1 परन्तप S/1

अप्राप्य 0 माम् 2/1 निवर्तन्ते III/3 मृत्युसंसारवर्त्मनि 7/1 ॥ ९.३ ॥

 

·       अश्रद्दधानाः [aśraddadhānāḥ] = those who have no faith = अश्रद्दधान m. + adj. to पुरुषाः 1/3

o   श्रद्दत्ते इति । श्रत् + धा + शानच्

·       पुरुषाः [puruṣāḥ] = those people = पुरुष (m.) + कर्तरि to निवर्तन्ते 1/3

·       धर्मस्य [dharmasya] = of self-knowledge = धर्म (m.) + सम्बन्धे to अश्रद्दधानाः 6/1

·       अस्य [asya] = of this = इदम् m. + adj. to धर्मस्य 6/1

·       परन्तप [parantapa] = scorcher of foes = परन्तप + सम्बोधने 1/1

·       अप्राप्य [aprāpya] = not gaining = नञ् + प्र + आप् + ल्यप् = अव्ययम्

·       माम् [mām] = me = अस्मद् m. + कर्मणि to अप्राप्य 2/1

·       निवर्तन्ते [nivartante] = they return to = नि + वृत् + लट्/कर्तरि/III/3

·       मृत्युसंसारवर्त्मनि [mṛtyusaṃsāravartmani] = in the road of saṁsāra, which is fraught with death = मृत्युसंसारवर्त्मन् n. + अधिकरणे to निवर्तन्ते 7/1

 

Arjuna, the scorcher of foes! Those people who have no faith in this self-knowledge, not gaining me, they return to/remain in the road of saṁsāra, which is fraught with death.

 

Sentence 1:

परन्तप S/1 अस्य 6/1 धर्मस्य 6/1 अश्रद्दधानाः 1/3 पुरुषाः 1/3 माम् 2/1 अप्राप्य 0 मृत्युसंसारवर्त्मनि 7/1 निवर्तन्ते III/3

Arjuna, the scorcher of foes (परन्तप S/1)! Those people (पुरुषाः 1/3) who have no faith (अश्रद्दधानाः 1/3) in this (अस्य 6/1) self-knowledge (धर्मस्य 6/1), not gaining (अप्राप्य 0) me (माम् 2/1), they return to/remain (निवर्तन्ते III/3) in the road of saṁsāra, which is fraught with death (मृत्युसंसारवर्त्मनि 7/1).

 

 

ये पुनः

अश्रद्दधानाः श्रद्धाविरहिताः आत्मज्ञानस्य धर्मस्य अस्य स्वरूपे तत्फले च नास्तिकाः पापकारिणः, असुराणाम् उपनिषदं देहमात्रात्मदर्शनमेव प्रतिपन्नाः असुतृपः पापाः पुरुषाः अश्रद्दधानाः, परन्तप, अप्राप्य मां परमेश्वरम् , मत्प्राप्तौ नैव आशङ्का इति मत्प्राप्तिमार्गभेदभक्तिमात्रमपि अप्राप्य इत्यर्थः । निवर्तन्ते निश्चयेन वर्तन्ते ; क्व ? — मृत्युसंसारवर्त्मनि मृत्युयुक्तः संसारः मृत्युसंसारः तस्य वर्त्म नरकतिर्यगादिप्राप्तिमार्गः, तस्मिन्नेव वर्तन्ते इत्यर्थः ॥ ३ ॥

 

9th Chapter 2nd Sloka

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।

प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ ९.२॥

 

rājavidyā rājaguhyaṃ pavitramidamuttamam |

pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam || 9.2||

 

राजविद्या 1/1 राजगुह्यम् 1/1 पवित्रम् 1/1 इदम् 1/1 उत्तमम् 1/1

प्रत्यक्षावगमम् 1/1 धर्म्यम् 1/1 सुसुखम् 1/1 कर्तुम् 0 अव्ययम् 1/1 ॥ ९.२॥

 

·       राजविद्या [rājavidyā] = king of all-knowledge = राजविद्या (f.) + 1/1

·       राजगुह्यम् [rājaguhyam] = the king of secrets = राजगुह्य n. + 1/1

·       पवित्रम् [pavitram] = purifier = पवित्र n.+ 1/1

·       इदम् [idam] = this = इदम् n. + adj. to ज्ञानम् 1/1

·       उत्तमम् [uttamam] = the greatest = उत्तम n. + 1/1

·       प्रत्यक्षावगमम् [pratyakṣāvagamam] = directly appreciated = प्रत्यक्षावगम n. + 1/1

·       धर्म्यम् [dharmyam] = not opposed to dharma = धर्म्य n. + 1/1

·       सुसुखम् [susukham] = easy = सुसुख n. + 1/1

·       कर्तुम् [kartum] = to accomplish = अव्ययम्

·       अव्ययम् [avyayam] = imperishable = अव्यय n. + 1/1

 

This is the king of all-knowledge, the king of secrets, the greatest purifier, directly appreciated, not opposed to dharma, easy to accomplish and imperishable.

 

Sentence 1:

This (इदम् 1/1) is the king of all-knowledge (राजविद्या 1/1), the king of secrets (राजगुह्यम् 1/1), the greatest (उत्तमम् 1/1) purifier (पवित्रम् 1/1), directly appreciated (प्रत्यक्षावगमम् 1/1), not opposed to dharma (धर्म्यम् 1/1), easy (सुसुखम् 1/1) to accomplish (कर्तुम् 0) and imperishable (अव्ययम् 1/1).

 

 

तच्च

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।

प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥

राजविद्या विद्यानां राजा, दीप्त्यतिशयवत्त्वात् ; दीप्यते हि इयम् अतिशयेन ब्रह्मविद्या सर्वविद्यानाम् । तथा राजगुह्यं गुह्यानां राजा । पवित्रं पावनं इदम् उत्तमं सर्वेषां पावनानां शुद्धिकारणं ब्रह्मज्ञानम् उत्कृष्टतमम् । अनेकजन्मसहस्र-सञ्चितमपि धर्माधर्मादि समूलं कर्म क्षणमात्रादेव भस्मीकरोति इत्यतः किं तस्य पावनत्वं वक्तव्यम् । किञ्च प्रत्यक्षावगमं प्रत्यक्षेण सुखादेरिव अवगमो यस्य तत् प्रत्यक्षावगमम् । अनेक-गुणवतोऽपि धर्मविरुद्धत्वं दृष्टम् , न तथा आत्मज्ञानं धर्मविरोधि, किन्तु धर्म्यं धर्मादनपेतम् । एवमपि, स्याद्दुःखसम्पाद्यमित्यत आह सुसुखं कर्तुम् , यथा रत्नविवेकविज्ञानम् । तत्र अल्पायासानामन्येषां कर्मणां सुखसम्पाद्यानाम् अल्पफलत्वं दुष्कराणां च महाफलत्वं दृष्टमिति, इदं तु सुखसम्पाद्यत्वात् फलक्षयात् व्येति इति प्राप्ते, आह अव्ययम् इति । न अस्य फलतः कर्मवत् व्ययः अस्तीति अव्ययम् । अतः श्रद्धेयम् आत्मज्ञानम् ॥ २ ॥

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.