त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥४.२०॥
tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ |
karmaṇyabhipravṛtto'pi naiva kiñcitkaroti saḥ ||4.20||
त्यक्त्वा 0 कर्मफलासङ्गम् 2/1 नित्यतृप्तः 1/1 निराश्रयः 1/1 ।
कर्मणि 7/1 अभिप्रवृत्तः 1/1 अपि 0 न 0 एव 0 किञ्चित् 0 करोति III/1 सः 1/1॥४.२०॥
·
त्यक्त्वा [tyaktvā] = having giving up = अव्ययम्
o
त्यज् + क्त्वा
·
कर्मफासङ्गम् [karmaphāsaṅgam] = attachment to
the results of action = कर्मफासङ्ग (m.) + कर्मणि to त्यक्त्वा
2/1
·
नित्यतृप्तः [nityatṛptaḥ] = always contented = नित्यतृप्त (m.) + 1/1
·
निराश्रयः [nirāśrayaḥ] = being not dependent on anything = निराश्रय (m.) + 1/1
·
कर्मणि [karmaṇi]
= in action = कर्मन् (n.) + 7/1
·
अभिप्रवृत्तः [abhipravṛttaḥ] = fully engaged = अभिप्रवृत्त (m.) + 1/1
·
अपि [api] = even
= अव्ययम्
·
न [na] = not
= अव्ययम्
·
एव [eva] = indeed
= अव्ययम्
·
किञ्चित् [kiñcit]
= at all = अव्ययम्
·
करोति [karoti]
= does = कृ (8U) to do + लट्/कर्तरि/III/1
·
सः [saḥ] = he
= तद् (pron. m.) + 1/1
Giving up the deep attachment to the
results of action, always contented, being not dependent on anything, he does
not do anything even though fully engaged in action.
Sentence 1:
त्यक्त्वा 0 कर्मफलासङ्गम् 2/1 नित्यतृप्तः 1/1 निराश्रयः 1/1 ।
कर्मणि 7/1 अभिप्रवृत्तः 1/1 अपि 0 न 0 एव 0 किञ्चित् 0 करोति III/1 सः 1/1 ॥४.२०॥
Giving up (त्यक्त्वा 0) the deep attachment to the results of action (कर्मफलासङ्गम् 2/1), always contented (नित्यतृप्तः 1/1), being not dependent on anything (निराश्रयः 1/1), he (सः 1/1) does not (न 0) do (करोति III/1)
anything (किञ्चित् 0 एव 0) even though (अपि 0) fully engaged (अभिप्रवृत्तः 1/1) in action (कर्मणि 7/1).
यः 1/1 तु 0 अकर्म-आदि-दर्शी
1/1, सः 1/1 अकर्म-आदि-दर्शनात्
5/1 एव 0 निष्कर्मा 1/1 (निष्कर्मन् पुं) सन्न्यासी
1/1 जीवन-मात्र-अर्थ-चेष्टः 1/1 सन् 1/1 कर्मणि 7/1
न 0 प्रवर्तते III/1, यद्यपि 0 प्राक् 0 विवेकतः 0 प्रवृत्तः 1/1।
यः 1/1 तु 0 प्रारब्ध-कर्मा
1/1 सन् 1/1 उत्तरकालम् 0
उत्पन्न-आत्म-सम्यग्-दर्शनः 1/1 स्यात् III/1, सः 1/1 कर्मणि 7/1 प्रयोजनम् 2/1
अपश्यन् 1/1 ससाधनम् 2/1 कर्म 2/1 परित्यजति III/1 एव 0 । सः 1/1 कुतश्चित् 0 निमित्तात् 5/1 कर्म-परित्याग-असंभवे 7/1 सति 7/1 कर्मणि 7/1 तत्फले 7/1 च 0 सङ्ग-रहिततया
3/1 स्वप्रयोजन-अभावात् 5/1 लोक-संग्रहार्थम्
0 पूर्ववत् 0 कर्मणि 7/1 प्रवृत्तः 1/1
अपि 0 नैव 0 किञ्चित् 0 करोति III/1, ज्ञानाग्निदग्धकर्मत्वात्
5/1 । तदीयम् 1/1 कर्म 1/1 अकर्म 1/1
एव 0 सम्पद्यते III/1 इति 0
एतम् 2/1 अर्थम् 2/1 दर्शयिष्यन् 1/1 आह III/1 –
त्यक्त्वा 0 कर्मसु 7/3 अभिमानम् 2/1 फल-आसङ्गम् 2/1 च 0 यथोक्तेन 3/1 ज्ञानेन 3/1 नित्य-तृप्तः 1/1 निराकाङ्क्षः 1/1 विषयेषु 7/3
इत्यर्थः 1/1। निराश्रयः 1/1 आश्रय-रहितः 1/1, आश्रयः 1/1 नाम 0 यत् 2/1 आश्रित्य 0 पुरुषार्थम् 2/1 सिसाधयिषति III/1, दृष्ट-अदृष्ट-इष्टफल-साधन-आश्रय-रहितः 1/1 इत्यर्थः 1/1। विदुषा 3/1 क्रियमाणम् 1/1 कर्म 1/1 परमार्थतः 0
अकर्म 1/1 एव 0, तस्य 6/1 निष्क्रिय-आत्म-दर्शन-संपन्नत्वात्
5/1। तेन 3/1 एवंभूतेन 3/1 स्वप्रयोजन-अभावात्
5/1 ससाधनम् 2/1 कर्म 2/1 परित्यक्तव्यम्
1/1 एव 0 इति 0 प्राप्ते 7/1, ततः 0 निर्गम-असंभवात्
5/1 लोक-संग्रह-चिकीर्षया 3/1 शिष्ट-विगर्हण-परिजिहीर्षया
3/1 वा 0 पूर्ववत् 0 कर्मणि 7/1 अभिप्रवृत्तः 1/1 अपि 0 निष्क्रिय-आत्म-दर्शन-संपन्नत्वात् 5/1 न 0 एव 0 किञ्चित् 0 करोति III/1 सः 1/1॥