Wednesday, July 3, 2024

9th Chapter 3rd Sloka

अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।

अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ९.३ ॥

 

aśraddadhānāḥ puruṣā dharmasyāsya parantapa |

aprāpya māṃ nivartante mṛtyusaṃsāravartmani || 9.3 ||

 

अश्रद्दधानाः 1/3 पुरुषाः 1/3 धर्मस्य 6/1 अस्य 6/1 परन्तप S/1

अप्राप्य 0 माम् 2/1 निवर्तन्ते III/3 मृत्युसंसारवर्त्मनि 7/1 ॥ ९.३ ॥

 

·       अश्रद्दधानाः [aśraddadhānāḥ] = those who have no faith = अश्रद्दधान m. + adj. to पुरुषाः 1/3

o   श्रद्दत्ते इति । श्रत् + धा + शानच्

·       पुरुषाः [puruṣāḥ] = those people = पुरुष (m.) + कर्तरि to निवर्तन्ते 1/3

·       धर्मस्य [dharmasya] = of self-knowledge = धर्म (m.) + सम्बन्धे to अश्रद्दधानाः 6/1

·       अस्य [asya] = of this = इदम् m. + adj. to धर्मस्य 6/1

·       परन्तप [parantapa] = scorcher of foes = परन्तप + सम्बोधने 1/1

·       अप्राप्य [aprāpya] = not gaining = नञ् + प्र + आप् + ल्यप् = अव्ययम्

·       माम् [mām] = me = अस्मद् m. + कर्मणि to अप्राप्य 2/1

·       निवर्तन्ते [nivartante] = they return to = नि + वृत् + लट्/कर्तरि/III/3

·       मृत्युसंसारवर्त्मनि [mṛtyusaṃsāravartmani] = in the road of saṁsāra, which is fraught with death = मृत्युसंसारवर्त्मन् n. + अधिकरणे to निवर्तन्ते 7/1

 

Arjuna, the scorcher of foes! Those people who have no faith in this self-knowledge, not gaining me, they return to/remain in the road of saṁsāra, which is fraught with death.

 

Sentence 1:

परन्तप S/1 अस्य 6/1 धर्मस्य 6/1 अश्रद्दधानाः 1/3 पुरुषाः 1/3 माम् 2/1 अप्राप्य 0 मृत्युसंसारवर्त्मनि 7/1 निवर्तन्ते III/3

Arjuna, the scorcher of foes (परन्तप S/1)! Those people (पुरुषाः 1/3) who have no faith (अश्रद्दधानाः 1/3) in this (अस्य 6/1) self-knowledge (धर्मस्य 6/1), not gaining (अप्राप्य 0) me (माम् 2/1), they return to/remain (निवर्तन्ते III/3) in the road of saṁsāra, which is fraught with death (मृत्युसंसारवर्त्मनि 7/1).

 

 

ये पुनः

अश्रद्दधानाः श्रद्धाविरहिताः आत्मज्ञानस्य धर्मस्य अस्य स्वरूपे तत्फले च नास्तिकाः पापकारिणः, असुराणाम् उपनिषदं देहमात्रात्मदर्शनमेव प्रतिपन्नाः असुतृपः पापाः पुरुषाः अश्रद्दधानाः, परन्तप, अप्राप्य मां परमेश्वरम् , मत्प्राप्तौ नैव आशङ्का इति मत्प्राप्तिमार्गभेदभक्तिमात्रमपि अप्राप्य इत्यर्थः । निवर्तन्ते निश्चयेन वर्तन्ते ; क्व ? — मृत्युसंसारवर्त्मनि मृत्युयुक्तः संसारः मृत्युसंसारः तस्य वर्त्म नरकतिर्यगादिप्राप्तिमार्गः, तस्मिन्नेव वर्तन्ते इत्यर्थः ॥ ३ ॥

 

9th Chapter 2nd Sloka

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।

प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ ९.२॥

 

rājavidyā rājaguhyaṃ pavitramidamuttamam |

pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam || 9.2||

 

राजविद्या 1/1 राजगुह्यम् 1/1 पवित्रम् 1/1 इदम् 1/1 उत्तमम् 1/1

प्रत्यक्षावगमम् 1/1 धर्म्यम् 1/1 सुसुखम् 1/1 कर्तुम् 0 अव्ययम् 1/1 ॥ ९.२॥

 

·       राजविद्या [rājavidyā] = king of all-knowledge = राजविद्या (f.) + 1/1

·       राजगुह्यम् [rājaguhyam] = the king of secrets = राजगुह्य n. + 1/1

·       पवित्रम् [pavitram] = purifier = पवित्र n.+ 1/1

·       इदम् [idam] = this = इदम् n. + adj. to ज्ञानम् 1/1

·       उत्तमम् [uttamam] = the greatest = उत्तम n. + 1/1

·       प्रत्यक्षावगमम् [pratyakṣāvagamam] = directly appreciated = प्रत्यक्षावगम n. + 1/1

·       धर्म्यम् [dharmyam] = not opposed to dharma = धर्म्य n. + 1/1

·       सुसुखम् [susukham] = easy = सुसुख n. + 1/1

·       कर्तुम् [kartum] = to accomplish = अव्ययम्

·       अव्ययम् [avyayam] = imperishable = अव्यय n. + 1/1

 

This is the king of all-knowledge, the king of secrets, the greatest purifier, directly appreciated, not opposed to dharma, easy to accomplish and imperishable.

 

Sentence 1:

This (इदम् 1/1) is the king of all-knowledge (राजविद्या 1/1), the king of secrets (राजगुह्यम् 1/1), the greatest (उत्तमम् 1/1) purifier (पवित्रम् 1/1), directly appreciated (प्रत्यक्षावगमम् 1/1), not opposed to dharma (धर्म्यम् 1/1), easy (सुसुखम् 1/1) to accomplish (कर्तुम् 0) and imperishable (अव्ययम् 1/1).

 

 

तच्च

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।

प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥

राजविद्या विद्यानां राजा, दीप्त्यतिशयवत्त्वात् ; दीप्यते हि इयम् अतिशयेन ब्रह्मविद्या सर्वविद्यानाम् । तथा राजगुह्यं गुह्यानां राजा । पवित्रं पावनं इदम् उत्तमं सर्वेषां पावनानां शुद्धिकारणं ब्रह्मज्ञानम् उत्कृष्टतमम् । अनेकजन्मसहस्र-सञ्चितमपि धर्माधर्मादि समूलं कर्म क्षणमात्रादेव भस्मीकरोति इत्यतः किं तस्य पावनत्वं वक्तव्यम् । किञ्च प्रत्यक्षावगमं प्रत्यक्षेण सुखादेरिव अवगमो यस्य तत् प्रत्यक्षावगमम् । अनेक-गुणवतोऽपि धर्मविरुद्धत्वं दृष्टम् , न तथा आत्मज्ञानं धर्मविरोधि, किन्तु धर्म्यं धर्मादनपेतम् । एवमपि, स्याद्दुःखसम्पाद्यमित्यत आह सुसुखं कर्तुम् , यथा रत्नविवेकविज्ञानम् । तत्र अल्पायासानामन्येषां कर्मणां सुखसम्पाद्यानाम् अल्पफलत्वं दुष्कराणां च महाफलत्वं दृष्टमिति, इदं तु सुखसम्पाद्यत्वात् फलक्षयात् व्येति इति प्राप्ते, आह अव्ययम् इति । न अस्य फलतः कर्मवत् व्ययः अस्तीति अव्ययम् । अतः श्रद्धेयम् आत्मज्ञानम् ॥ २ ॥

 

Sunday, June 30, 2024

9th Chapter 1st Sloka

श्रीभगवानुवाच ।

इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।

ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ ९.१॥

 

śrībhagavānuvāca |

idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave |

jñānaṃ vijñānasahitaṃ yajjñātvā mokṣyase:'śubhāt || 9.1||

 

श्रीभगवान् 1/1 उवाच III/1

इदम् 2/1 तु 0 ते 4/1 गुह्यतमम् 2/1 प्रवक्ष्यामि I/1 अनसूयवे 4/1

ज्ञानम् 2/1 विज्ञानसहितम् 2/1 यत् 2/1 ज्ञात्वा 0 मोक्ष्यसे II/1 अशुभात् 5/1 ॥ ९.१॥

 

·       श्रीभगवान् [śrībhagavān] = śrī bhagavān = श्रीभगवत् + कर्तरि to उवाच 1/1

·       उवाच [uvāca] = said = ब्रू + लिट्/कर्तरि/III/1

·       इदम् [idam] = this = इदम् n. + adj. to ज्ञानम् 2/1

·       तु [tu] = whereas = अव्ययम्

·       ते [te] = to you = युष्मद् m. सम्प्रदाने to प्रवक्ष्यामि 4/1

·       गुह्यतमम् [guhyatamam] = the most secret = गुह्यतम n. + adj. to ज्ञानम् 2/1

·       प्रवक्ष्यामि [pravakṣyāmi] = I shall tell clearly = प्र + वच् + लृट्/कर्तरि/I/1

·       अनसूयवे [anasūyave] = one without असूया, calumny= अनसूयु m. + adj. to ते 4/1

·       ज्ञानम् [jñānam] = knowledge = ज्ञान (n.) + कर्मणि to प्रवक्ष्यामि 2/1

·       विज्ञानसहितम् [vijñānasahitam] = together with immediate knowledge = विज्ञानसहित n. + adj. to ज्ञानम् 2/1

·       यत् [yat] = which = यद् n. + 2/1

·       ज्ञात्वा [jñātvā] = knowing = अव्ययम्

·       मोक्ष्यसे [mokṣyase] = you will be released = मोक्ष् to be free + लृट्/कर्मणि/II/1

·       अशुभात् [aśubhāt] = from all that is inauspicious = अशुभ n. + अपादाने to मोक्ष्यसे + 5/1

 

Śrī  Bhagavān said.

Now, I will clearly explain to you (who are) without calumny, this most secret knowledge together with immediate knowledge, knowing which you will be released from all that is inauspicious.

 

Sentence 1:

श्रीभगवान् 1/1 उवाच III/1

Śrī  bhagavān (श्रीभगवान् 1/1) said (उवाच III/1).

 

Sentence 2:

इदम् 2/1 तु 0 गुह्यतमम् 2/1 विज्ञानसहितम् 2/1 ज्ञानम् 2/1 अनसूयवे 4/1 ते 4/1 प्रवक्ष्यामि I/1

Now (तु 0), I will clearly explain (प्रवक्ष्यामि I/1) to you (ते 4/1) (who are) without calumny (अनसूयवे 4/1), this (इदम् 2/1) most secret (गुह्यतमम् 2/1) knowledge (ज्ञानम् 2/1) together with immediate knowledge (विज्ञानसहितम् 2/1),

 

Sentence 2-1:

यत् 2/1 ज्ञात्वा 0 अशुभात् 5/1 मोक्ष्यसे II/1 ॥ ९.१॥

knowing (ज्ञात्वा 0) which (यत् 2/1) you will be released (मोक्ष्यसे II/1) from all that is inauspicious (अशुभात् 5/1).

 

अष्टमे नाडीद्वारेण धारणायोगः सगुणः उक्तः । तस्य च फलम् अग्न्यर्चिरादिक्रमेण कालान्तरे ब्रह्मप्राप्तिलक्षणमेव अनावृत्तिरूपं निर्दिष्टम् ।तत्र अनेनैव प्रकारेण मोक्षप्राप्तिफलम् अधिगम्यते, न अन्यथाइति तदाशङ्काव्याविवर्तयिषया श्रीभगवान् उवाच

इदं ब्रह्मज्ञानं वक्ष्यमाणम् उक्तं च पूर्वेषु अध्यायेषु, तत् बुद्धौ संनिधीकृत्य इदम् इत्याह । तुशब्दो विशेषनिर्धारणार्थः । इदमेव तु सम्यग्ज्ञानं साक्षात् मोक्षप्राप्तिसाधनम् वासुदेवः सर्वमिति’ (भ. गी. ७ । १९) आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २) एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इत्यादिश्रुतिस्मृतिभ्यः ; नान्यत् , ‘अथ ते येऽन्यथातो विदुः अन्यराजानः ते क्षय्यलोका भवन्ति’ (छा. उ. ७ । २५ । २) इत्यादिश्रुतिभ्यश्च । ते तुभ्यं गुह्यतमं गोप्यतमं प्रवक्ष्यामि कथयिष्यामि अनसूयवे असूयारहिताय । किं तत् ? ज्ञानम् । किंविशिष्टम् ? विज्ञानसहितम् अनुभवयुक्तम् , यत् ज्ञात्वा प्राप्य मोक्ष्यसे अशुभात् संसारबन्धनात् ॥ १ ॥

 

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.