Monday, September 2, 2024

16th Chapter 2nd Sloka

अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।

दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ १६.२ ॥

 

ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam |

dayā bhūteṣvaloluptvaṃ mārdavaṃ hrīracāpalam || 16.2 ||

 

अहिंसा 1/1 सत्यम् 1/1 अक्रोधः 1/1 त्यागः 1/1 शान्तिः 1/1 अपैशुनम् 1/1

दया 1/1 भूतेषु 7/3 अलोलुप्त्वम् 1/1 मार्दवम् 1/1 ह्रीः 1/1 अचापलम् 1/1 ॥ १६.२ ॥

 

·       अहिंसा [ahiṃsā] = absence of hurting = अहिंसा (f.) + प्रातिपदिकार्थमात्रे 1/1

·       सत्यम् [satyam] = truthfulness = सत्य (n.) + प्रातिपदिकार्थमात्रे 1/1

·       अक्रोधः [akrodhaḥ] = resolution of anger = अक्रोध (m.) + प्रातिपदिकार्थमात्रे 1/1

·       त्यागः [tyāgaḥ] = renunciation = त्याग (m.) + प्रातिपदिकार्थमात्रे 1/1

·       शान्तिः [śāntiḥ] = resolution of the mind = शान्ति (f.) + प्रातिपदिकार्थमात्रे 1/1

·       अपैशुनम् [apaiśunam] = absence of calumny = अपैशुन (n.) + प्रातिपदिकार्थमात्रे 1/1

o   पिशुनम् harsh, cruel, unkind;

o   पिशुनस्य भावः पैशुनम् । पिशुन + अण्

o   तदभावः अपैशुनम् (NT)।

·       दया [dayā] = compassion = दया (f.) + प्रातिपदिकार्थमात्रे 1/1

·       भूतेषु [bhūteṣu] = for living beings = भूत (n.) + अधिकरणे 7/3

·       अलोलुप्त्वम् [aloluptvam] = absence of ardent longing = अलोलुप्त्व (n.) + प्रातिपदिकार्थमात्रे 1/1

o   लुप् + यङ्              3.1.22 धातोरेकाचो हलादेः क्रियासमभिहारे यङ् ।
लुप्                       2.4.74 यङोऽचि च । ~ लुक्
लुप् लुप्    6.1.9 सन्यङोः । ~ एकाचः द्वे प्रथमस्य
लु लुप्                    7.4.60 हलादिः शेषः। ~ अभ्यासस्य
लो लुप्                  7.4.82 गुणो यङ्लुकोः । ~ अभ्यासस्य

o   लोलुप् + क्त = लोलुप्त

·       मार्दवम् [mārdavam] = softness = मार्दव (n.) + प्रातिपदिकार्थमात्रे 1/1

o    मृदोः भावः

o    मृदु + अण्
By कासिका वृत्तिः “वा-वचनमणादेः समावेशार्थम्।” under 5.1.122 पृथ्वादिभ्य इमनिज्वा । ~ तस्य भावः, अण् etc. can be suffixed optionally in the sense of तस्य भावः.
मार्दु + अ 7.2.117 तद्धितेष्वचामादेः । ~ वृद्धिः ञ्णिति
मार्दो + अ              6.4.146 ओर्गुणः । ~ तद्धिते भस्य
मार्दव् + अ             6.1.78 एचोऽयवायावः । ~ अचि संहितायाम्

·       ह्रीः [hrīḥ] = modesty = ह्री (f.) + प्रातिपदिकार्थमात्रे 1/1

o   ह्री (3P) लज्जायाम् to be ashamed + क्विप्
Since it is not ङी-ending, लोप of सुँ by 6.1.68 हल्-ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् । does not take place.

·       अचापलम् [acāpalam] = absence of physical agitation = अचापल (n.) + प्रातिपदिकार्थमात्रे 1/1

 

absence of hurting, truthfulness, resolution of anger, renunciation, resolution of the mind, absence of calumny, compassion for living beings, absence of ardent longing, softness, modesty, absence of physical agitation…

 

Sentence 1:

अहिंसा 1/1 सत्यम् 1/1 अक्रोधः 1/1 त्यागः 1/1 शान्तिः 1/1 अपैशुनम् 1/1 भूतेषु 7/3 दया 1/1 अलोलुप्त्वम् 1/1 मार्दवम् 1/1 ह्रीः 1/1 अचापलम् 1/1 ॥ १६.२ ॥

absence of hurting (अहिंसा 1/1), truthfulness (सत्यम् 1/1), resolution of anger (अक्रोधः 1/1), renunciation (त्यागः 1/1), resolution of the mind (शान्तिः 1/1), absence of calumny (अपैशुनम् 1/1), compassion (दया 1/1) for living beings (भूतेषु 7/3), absence of ardent longing (अलोलुप्त्वम् 1/1), softness (मार्दवम् 1/1), modesty (ह्रीः 1/1), absence of physical agitation (अचापलम् 1/1)…

 

किञ्च

अहिंसा अहिंसनं प्राणिनां पीडावर्जनम् । सत्यम् अप्रियानृतवर्जितं यथाभूतार्थवचनम् । अक्रोधः परैः आक्रुष्टस्य अभिहतस्य वा प्राप्तस्य क्रोधस्य उपशमनम् । त्यागः संन्यासः, पूर्वं दानस्य उक्तत्वात् । शान्तिः अन्तःकरणस्य उपशमः । अपैशुनं अपिशुनता ; परस्मै पररन्ध्रप्रकटीकरणं पैशुनम् , तदभावः अपैशुनम् । दया कृपा भूतेषु दुःखितेषु । अलोलुप्त्वम् इन्द्रियाणां विषयसंनिधौ अविक्रिया । मार्दवं मृदुता अक्रौर्यम् । ह्रीः लज्जा । अचापलम् असति प्रयोजने वाक्पाणिपादादीनाम् अव्यापारयितृत्वम् ॥ २ ॥

16th Chapter 1st Sloka

श्रीभगवानुवाच ।

अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।

दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १६.१ ॥

 

śrībhagavānuvāca |

abhayaṃ sattvasaṃśuddhirjñānayogavyavasthitiḥ |

dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam || 16.1 ||

 

श्रीभगवान् 1/1 उवाच III/1

अभयम् 1/1 सत्त्वसंशुद्धिः 1/1 ज्ञानयोगव्यवस्थितिः 1/1

दानम् 1/1 दमः 1/1 0 यज्ञः 1/1 0 स्वाध्यायः 1/1 तपः 1/1 आर्जवम् 1/1 ॥ १६.१ ॥

 

·       श्रीभगवान् [śrībhagavān] = śrī bhagavān = श्रीभगवत् + कर्तरि to उवाच 1/1

·       उवाच [uvāca] = said = ब्रू (2U) to say + लिट्/कर्तरि/III/1

·       अभयम् [abhayam] = freedom from fear = अभय (n.) + प्रातिपदिकार्थमात्रे 1/1

·       सत्त्वसंशुद्धिः [sattvasaṃśuddhiḥ] = purity of mind = सत्त्वसंशुद्धि (f.) + प्रातिपदिकार्थमात्रे 1/1

o   सत्त्वस्य अन्तःकरणस्य संशुद्धिः सत्त्वसंशुद्धिः (6T) ।

·       ज्ञानयोगव्यवस्थितिः [jñānayogavyavasthitiḥ] = steadiness in contemplation = ज्ञानयोगव्यवस्थिति (f.) + प्रातिपदिकार्थमात्रे 1/1

o   ज्ञानम् अवगमः, एकाग्रतया योगः च, तयोः व्यवस्थितिः ((ID)7T) ।

·       दानम् [dānam] = charity = दान (n.) + 1/1

·       दमः [damaḥ] = judicious restraint = दम (m.) + 1/1

·       [ca] = and = अव्ययम्

·       यज्ञः [yajñaḥ] = performing rituals = यज्ञ (m.) + 1/1

·       [ca] = and = अव्ययम्

·       स्वाध्यायः [svādhyāyaḥ] = recitation of one’s own branch of the Veda = स्वाध्याय (m.) + 1/1

·       तपः [tapaḥ] = religious discipline = तपस् (n.) + 1/1

·       आर्जवम् [ārjavam] = alignment of thought, word, and deed = आर्जव (n.) + 1/1

o   ऋजोः भावः ।
ऋजु + अण्

By
कासिका वृत्तिः “वा-वचनमणादेः समावेशार्थम्।” under 5.1.122 पृथ्वादिभ्य इमनिज्वा । ~ तस्य भावः, अण् etc. can be suffixed optionally in the sense of तस्य भावः.

आर्जु +               7.2.117 तद्धितेष्वचामादेः । ~ वृद्धिः ञ्णिति
आर्जो + अ             6.4.146 ओर्गुणः । ~ तद्धिते भस्य
आर्जव् + अ            6.1.78 एचोऽयवायावः । ~ अचि संहितायाम्

 

 

Śrībhagavān said.

Freedom from fear, purity of mind, steadiness in contemplation, charity, judicious restraint (of sense organs), performing rituals, recitation of one’s own branch of the Veda, religious discipline (austerity), alignment of thought, word, and deed…

 

Sentence 1:

श्रीभगवान् 1/1 उवाच III/1

Śrī  bhagavān (श्रीभगवान् 1/1) said (उवाच III/1).

 

Sentence 2:

अभयम् 1/1 सत्त्वसंशुद्धिः 1/1 ज्ञानयोगव्यवस्थितिः 1/1 दानम् 1/1 दमः 1/1 0 यज्ञः 1/1 0 स्वाध्यायः 1/1 तपः 1/1 आर्जवम् 1/1 ॥ १६.१ ॥

Freedom from fear (अभयम् 1/1), purity of mind (सत्त्वसंशुद्धिः 1/1), steadiness in contemplation (ज्ञानयोगव्यवस्थितिः 1/1), charity (दानम् 1/1), judicious restraint (दमः 1/1) (of sense organs), performing rituals (यज्ञः 1/1), recitation of one’s own branch of the Veda (स्वाध्यायः 1/1), religious discipline (तपः 1/1) (austerity), alignment of thought, word, and deed (आर्जवम् 1/1)…

 

 

दैवी आसुरी राक्षसी इति प्राणिनां प्रकृतयः नवमे अध्याये सूचिताः । तासां विस्तरेण प्रदर्शनाय अभयं सत्त्वसंशुद्धिः इत्यादिः अध्यायः आरभ्यते । तत्र संसारमोक्षाय दैवी प्रकृतिः, निबन्धाय आसुरी राक्षसी च इति दैव्याः आदानाय प्रदर्शनं क्रियते, इतरयोः परिवर्जनाय च ॥

अभयम् अभीरुता । सत्त्वसंशुद्धिः सत्त्वस्य अन्तःकरणस्य संशुद्धिः संव्यवहारेषु परवञ्चनामायानृतादिपरिवर्जनं शुद्धसत्त्वभावेन व्यवहारः इत्यर्थः । ज्ञानयोगव्यवस्थितिः ज्ञानं शास्त्रतः आचार्यतश्च आत्मादिपदार्थानाम् अवगमः, अवगतानाम् इन्द्रियाद्युपसंहारेण एकाग्रतया स्वात्मसंवेद्यतापादनं योगः, तयोः ज्ञानयोगयोः व्यवस्थितिः व्यवस्थानं तन्निष्ठता । एषा प्रधाना दैवी सात्त्विकी सम्पत् । यत्र येषाम् अधिकृतानां या प्रकृतिः सम्भवति, सात्त्विकी सा उच्यते । दानं यथाशक्ति संविभागः अन्नादीनाम् । दमश्च बाह्यकरणानाम् उपशमः ; अन्तःकरणस्य उपशमं शान्तिं वक्ष्यति । यज्ञश्च श्रौतः अग्निहोत्रादिः । स्मार्तश्च देवयज्ञादिः, स्वाध्यायः ऋग्वेदाद्यध्ययनम् अदृष्टार्थम् । तपः वक्ष्यमाणं शारीरादि । आर्जवम् ऋजुत्वं सर्वदा ॥ १ ॥ 

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.