Sunday, January 3, 2016

3rd Chapter 37th Sloka

श्रीभगवान् उवाच ।
काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥३.३७॥

śrībhagavān uvāca |
kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ |
mahāśano mahāpāpmā viddhyenamiha vairiṇam ||3.37||

श्रीभगवान् 1/1 उवाच III/1
कामः 1/1 एषः 1/1 क्रोधः 1/1 एषः 1/1 रजोगुणसमुद्भवः 1/1
महाशनः 1/1 महापाप्मा 1/1 विद्धि II/1 एनम् 2/1 इह 0 वैरिणम् 2/1 ॥३.३७॥


·         श्रीभगवान् [śrībhagavān] = Bhagavān = भगवत् (m.) + कर्तरि to उवाच 1/1
o   श्रिया सहित भगवान् श्रीभगवान् ।
o   भगः अस्य अस्ति इति भगवान् ।
·         उवाच [uvāca] = said = वच् (2P) to say + लिट्/कर्तरि/III/1
·         कामः [kāmaḥ] = desire = काम (m.) + 1/1
·         एषः [eṣaḥ] = this = एतद् (pron. m.) + 1/1
·         क्रोधः [krodhaḥ] = anger = क्रोध (m.) + 1/1
·         एषः [eṣaḥ] = this = एतद् (pron. m.) + 1/1
·         रजोगुणसमुद्भवः [rajoguṇasamudbhavaḥ] = rajas and its guṇa are the cause for which = रजोगुणसमुद्भव (m.) + 1/1
o   रजः च तद्गुणः च रजोगुणः (KT)
o   रजोगुणः समुद्भवः यस्य सः रजोगुणसमुद्भवः (116B)
·         महाशनः [mahāśanaḥ] = a glutton = महाशन (m.) + adj. to काम 1/1
o   महत् आशनम् यस्य सः महाशनः (116B)
6.3.46 आन्महतः समानाधिकरणजातीययोः ।
·         महापाप्मा [mahāpāpmā] = a great sinner = महापाप्मन् (m.) + 1/1   
·         विद्धि [viddhi] = know = विद् (2P) to know + लोट्/कर्तरि/II/1
·         एनम् [enam] = this = एतद् (pron. m.) + कर्मणि to विद्धि 2/1
o   अन्वादेश of एतत् = काम and क्रोध
·         इह [iha] = here = अव्ययम्
·         वैरिणम् [vairiṇam] = enemy = वैरिन् (m.) + objective complement to एनम् 2/1


Śrī Bhagavān said:
This desire, this anger, born of the guṇa rajas is a glutton and a great sinner. Know this to be the enemy here in this world.

Sentence 1:
श्रीभगवान् 1/1 उवाच III/1
Śrī Bhagavān (श्रीभगवान् 1/1) said (उवाच III/1).

Sentence 2:
एषः 1/1 कामः 1/1 एषः 1/1 क्रोधः 1/1 रजोगुणसमुद्भवः 1/1 महाशनः 1/1 महापाप्मा 1/1
This (एषः 1/1) desire (कामः 1/1), this (एषः 1/1) anger (क्रोधः 1/1), born of the guṇa rajas (रजोगुणसमुद्भवः 1/1) is a glutton (महाशनः 1/1) and a great sinner (महापाप्मा 1/1).

Sentence 3:
एनम् 2/1 इह 0 वैरिणम् 2/1 विद्धि II/1 ॥३.३७॥
Know (विद्धि II/1) this (एनम् 2/1) to be the enemy (वैरिणम् 2/1) here in this world (इह 0).



शृणु II/1 त्वम् 1/1 तम् 2/1 वैरिणम् 2/1 सर्व-अनर्थ-करम् 2/1, यम् 2/1 त्वम् 1/1 पृच्छसि II/1 इति 0 भगवान् 1/1 उवाच III/1 --
 ऐश्वर्यस्य 6/1 समग्रस्य 6/1 धर्मस्य 6/1 यशसः 6/1 श्रियः 6/1 वैराग्यस्य 6/1 अथ 0 मोक्षस्य 6/1 षण्णाम् 6/3 भगः 1/1 इति 0 ईरणा 1/1 (उक्तिः)” (विष्णु-पु. 6574) ऐश्वर्य-आदि-षट्कम् 1/1 यस्मिन् 7/1 वासुदेवे 7/1 नित्यम् 0 प्रतिबद्धत्वेन 3/1 सामस्त्येन 3/1 0 वर्तते III/1, “उत्पत्तिम् 2/1 प्रलयम् 2/1 0 एव 0 भूतानाम् 6/3 आगतिम् 2/1 गतिम् 2/1 वेत्ति III/1 विद्याम् 2/1 अविद्याम् 2/1 0 सः 1/1 वाच्यः 1/1 भगवान् 1/1 इति 0(विष्णु-पु. 6578) उत्पत्त्यादि-विषयम्  1/1 0 विज्ञानम् 1/1 यस्य 6/1 सः 1/1 वासुदेवः 1/1 वाच्यः 1/1 भगवान् 1/1 इति 0
कामः 1/1 एषः 1/1 सर्व-लोक-शत्रुः 1/1 यन्निमित्ता 1/1 सर्वानर्थ-प्राप्तिः 1/1 प्राणिनाम् 6/3
सः 1/1 एषः 1/1 कामः 1/1 प्रतिहतः 1/1 केनचित् 0 क्रोधत्वेन 3/1 परिणमते III/1
अतः 0 क्रोधः 1/1 अपि 0 एषः 1/1 एव 0 रजोगुण-समुद्भवः 1/1 [रजः 1/1 0 तत् 1/1 गुणः 1/1 रजोगुणः (KT) 1/1 सः 1/1 समुद्भवः 1/1 यस्य 6/1 सः 1/1 कामः 1/1 रजोगुणसमुद्भवः 1/1], रजोगुणस्य 6/1 वा 0 समुद्भवः 1/1
कामः 1/1 हि 0 उद्भूतः 1/1 रजः 2/1 प्रवर्तयन् 1/1 पुरुषम् 2/1 प्रवर्तयति III/1; “तृष्णया 0 हि 0 अहम् 1/1 कारितः 1/1इति 0 दुःखिनाम् 6/3 रजःकार्ये 7/1 सेवादौ 7/1 प्रवृत्तानाम् 6/3 प्रलापः 1/1 श्रूयते III/1
महाशनः 1/1 [महत् 1/1 अशनम् 1/1 अस्य 6/1 इति 0] महापाप्मा 1/1 कामेन 3/1 हि 0 प्रेरितः 1/1 जन्तुः 1/1 पापम् 2/1 करोति III/1; अतः 0 एव 0 महापाप्मा 1/1
अतः 0 विद्धि II/1 एनम् 2/1 कामम् 2/1 इह 0 संसारे 7/1 वैरिणम् 2/1

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.